________________
बृहत्कल्प-छेदसूत्रम् - ३-३/१०४
शरीरं हुण्डादिसंस्थानं विरूपं वा, वाग्गर्हा मन्मनं काहलं वा ते जल्पन्ति, मनोगर्हा न तेषां तथाविधमूहा-ऽपोहपाटवं न वा ग्रहण-धारणासामर्थ्यमिति । 'अथ' एषा त्रिविधा गर्हा भवति ।। प्रकारान्तरेण गर्हामेवाह
७४
[ भा. ४७३४ ] पव्वयसि आम कस्, त्ति सगासे अमुगस्स निद्दिट्ठे । आयपराधिगसंसी, उवहणति परं इमेहिं तु ।।
वृ- कोऽपि शैक्षः केनापि साधुना पृष्टः प्रव्रजसि त्वम्; स प्राह-आमम्; 'कस्य सकाशे ? ' इति पृष्टः सन् भूयोऽप्याह-अमुकस्याचार्यस्य समीपे, एवं 'निर्दिष्टे' उक्ते स साधुरात्मानं परस्मादधिकं शंसितुम् - आख्यातुं शीलमस्येत्यात्मपराधिकशंसी परममीभिर्वचनैरुपहन्ति ।। तद्यथा[भा. ४७३५ ] अबहुस्सुताऽविसुद्धं, अधछंदा तेसु वा वि संसगिंग । ओसन्ना संसग्गी, व तेसु एक्केक्कए दुन्नि ।।
वृ- अहं बहुश्रुतः सोऽबहुश्रुतः, अहं विशुद्धपाठकः स पुनरविशुद्धपाठी, यद्वा यथाच्छन्दास्ते आचार्या 'तैर्वा' यथाच्छन्दैः सह ते गाढतरं संसर्गिणः, गाथायां तृतीयार्थे सप्तमी, अवसन्ना वा ते तैः सार्धं संसर्गिणो वा, एवं पार्श्वस्थादावपि एकैकस्मिन् भेदे द्वौ द्वौ दोषावेवमेव वक्तव्यौ । अथ काय वाङ्मनोगहमिव प्रकारान्तरेणाह
[भा. ४७३६] सीसोकंपण हत्थे, कन्न दिसा अच्छि कायिगी गरिहा ।
वेला अहो यह त्तिय, नामं ति य वायिगी गरहा ।।
वृ- शीर्षावकम्पनं हस्तविलम्बनं कर्णस्थगनम् अन्यस्यां दिशि स्थानम् अक्षिनीमीलनम् अनिमेषलोचनस्य वा क्षणमवस्थानम् एषा सर्वाऽपि कायिकी गर्हा । यत्तु अस्यां वेलायां नाम न ग्रहीतव्यम् अहो ! कष्टम् हाहाकारकरणम् नाम च तस्य कदाऽपि न ग्रहीतव्यमित्यादिभाषणं सा वाचिकी गर्हा ॥
[ भा. ४७३७ ] अह मानसिगी गरहा, सूतिजति नित्त-वत्तरोगेहिं । धीरत्तणेण य पुनो, अभिनंदइ नेय तं वयणं ।।
वृ- 'अथ' अनन्तरं मानसिकी गर्हा मनसि तमाचार्यं जुगुप्सते । कथमेद् ज्ञायते ? इत्याहनेत्र-वक्रयोः सम्बन्धिनो ये रागाः - मुकुलन- विच्छायीभवनादयो विकारास्तैः सूच्यते मानसिकी गर्हेति । यद्वा 'प्रव्रजामि' इति भणिते 'साध्विदम्, कृत्यमेतद् भव्यानाम्' इत्यादिवचोभिर्नैव तदीयं वचनमभिनन्दते, धीरतया वा तूष्णीक आस्ते । एवमन्यतरस्मिन् गर्हापरकारे कृते तस्य शङ्का भवति- अवश्यमकार्यकारी स आचार्यादि सम्भाव्यते, न चामी साधवोऽलीकं भाषन्ते, अहमपि तत्र गत आत्मानं नाशयिष्यामीति ।
[भा. ४७३८] एतानि य अन्नानि य, विष्परिणामणपदाणि सेहस्स । उवहि-नियडिप्पहाणा, कुव्वंति अनुजुया केई ||
वृ- 'एतानि च ' अनन्तरोक्तानि 'अन्यानि च' द्रव्य-क्षेत्र - कालभावैः शैक्षस्य विपरिणामनपदानि भवन्ति तत्र द्रव्यतो मनोज्ञाहारादि ददाति, क्षेत्रतः प्रवात-निवाते मनोऽनुकूले प्रदेशे तं सथापयति, कालतो वेलायामेव भोजयति, भावतस्तस्याकर्षणार्थं हित-मधुरमुपदेशं ददाति । एवं केचिद् 'अनृजुकाः' शठा उपधि-परवञ्चनाभिप्रायो निकृति कैतवार्थप्रयुक्तवचना ऽऽकाराच्छादनं ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org