________________
उद्देशकः ५, मूलं-१५४, [मा. ५९०१] एवमलभ्यमाने मा पृच्छ्यते-कुतस्त्वयेदमानीतम्? ।ततो यस्मात् कूप-सरःप्रभृतेराकरादानीतं तस्य समीपे गत्वा परिठापनिकानियुक्तिभणितेन विधिना परिष्ठापयेत् । अथवा सप्रतिग्रहमपि क्षीरद्रुमस्य छायायामेकान्ते स्थापयति । अथ प्रतिग्रहोऽन्यो न विद्यते ततो यद् अपरिश्रावि घटादिकमाईजलभावितंभाजनंतत्र प्रक्षिपति॥अथ पूर्वमन्यद्रव्ये गृहीते पतितंतत इयं चतुर्भङ्गी[भा.५९०२] दव्वं तु उण्हसीतं, सीउण्हं चेव दो वि उण्हाई।
दुन्नि वि सीताइअचाउलोद तह चंदन घते य॥ वृ-इह द्रव्यं चतुर्धा, तद्यथा-किञचिदुष्णं शीतपरिणामम् १ अपरं शीतमुष्णपरिणामम् २ अन्यदुष्णमुष्णपरिणामम् ३ अपरं शीतं शीतपरिणामम् ४ । अथासन्नत्वात् प्रथमं चतुर्थमङ्गं व्याख्याति-“चाउलोद" इत्यादि।तण्डुलोदक-चन्दन-घृतादीनि द्रव्याणि 'शीतानि' शीतपरिणामानि । तृतीयभङ्गमाह[भा.५९०३] आयाम अंबकंजिय, जति उसिणानुसिण तो विवागे वी।
उसिगोदग-पेजाती, उसिणा वितणुंगता सीता ।। -आयामा-ऽम्लकालिकादीनिद्रव्याणि यधुष्णानि ततो विपाके परिणामेऽपि तान्युष्णान्येव भवन्तीति कृत्वा तृतीयो भङ्गः । यानि पुनरुष्णोदक-पेयादीनि द्रव्याणि तान्युष्णान्यपि 'तनुं' शरीरं गतानि शीतानि भवन्तीत्यनेन प्रथमो भङ्गो व्याख्यातः ॥अथ द्वितीयभङ्गं व्याचष्टे[भा.५९०४] सुत्ताइ अंबकंजिय-धनोदसी-तेल्ल-लोण-गुलमादी।
सीता वि होंति उसिणा, दुहतो वुण्हा व ते होंति ।। वृ-सुत्तं-मदिराखोलः देशविशेषप्रसिद्धो वा कश्चिद् द्रव्यविशेषः, तदादीनि यानि द्रव्याणि, यच्च अम्लं काञ्जिकम्, अम्ला च घनविकृति, अम्लं च उदश्चित्-तक्रम्, यच्च तैलं लवणं गुडो वा, एवमादीनि द्रव्याणि शीतान्यपि परिणामत उष्णानि भवन्तीति द्वितीयभङ्गेऽवतरन्ति । अथ तान्युष्णानि ततः 'उष्णानि' उष्णपरिणामानीति तृतीये भङ्गे प्रतिपत्तव्यानीति ।।
आह कतिविधः पुनः परिणामः ? इति उच्यते[भा.५९०५] परिणामो खलु दुविहो, कायगतो बाहिरो य दव्वाणं ।
सीओसिणत्तणं पिय, आगंतु तदुब्भवं तेसि ।। वृ-द्रव्याणां परिणामः द्विविधः-कायगतो बाह्यश्च । तत्र कायेन-शरीरेणाहारितानां द्रव्याणां यः शीतादिकः परिणामः स कायगतः, यः पुनरनाहारितानां स बाह्यः । स च बाह्यः परिणामः शीतो वा स्यादुष्णो वा । तदपि च शीतोष्णत्वं द्रव्यणां द्विधा-आगन्तुकंतदुद्भवं च ॥
उभयमपिव्याचष्टे[भा.५९०६] साभाविया व परिणामिया व सीतादतो तु दव्वाणं ।
असिरससमागमेण उ, नियमा परिणामतो तेसि ।। दृ-स्वाभाविका वा परिणामिका वा शीतादयः पर्याया द्रव्याणां भवन्ति । तत्र स्वाभाविका यथा-हिमं स्वभावशीतलम्, तापोदकं स्वभावादेवोष्णम् । परिणामिकास्तु पर्याया द्रव्यान्तरादिबाह्यकारणजनिताः, तथा चाह-"असरिस" इत्यादि, असशेन वस्तुना सह यः समागमःमीलकस्तेन नियमात् 'तेषां' द्रव्याणां परिणामः' पर्यायान्तरगमनं भवति, यथा-उदकादेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org