________________
३०६
बृहत्कल्प-छेदसूत्रम् - ३-५/१५३
[मा. ५८७६ ]
सत्त पदा गम्मंते, जावति कालेण तं भवे खिप्पं । कीरंति व तालाओ, अहुयमविलंबितं सत्ता ॥
वृ- यावता कालेन सप्त पदानि गम्यन्ते तत् क्षिप्रं मन्तव्यम् । यावता वा कालेनाद्भुतमविलम्बितं सप्त तालाः क्रियन्ते तावान् कालविशेषः क्षिप्रम् ||
[भा. ५८७७ ]
तम्हा विविंचितव्वं, आसने वसहि दूर जयणाए । सागारिय उन्ह ठिए, पमजणा सुत्तग दवे य ॥
वृ- तस्मात् तद् जन्तुसंसक्तमनन्तरोक्तक्षिप्रकालमध्य एव विवेचनीयम् । यदि च वसतिरासना ततस्तत्र गत्वा परित्यक्तव्यम् । अथ दूरे वसति ततः शून्यगृहादिषु यतनया परिष्ठापयति । अथ सागारिके पश्यति उष्ण वा भूभागे 'स्थितोवा' ऊर्ध्वस्थितः परिष्ठापयति ततो वक्ष्यमाणं प्रायश्चित्तम्। यत्र च परिष्ठाप्यते तत्र प्रमार्जना कर्तव्या । एवमोदनस्य विधिरुक्तः । सक्तूनांद्रवस्य चैवमेवाल्पसागारिके प्रमृज्य छायायां परिष्ठापनं विधेयम् ॥ इदमेव व्याचष्टे
[ भा. ५८७८ ] जावइ काले वसहिं, उवेति जति ताव ते न विद्दति । तं पि अनुण्हमदवं तो, गंतूणमुवस्सए एडे ॥
- यावता कालेन वसतिमुपैति तावता कालेन यदि 'ते' प्राणिनः 'न विद्रान्ति' न विनश्यन्ति तदा तद् वसतिं नीयते । तदप्यनुष्णमद्रवं च यदि भवति ततः प्रतिश्रयं नेतव्यम् । किमुक्तं भवति ? - यदि उष्णः कूरो द्रवं वा संसक्तं ततः प्रतिश्रयं न नीयते, मा यावत् प्रतिश्रयं नीयते तावत् प्राणजातीया उष्णे द्रवे वा मिरष्यन्तीति कृत्वा । अथानुष्णमद्रवं च तत उपाश्रये गत्वा 'एडयेत्' परिष्ठापयेत् । यत् पुनरुष्णं द्रयं वा तत् तत्रैव शून्यगृहादौ परिष्ठापनीयम् । अथ दूरे वसतिस्ततोऽनुष्णमपि शून्यगृहादिषु परिष्ठापयितव्यम् ॥
[ भा. ५८७९ ] सुत्रघरादीणऽसती, दूरे कोण वतिअंतरीभूतो । उक्कुडु पभज छाया, वति - कोणादीसु विक्खिरणं ।।
वृ- अथ शून्यगृहादीनि न सन्ति ततो दूरे एकान्तं गत्वा यत्र कोणस्थितो वृत्याऽन्तरितीभूतो वा सागारिको न पश्यति तत्रोत्कृटको भूत्वा प्रमृज्य छायायां वृतेः कोणके प्रक्षिपति, आदिग्रहणेन वृतेर्मध्येऽपिविकिरति, परिष्ठापयतीत्यर्थः । एवमोदनस्य सक्तूनां द्रवस्य वा परिष्ठापनं कर्तव्यम् ।
[ भा. ५८८० ] सागारिय उन्ह ठिए, अपमजंते य मासयं लहुगं । .वोच्छेदुड्डाहादी, सागारिय सेसए काया ॥
- अथ सागारिके उष्णे वा प्रदेशे भूत्वा 'स्थितो बा' ऊर्द्धभूतोऽप्रमार्ण्य वा परिष्ठापयति ततश्चतुर्ष्वपि लघुमासिकम् । सागारिके च पश्यति यदि भक्तं परिष्ठाप्यते तदा स भक्तपानदानव्यवच्छेदमुडाहादिकं वा कुर्यात् । 'शेषे तु' उष्णादित्रये परिष्ठापयतः पृथिव्यादिकाया विराध्यन्ते। [ भा. ५८८१] इइ ओअण सत्तुविही, सत्तू तद्दिनकतादि जा तिनि । वीसुं वसुं गहणं, चतुरादिदिनाइ एगत्य ॥
वृ- 'इति' एवोदनस्य संसक्तस्य विधिरुक्तः । अथ सक्तूनां संसक्तानां विधिरुच्यते-यत्र सक्तवः संसक्ता लभ्यन्ते तत्र नैव गृह्यन्ते । अथ न संस्तरन्ति ततस्तद्दिवसकृतान् सक्तून् गृह्णन्ति। आदिशब्दात् तैरप्यसंस्तरन्तो द्वितीय तृतीय दिनकृतानपि सक्तून् गृह्णन्ति, ते पुनः पृथक् पृथग्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org