________________
१०४
बृहत्कल्प-छेदसूत्रम् -१. सामायिकसूत्रं दीयते, ततः-“सामायिकं मे दत्तम् इच्छामोऽनुशिष्टिम्" इति; सूरयो द्रुवतेनिस्तारकपारगो भव, क्षमाश्रमणानां गुणैर्वर्धस्व । एषामुण्डापना । “सिक्खावण"त्ति तदनन्तरं द्विविधामपि शिक्षा ग्राह्यते, तद्यथा-ग्रहणशिक्षामासेवनाशिक्षां च । ग्रहणशिक्षा नाम पाठः, आसेवनाशिक्षा समाचारीशिक्षणम् । यदा द्विविधामपि शिक्षां ग्राहितो भवति तदास उपस्थाप्यते प्रशस्तेषुद्रव्य-क्षेत्रादिषु । द्रव्यतः शालिकरणे इक्षुकरणे चैत्यवृक्षे वा । क्षेत्रतः पद्मसरसि सानुनादे चैत्यगृहे वा । कालतश्चतुर्थ्यष्टम्यादिवर्जितासु तिथिषु। भावतोऽनुकूले नत्रे, यदि तस्य जन्मनक्षत्रं न ज्ञायते तदाऽऽचार्यस्यानुकूले नक्षत्रे सुन्दरे मुहूर्ते यथाजातेन लिङ्गेन; तद्यथा-रजोहरणेन निषद्याद्वयोपेतेन मुखपोतिकया चोलपट्टेन च वामपार्श्वे स्थापयित्वा एकैकंमहाव्रतं त्रीन् वारान् उच्चार्यते यावद् रात्रिभोजनम्।
अथ ते द्वौत्रयो बहवो वा भवेयुस्ततो यथाक्योवृद्धम्; अथ ते क्षत्रिया राजपुत्राः तत्र यः स्वत एवासन्नतर आचार्यस्य स रत्नाधिकः क्रियते, इतरो लघुः; अथ द्वावप्युभयतः पार्श्वयोः समौ व्यवस्थितौ तदा तौ द्वावपि समरत्नाधिकौ व्रतेषूच्चारितेषु प्रदक्षिणां कारयित्वा पादयोः पात्यते (पात्येते) भाण्यते (भाण्येते) च-महाव्रतानिममारोपितानि, इच्छामोऽनुशिष्टिम्, शेषाणामपि साधूनां निवेदयामि । गुरुभणति-निवेदय । इदं च भणति-निस्तारकपारगो भव, क्षमाश्रणानांच गुणैर्वर्धस्व । एवमुपस्थिते द्विविधः सङ्ग्रहः साधोः, यथा-अहं तव आचार्य, अमुकस्ते उपाध्यायः। साव्यास्त्रीविधः सङ्ग्रहः, त्र तृतीया अमुका ते प्रवर्तिनी।
एवमुपस्थाप्य केषाञ्चित् पञ्चकल्याणकं केषाञ्चिदभक्तार्थं केषाञ्चिदाचाम्लं केषाञ्चिन्निर्विकृतिकमपरेषां न किञ्चित्, किंबहुना ? यद्यस्य तपः कर्म आवलिकागतं स तद् दत्त्वा तेन सहैकत्रमण्डल्यांसम्भुङ्के, संवसनंच करोति।शैक्षकपरिपालना चेयम्-यावन्नोपस्थाप्यते तावन्न भिक्षां हिण्डापयितव्यः ।। कथं पुनरुपस्थापनीयः? इत्यत आह[भा.४१४] पढिए य कहिय अहिगय, परिहर उवठावणाए सो कप्पो ।
छक्कं तीहि विसुद्धं, परिहर नवगेण भेदेन ।। वृ-सूत्रं प्रथमतः पाठयित्वा तदनन्तरम) कथयित्वा ततः 'अधिगतोऽनेनार्थ, सम्यक् श्रद्धानविषयीकृतश्च' इति परीक्ष्ययदा षट्कं षडजीवनिकायान् 'त्रिभि' मनो-वाक्-कायौर्विशुद्धं भावतोन परानुवृत्या परिहरति । कथं परिहरति? इत्यत आह-नवकभेदेन षटकम्, मनसा स्वयं परिहरति अन्यैः परिहारयति परिहरन्तमन्यं समनुजानाति, एवं वाचा कायेन च प्रत्येकं त्रयस्त्रयो भेदा द्रष्टव्याः ।। एष उपस्थापनायाः कल्पः । सम्प्रति विचारकल्पमाह[भा.४१५]अप्पत्ते अकहित्ता, अनहिगयऽपरिच्छनम्मिचउगुरुगा।
दोहि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा ।। वृ. सूत्रे सप्तसप्तकलक्षणे ओधनियुक्तिलक्षणे वा अप्राप्ते यदि विचारभूमावेकाकिनं प्रस्थापयति तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः । ते च द्वाभ्यां गुरुकाः, तद्यथा-तपोगुरुकाः कालगुरुकाश्च । अथ प्राप्तेऽपि श्रुते तदर्थमकथयित्वा कथनेऽपि 'अधिगतस्तदर्थो न वा ?' इत्यपरिज्ञाय अधिगतमपि 'सम्यक् श्रद्दधाति न वा ?' इत्यपरीक्ष्य यदि प्रेषयति तदा प्रत्येकमकथनेऽनधिगमेऽपरीक्षणे च तस्य प्रायश्चित्तं चत्वारो लघुकाः । ते च विचाराधिकारात्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org