________________
३९६
बृहत्कल्प - छेदसूत्रम् - ३-६/२१३ नैतावत् समं तुलति । स प्राह-एकेन संवत्सरेण हीन प्रयच्छतुः तदपि प्रतिषेधनीयः । ततो ब्रूयात्द्वाभ्यां संवत्सराभयां हीन दत्त; तदपि निषेध्यः । एवं तावद् विभाषा कर्तव्या यावद् 'एकेन दिवसेन कृतोऽ नया दर्मस्तं प्रयच्छत' ततो वक्तव्यम्-नाभ्यधिकं दद्मः किन्तु यावत् तव गृहीतं मुहूर्तादिकृतेन धर्मेण तोल्यमानं समं तुलति तावत् प्रयच्छामः । एवमुक्ते यदि तोलनाथ ढीकते तदा विद्यादिभिस्तुला स्तम्भनीया येन क्षणमात्रकृतेनापि धर्मेण सह न समं तोलयतीति । धर्मतोलनं च धर्माधिकरणिक नीतिशास्त्रमिद्धमिति ततोऽवसातव्यम् । अथासौ क्षणमात्रकृतस्यापि धर्मस्यालाभात् तपो ग्रहीतुं नेच्छेत् ततो वक्तव्यम् एषा वणिग्न्यायेन शुद्धा ॥ स प्राह-कः पुनर्वणिग्न्यायो येनैषा शुद्धा क्रियते ? साधवो ब्रुवते
[ भा. ६३०९ ]
वाणाऽऽभरणाणि य, सव्वं छड्डेउ एगवत्थेणं । पोतम्मि विवन्नम्मिं, वाणितधम्मे हवति सुद्धो ॥
वृ- यथा कोऽपि वाणिजः प्रभूतं ऋणं कृत्वा प्रवहणेन समुद्रमवगाढः, तत्र 'पोते' प्रवहणे विपन्ने आत्मीयानि परकीयानि च प्रभूतानि वस्त्राण्याभरणानि चशब्दात् शेषमपि च नानाविधं क्रयाणकं सर्वं 'छर्दयित्वा' परित्यज्य 'एकवस्त्रण' एकेनैव परिधानवाससा उत्तीर्ण 'वणिग्धमें' वणिग्न्याये 'शुद्धो भवति' न ऋणं दाप्यते । एवमियमपि साध्वी तव सत्कमात्मीयं च सारं सर्वं परित्यज्य निष्कान्ता संसारसमुद्रादुत्तीर्णा इति वणिग्धर्मेण शुद्धा, नधनिका ऋणमात्मीयं याचितुं लभन्ते, तस्माद् न किञ्चिदत्र तवाभाव्यमस्तीति करोत्विदानीमेषा स्वेच्छया तपोवाणिज्यम्, पोतपरिभ्रष्टवणिगिव निऋणो वाणिज्यमिति ।। सम्प्रत्युपसंहारव्याजेन शिक्षामपवादं चाह
[भा. ६३१०] तम्हा अपरायत्ते, दिक्खेज्ज अनारिए य वज्जेज्जा । अद्धा अनाभोगा, विदेस असिवादिसू दो वी।।
वृ- यस्मात् परायत्तदीक्षणेऽनार्यदेशगमने चैते दोषास्तस्मादपरायत्तान् दीक्षयेत् अनार्यांश्च देशान् बोधिक- स्तेनबहुलान् वर्जयेत् । अत्रैवापवादमाह - "अद्धाण" त्ति अध्वानं प्रतिपन्नस्य ममोपग्रहमेते करिष्यन्तीति हेतोः परायत्तानपि दीक्षयेत्, यदि वाऽनाभोगतः प्रव्राजयेत्, विदेशस्था या स्वरूपमजानाना दीक्षयेयुः । अशिवादिषु पुनः कारणेषु "दो वि"त्ति 'द्वे अपि' परायत्तदीक्षणाऽ नार्यदेशगमने अपि कुर्यात् । किमुक्तं भवति ? -अशिवादिषु कारणेषु समुपस्थितेषु परायत्तानपि गच्छोपग्रहनिमित्तं दीक्षयेत्, अनार्यानपि च देशान् विहरेदिति ॥
मू. (२१४) छ कप्पस्स पलिमंथू पन्नत्ता, तं जहा कोक्कुइए संजमस्स पलिमंधू 9 मोहरिए सच्चवयणस्स पलिमंधू २ चक्खुलोलए इरियावहियाए पलिमंधू ३ तिंतिनिए एसणागोवरस्स पलिमंधू ४ इच्छालोभए मुत्तिमग्गस्स पनिमंधू ५ भिञ्जानियाणकरणे मोक्खमग्गस्स पलिमंधू ६ सव्वत्थ भगवता अनियाणया पसत्था ||
- अस्य सूत्रस्य कः सम्बन्धः ? इत्याह[भा. ६३११]
दप्पेण जो उ दिक्खेति एरिसे एरिसेसु वा विहरे ।
तत्थ धुवो पलिमंथी, को सो कतिभेद संबंधो ॥
वृ- 'दर्पेण' कारणमन्तरेण य आचार्य 'ईशान्' परायत्तान् दीक्षयति, यो वा 'ईद्दशेषु' अनार्येषु देशेषु दर्पतो विहरति, तत्र 'ध्रुवः' निश्चितोऽवश्यम्भावी परिमन्थः, अतः कोऽसौ कतिभेदो वा परिमन्थः ? इत्याशङ्कानिरासाय प्रस्तुतसूत्रारम्भः । एष सम्बन्धः ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org