________________
७६
बृहत्कल्प-छेदसूत्रम् - ३-३/१०५
एवोपाश्रयपर्यापन्नस्यापि ग्रहणेऽवग्रहस्तिष्ठति, न पुनर्भूयोऽनुज्ञाप्यते । या तु सूत्रे 'लन्दाख्या' लन्द इत्यभिधानं स कालः प्रतिप्तव्य इति ।। कृता सूत्रव्याख्या भाष्यकृता । सम्प्रति नियुक्तिविस्तरः[ भा. ४७४४ ] पुव्विं वसहा दुविहे, दव्वे आहार जाव अवरहे । उवहिस्स ततियदिवसे, इतरे गहियम्मि गिण्हंति ॥
"
वृ- 'पूर्वं' प्रथमं तिष्ठन्त एव वृषभाः समन्तादुपाश्रयमवलोकयन्तो द्विविधे द्रव्ये उपयोगं प्रयच्छन्ति । द्विविधं द्रव्यं नाम आहार उपधिश्च । तत् प्राधूर्णकादयो गृहिणो विस्मृत्य परित्यज्य वा गता भवेयुः तेषु गतेषु यावदपराह्णो न भवति तावदाहारं न गृह्णन्ति, परतस्तु गृह्णन्ति । उपधेस्तु तृतीये दिवसे गते ग्रहणं कुर्वन्ति । 'इतरद्नाम' अर्थजातं तत् कदाचिदगारिणां विस्मृतं भवेत् तदेकान्ते निक्षेपणीयम् । “गहियम्मि गिण्हंति "त्ति यदि धनिकादिभि गृहीतः - प्रारब्धः प्रातिवेश्मिको नष्टो भवेत् तदा तत्रापि यत् तेषां विस्मृतं तद् यथोक्तविधिना गृह्णन्ति । एष निर्युक्तिगाथासमासार्थः ॥
साम्प्रतमेनामेव विवृणोति
[ भा. ४७४५] पायं सायं मज्झतिए व वसभा उवस्सय समंता । पेहंति अपेहाए, लहुगो दोसा इमे तत्थ ॥
वृ- 'प्रातः' प्रभाते 'सायं' सन्ध्यायां 'मध्यान्ते वा' मध्याह्नसमये वृषभा उपाश्रयं समन्तात् प्रत्युपेक्षन्ते । अप्रत्युपेक्षमाणानां लघुको मासः, दोषाश्चेमे 'तत्र' अप्रत्युपेक्षणे भवन्ति ॥ [भा. ४७४६] साहम्मि अनधम्मिय, गारत्थिणि खिवण वोसिरण रज्जू । गिण्हण-कड्ढण-ववहार- पच्छकड्डुड्डाह-निव्विसए ।।
वृ- 'साधर्मिणी' संयती 'अन्यधर्मिणी' परतीर्थिका 'अगारस्था' अविरतिका, एताः प्रद्विष्टाः सत्यः साधुप्रति श्रयसमीपेऽर्थजातस्य निक्षेपणं कुर्यु, यद्वा बालकं व्युत्सृज्य गच्छेयुः, परीषहपराजितो वा कोऽपि संयतो रज्जूदन्धनेन प्रियैत, तत्र राजपुरुषैज्ञति सति ग्रहणा ऽऽकर्षण-व्यवहारपश्चात्कृतोड्डाह-निर्विषयाज्ञापनादयो दोषा भवन्ति ॥ इदमेव भावयति
[भा. ४७४७] चोदनकुविय सहम्मिणि, परउत्थिणिगी उ दिट्ठिरागेण । अनुकंप जदिच्छा वा, छुभिज बालं अगारी वा ॥
- साधर्मिणी काचित् खण्डितशीला गर्भवती 'उड्डाहोऽयम्' इति मन्यमानैः साधुभिर्गाढं निर्भर्त्सय रजोहरणादिलिङ्गबहिकृता भवेत्, ततः सा 'मदीयं लिङ्गमपहृतम्' इति मन्यमाना तया नोदनया कुपिता सती स्वमपत्यजातं तदाश्रयसमीपे परित्यजेत् । परतीर्थिनी तु 'दृष्टिरागेण' 'माऽस्माकमपयशःप्रवादो भविष्यति' इति कृत्वा संयतानामुपाश्रयसन्निधौ बालकं व्युत्सृजेत्; वरं लोकश्चिन्तयिष्यति एतैरेवैतद् जनितमिति । अथवा अगारी काचिदनुकम्पया यच्छया वा बालकं तत्र प्रक्षिपेत् । तत्र 'अनुकम्पया नाम' दुष्कालादौ काचिद् दुःस्थयोषिद् जीवनाय स्वापत्यं तदाश्रयान्तिके त्यजति-वरमेतेऽनुकम्पापरायणा अमुं बालकं शय्यातरस्यापरस्य वा ईश्वरस्य गृहे निक्षेप्स्यन्तीति । ' यच्छया' अभिसन्धिमन्तरेणैवमेव व्युत्सृजति ॥
[भा. ४७४८] हाउं व जरेउं वा, अचदंता तेनाति वत्थादी । एएहिं चिय जनियं, तहिं च दोसा उ जनदिट्ठे ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org