________________
२८९
उद्देशक : ५, मूलं-१५१, [भा. ५७९९] भावस्याविशुद्धतया चत्वारोऽनुद्धाता मासाः॥ [भा.५८००] पंचम छ स्सत्तमिया, अट्ठमिया तेर चोद्दसमिया य ।
पनरस सोलसा विय, लतातो एया विसुद्धाओ॥ वृ-पञ्चमी षष्ठी सप्तमी अष्टमी त्रयोदशी चतुर्दशी पञ्चदशी षोडशी चेत्यष्टौ लता विशुद्धाः प्रतिपत्तव्याः, सर्वत्रापि भावस्य विशुद्धत्वात् । अत्र शिष्यः पृच्छति[मा.५८०१] दोण्ह विकतरो गुरुओ, अनुग्गतऽत्यमिय/जमाणाणं ।
आदेस दोत्रि काउं, अनुग्गए लहुगुरू इयरे ॥ वृ-अनुद्गता-ऽस्तमितभुजानयोईयोर्मध्ये कतरो गुरुतरः-महादोषः? ।सूरिराह-आदेशद्वयं कर्तव्यम् । एके आचार्या ब्रुवते-अनुद्गतभोजिनोऽस्तमितभोजी गुरुतरः । कुतः ? इति चेद् उच्यते स संक्लिष्ट परिणामः, दिवसतो भुक्त्वा भूयो रजन्याः प्रमुख एव भुङ्क्ते, तदानीं चाविशुध्यमानः कालः; अनुदितभोजीपुनःसकलांरजनीमधिसह्य क्लान्तो भुङ्क्ते, विशुध्यमानश्च तदानीं कालः, अतोऽसौ लघुतरः । अपरो भणन्ति-अस्तमितभोजिनोऽनुदितभोजी गुरुतरः, यस्मादसौसर्वां रात्रिमधिसह्य स्तोकंकालंनप्रतीक्षतेततः संक्लिष्टपरिणामः इतरस्तुचिन्तयतिभूयान् मया कालः सोढव्य अतो भुङ्क्ते, एवमसौ लघुतरः । एवमादेशद्वयं कृत्वा स्थितपक्ष उच्यते-अनुद्गते सूर्य प्रतिसमयं विशुध्यमानः कालो भवतीति कृत्वाऽनुदितभोजी लघुतरः 'इतरः पुनः' अस्तमितभोजीस तदानीं प्रतिसमयमविशुध्यमानः कालोभवतीति कृत्वा गुरुतरः।। उक्तं कालनिष्पन्न प्रायश्चित्तम् । अथ द्रव्य-भावनिष्पन्नमभिधित्सुराह[भा.५८०२] गेण्हण गहिए आलोयण, नमोक्कारे भुंजणे यसलेहे।
___ सुद्धो विगिंचमाणो, अविगिचण सोहि दव्व भावे य॥ वृ-अनुदितो वाऽस्तमितो वा रविरेतेषु स्थानेषु ज्ञातो भवेत्-“गेण्हण" त्ति कृते उपयोगे पदमेदे कृते ज्ञातम्, यथा-नाद्याप्युद्गतोऽस्तमितो वा; तदा तत एव निवर्तमानः शुद्धः । अथ ग्रहणं-गवेषणं कुर्वता ज्ञातं तदापि निवर्तमानः शुद्धः । अथ गृहीते ज्ञातं ततो यद् गृहीतं तत् परिष्ठापयन् शुद्धः । अथालोचयता ज्ञातं तदापि विविञ्चन् शुद्धः । अथ मोक्तुकामेन नमस्कार भणता ज्ञातं ततोऽपि विविञ्चन् शुद्धः । भुझानेन ज्ञातं शेषं परित्यजन् शुद्धः । अथ सर्वस्मिन् भुक्ते संलेखनाकल्पं कुर्वता ज्ञातं तथापि विविञ्चन् ‘शुद्धः' न प्रायश्चित्ती । अथ न विविनक्ति ततो द्रव्यतो भावतश्च 'शोधि प्रायश्चित्तं भवति॥तत्र द्रव्यनिष्पन्नं तावदाह[भा.५८०३] संलेह पण तिमाए, अवड दोभाए पंच मोत्तु भिक्खुस्स।
मास चउ छच्च लहु-गुरु, अभिक्खगहणे तिसूमूलं ॥ - वृ-'संलेखः' कवलत्रयप्रमाणः तमवशेषमनुद्गतेऽस्तमिते वा ज्ञातेऽपि भुङ्क्ते मासलघु । पञ्चकवलानवशिष्यमाणान्भुङ्क्तेमासगुरु।'त्रिभागः' दशकवलास्तानशेषान् भुङ्क्ते चतुर्लघु। 'अपार्थः' पञ्चदश कवलास्तानवशेषान् मुआनस्य चतुर्गुरु । "दोभाग"त्ति द्वौ त्रिभागौ विंशति कवलास्तान् भुञानस्य षड्लघु!"पंचमोत्तुं" तित्रिंशतोमध्यात्पञ्च मुक्त्वाये शेषाः पञ्चाविंशति कवलास्तान् यदि भुङ्क्ते तदाषड्गुरु । एवंयथा यथाद्रव्यवृद्धिस्तथातथाप्रायश्चित्तमपि वर्धते। 2019
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org