________________
૪૪
बृहत्कल्प-छेदसूत्रम् - ३-३/९९
जं सुणमाणस्स कहं, समणेण न सा कहेयव्वा ॥
वृयां कथां शृण्वतः श्रोतुः स्त्रीवर्णकादिश्रवणजनितो यः शृङ्गारो नाम रसस्तेनोत्तेजिता सती मोहमयी फुम्फुका 'हसहसति' जाज्वल्यते सा कथा श्रमणेन न कथयितव्या ॥ [ भा. ४५८९ ] समणेण कहेयव्वा, तव-नियमकहा विरागसंजुत्ता । जं सोऊण मनूसो, वच्चइ संवेग-निव्वेयं ॥
वृ- तपः अनशनादि नियमाः - इन्द्रिय- नोइन्द्रियनिग्रहास्तत्प्रधाना कथा तपो नियमकथा 'विरागसंयुक्ता' न निदानादिना रागादिसङ्गता श्रमणेन कथयितव्या, यां श्रुत्वा 'मनुष्यः' श्रोता संवेग-निर्वेदं व्रजति । संवेगः - मोक्षाभिलाषः, निर्वेदः - संसारवैराग्यम् ॥
मू. (१००) नो कप्पति निग्गंधाण वा निग्गंथीण वा अंतरगिहंसि इमाई पंच महव्वयाई सभावणाई आइक्खित्तए वा विभावित्तए वा किट्टित्तए वा पवेयत्तए वा, नऽन्नत्थ एगनाएण वा जाव सिलोएण वा, से वि य ठिचा नो चेव नं अठिच्चा ।।
वृ- अस्य व्याख्या प्राक्सूत्रवद् द्रष्टव्या । नवरम् 'इमानि' स्वयमनुभूयमानानि पञ्च महाव्रतानि ‘सभावनानि' प्रतिव्रतं भावनापञ्चकयुक्तान्याख्यातुं वा विभावयितुं वा कीर्त्तयितुं वा प्रवेदयितुं वा न कल्पन्ते । आख्यानं नाम साधूनां पञ्च महाव्रतानि पञ्चविंशतिभावनायुक्तानि षट्कारक्षणसाराणि भवन्ति । विभावनं तु-प्राणातिपातद् विरमणं यावत् परिग्रहाद् विरमणमिति । भावनास्तु- "इरियासमिए सया जाए०" इत्यादिगाथोक्तस्वरूपाः । षट्कायास्तु पृथिव्यादयः । कीर्त्तनं नाम - या प्रथमव्रतरूपा अहिंसा सा भगवती सदेव-मनुजा ऽसुरस्य लोकस्य पूज्या द्वीपः त्राणं शरणं गति प्रतिष्ठेत्यादि, एवं सर्वेषामपि प्रश्नव्याकरणाङ्गोक्तान् गुणान् कीर्त्तयति । प्रवेदनं तु महाव्रतानुपालनातू स्वर्गोऽपवर्गोवा प्राप्यत इति सूत्रार्थः ।। परः प्रह-ननु पूर्वसूत्रेण गतार्थमिदम् अतः किमर्थमारभ्यते ? उच्यते
[ भा. ४५९० ] गहिया - Sगहियविसेसो, गाधासुत्तातो होति वयसुत्ते । निदेसकतो व भवे, परिमाणकतो व विनेतो ॥
वृ-गाथासूत्राद् व्रतसूत्रे ग्रथिता ऽग्रथितविशेषो मन्तव्यः । किमुक्तं भवति ? - अनन्तरसूत्रे "चउगाहं वा पंचगाहं वा" इत्युक्तं ताश्च गाथा ग्रथिता भवन्ति, इमानि तु महाव्रतानि ग्रथितानि अग्रथितानि वा भेयुः । ग्रथितानि नाम-पद-पाठबन्धेन वा श्लोकबन्धेन वा बद्धानि, अग्रथितानि तु-मुत्कलैरेव वचनैर्यान्यभिधीयन्ते । यद्वा निर्देशकृतोऽत्र विशेषो भवति-अनन्तरसूत्रे "चतुर्गाथं पञ्चगाथं वा कथयितुं न कल्पते" इत्युद्देशमात्रमेव कृतम्, अत्र तु "महाव्रतानि सभावनाकानि" इत्यनेन तस्यैव विशेषनिर्देशः क्रियते । परिमाणकृतो वा विशेषो विज्ञेयः यदधस्तनसूत्रे धर्मस्वरूपमुक्तं तदेवात्र “महाव्रतपञ्चकम्" इति सङ्घयया विशेषितं निरूप्यते ।। अथात्रैव दोषानाह[भा. ४५९१] पंचमहव्वयतुंगं, जिनवयणं भावनापिणिद्धागं ।
साहणे लहुगा आणाइ दोस जं वा निसिज्जाए ॥
वृ- इह जिनवचनं मे रुसदृशं पञ्चभिर्महाव्रतैस्तुङ्गम्-उच्छ्रितम्, पञ्चमहाव्रतमयोच्छ्रयमित्यर्थः । तस्यैव च महाव्रतोच्छ्रयस्य रक्षणार्थं भावनाभि पञ्चविंशतिसङ्ख्याकाभि पिनद्धं गाढतरं नियन्त्रितम् । ईध्शं जिनवचनमन्तरगृहे उपविश्य कथयतश्चतुर्लघुकाः आज्ञादयश्च दोषाः । यद् वा गृहनिषद्यायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org