________________
१०६
बृहत्कल्प-छेदसूत्रम् -१'स्वपक्षतः परपक्षतश्च' स्वपक्षापातवत् परपक्षापातवच्चेत्यर्थः । तत्र ‘स्वपक्षे' स्वपक्षविषये द्विविधमापातवत्, तद्यथा-'संयतानां संयतीनांच' संयतापातवत् संयत्यापातवन्चेति भावः ।। [भा.४२१] संविग्गमसंविग्गा, संविग्ग मणुन्न एतराचेव।
असंविग्गा विय दुविहा, तप्पक्खिय एयरा चेव ।। वृ-संयताअपिद्विविधाः-संविग्नाअसंविग्नाश्च । संविग्ना उद्यतविहारिणः, असंविग्नाः शिथिलाः पार्श्वस्थादयः । संविग्ना अपि द्विविधाः-'तत्पाक्षिकाः' संविग्नपाक्षिकाः 'इतरे' असंविग्नपाक्षिकाः ।। उक्तं स्वपक्षापातवत् । सम्प्रति परपक्षापातवत् प्राह[भा.४२२] परपक्खे वियदुविहं, माणुस तेरिच्छगं च नायव्वं ।
एकेकंपियतिविहं, पुरिसित्थि नपुंसगंचेव । वृ- 'परपक्षेऽपि' परपक्षविषयेऽप्यापातवद् द्विविधं ज्ञातव्यम्-'मानुषं तैरश्चं च' मनुष्यापातवत् तिर्यगापातवच्चेत्यर्थः । “एकैकमपि' मानुषं तैरश्चंचत्रिविधम्, तद्यथा-पुरुषवत् स्त्रीवद् नपुंसकच्च, पुरुषापातवत् रुयापातवद् नपुंसकापातवच्चेति भावः ।। [भा.४२३] पुरिसावायं तिविहं, दंडिय कोडुबिए य पागइए।
तेसोयऽ-सोयवादी, एमेव नपुंस-इत्थीसु।। वृ- 'पुरुषापातं' पुरुषापातवत् त्रिविधम्, तद्यथा-'दण्डिके कौटुम्बिके प्राकृते च' दण्डिकपुरुषापातवत् कौटुम्बिकपुरुषापातवत् प्राकृतपुरुषापातवचेत्यर्थः । दण्डिका राजकुलानुगताः, कौटुम्बिकाः शेषामहर्द्धिकाः, इतरे प्राकृताः। तेच' त्रयोऽपिप्रत्येकंद्विविधाःशौचवादिनोऽशौधवादिनश्च । एवमेव' अनेनैवप्रकारेण नपुंसक-स्त्रयोरपिवक्तव्यम्।किमुक्तं भवति ?-नपुंसकापातवत् रुयापातवच्च प्रत्येकं प्रथमतो दण्डिकादिभेदतस्त्रिविधम् । ततः शौचवाद्यशौचवादिभेदतः पुनरेकैकं द्विविधम् ।।
उक्तं मनुष्यापातवद् । अधुना तिर्यगापातवदाह[भा.४२४] दित्तमदित्ता तिरिया, जहन्नमुक्कोस मज्झिमा तिविहा।
एमेवेस्थि-नपुंसा, दुगुंछिय-ऽदुगुंछिया नवरं ॥ कृ-तिर्यञ्चो द्विविधाः-प्ताअध्ताश्च । तादपवन्तः, अध्प्ताः शान्ताः । ते प्रत्येकं त्रिविधाःजघन्या उत्कृष्ट मध्यमाश्च । जघन्या एडकादयः, मध्यमा महिषादयः, उत्कृष्टा ,हस्त्यादयः । एते किल पुरुषा उक्ताः । एवमेव स्त्री-नपुंसका अपि वक्तव्याः । नवरं ते ८प्ता अध्याश्च प्रत्येक द्विविधा विज्ञेयाः, तद्यथा-जुगुप्सिता अजुगुप्सिताश्च। जुगुप्सितागर्दभ्यादयः, इतरे अजुगुप्सिताः। उक्तमापातवत् । संलोकवद् मनुष्येष्वेव द्रष्टव्यम् । ते च मनुष्यास्त्रीविधाः, तद्यथा-पुरुषाः स्त्रयो नपुंसकाश्च । एकैके प्रत्येकं त्रिविधाः-प्राकृताः कौटुम्बिका दम्डिकाश्च । पुनरेकैके द्विविधाःशौचवादिनोऽशौचवादिनश्च । उक्तञ्च
आलोगो मनुएसुं, पुरिसिस्थि-नपुंसगाण बोधव्वो।
पायय कुडुबि दंडिय, असोय तह सोयवादीणं ॥ तदेवमापात-संलोकौ चरमभङ्गे, द्वितीयेऽऽपातः, तृतीयेसंलोकः । उक्ता भेदप्रभेदयुक्ता एते स्थण्डिलभेदाः ।। गतं भेदद्वारम् । अधुना शोधिद्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org