________________
३२२
बृहत्कल्प-छेदसूत्रम् -३-५/१७७
पंचैव निसिजाओ, तासि विभासा उ कायव्या ।।
वृ- स्थानायतं नाम ऊर्ध्वस्थानरूपमायतं स्थानं तद् यस्यामस्तिसा स्थानायतिका । केचित्तु "ठाणाइयाए" इति पठन्ति, तत्रायमर्थ सर्वेषां निषदनादीनां स्थानानां आदिभूतमूर्ध्वस्थानम्, अतः स्थानानामादौ गच्छतीति व्युत्पत्त्या स्थानादिगं तद् उच्यते, तद्योगाद् आर्थिकाऽपि स्थानादिगति व्यपदिश्यते । प्रतिमाः मासिक्यादिकाः तासु तिष्ठतीति प्रतिमास्थायिनी । “नेसज्जियाय'त्ति निषद्याः पञ्चैव भवन्ति तासां विभाषा कर्तव्या । सा चेयम्-निषद्या नामउपवेशनविशेषाः, ताः पञ्चविधाः, तद्यथा समपादयुता गोनिषधिका हस्तिशुण्डिका पर्यङ्काऽर्धपर्यज्ञ चेति । तत्र यस्यां समौ पादौ पुतौ च स्पृशतः सा समपादयुता, यस्यां तु गौरिवोपवेशनं सा गोनिषधिका, यत्र पुताभ्यामुपविश्यैकं पादमुत्पाटयति सा हस्तिशुण्डिका, पर्यङ्का प्रतीप्ता, अर्धपर्यङ्का यस्यामेकं जानुम्तापटयति । एवंविधया निषद्यया चरतीति नैषद्यिकी । उत्कटिकासनं तु सुगमत्वाद् भाष्यकृता न व्याख्यातम् ॥ [भा. ५९५४ ]
वीरासनं तु सीहासने व जह मुक्कजनुक निविट्ठो । दंडे लगंड उवमा, आयत खुज्जाय दुण्हं पि ॥
वृ- वीरासनं नाम यथा सिंहासने उपविष्द्ये भून्यस्तपाद आस्ते तथा तस्यापनयने कृतेऽपि सिंहासन इव निविष्टो मुक्तजानकु इव निरालम्बनेऽपि यद् आस्ते । दुष्करं चैतद्, अत एव वीरस्य-साहसिकस्यासनं वीरासनमित्युच्यते, तद् अस्या अस्तीति वीरासनिका । तथा दण्डासनिकालगण्डशायिकापदद्वये यथाक्रमं दण्डस्य लगण्डस्य चायत-कुब्नताभ्यामुपमाकर्तव्या । तद्यथादण्डस्येवायतं पादप्रसारणेन दीर्घं यद् आसनं तद् दण्डासनम्, तद असाय अस्तीति दण्डासनिका । लगण्डं किल-दुःसंस्थितं काष्ठम्, तद्वत् कुब्जतया मस्तकपार्ष्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः, या तथाविधाभिग्रहविशेषेण शेते सा लगण्डशायिनी । अवाङ्मुखादीनि तु पदानि सुगमत्वाद् न व्याख्यातानीति द्रष्टव्यम् । एते सर्वेऽप्यभिग्रहविशेषाः संयतीनां प्रतिषिद्धाः ॥ एतान् प्रतिपद्यमानानां दोषानाह
[ मा. ५९५५] जोणीखुब्भण पेल्लण, गुरुगा भुत्ताण होइ सइकरणं । गिरुगा सवेंटगम्मी, कारणे गहणं व धरणं वा ॥
वृ- उर्ध्वस्थानादौ स्थानविशेषे स्थिताया आर्यिकाया योनेः क्षोभो भवेत्, तरुणा वा तथास्थितां दृष्ट्वा 'प्रेरयेयुः' प्रतिसेवेरन् । अत अवैतानभिग्रहान् प्रतिपद्यमानायास्तस्याश्चतुर्गुरु । भुक्तभोगिनीनां च येन कारणेन स्मृतिकरणमितरासां कौतुकं च जायते । तथा वक्ष्यमाणसूत्रे प्रतिषेधयिष्यमाणं सवेण्टकं तुम्बकं यदि निर्ग्रन्थी गृह्णाति तदा चतुर्गुरु, स्मृतिकरणादयश्च त एव दोषाः । कारणे तु तस्यापि ग्रहणं धारणं चानुज्ञातम् । एतच्चाप्रस्तुतमपि लाघवार्थं स्मृतिकरमादिदोषसाम्यादत्र भाष्यकृताऽभिहितमिति सम्भावयामः, अन्यथा वा सुधिया परिभाव्यम् ॥ [मा. ५९५६ ] वीरासन गोदोही, मुत्तुं सव्वे वि तान कप्पंति । ते पुन पडुच चेट्ठ, सुत्ताउ अभिग्गहं पप्पा ॥
वृ- अनन्तरोक्तासनानां मध्याद् वीरासनं गोदोहिकासनं च मुक्त्वा शेषाण्यूर्ध्वस्थानादीनि सर्वाण्यपि तासां कल्पन्ते । आह- सूतरे तान्यपि प्रतिषिद्धानि तत् कथमनुज्ञायन्ते ? इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org