________________
उद्देशकः३, मूलं-९७, [भा. ४४२१] प्रतीपक्रमेणाचार्यादीनांवक्तव्यम्,आचार्यस्य भित्रमासः,अभिषेकस्य लघुमासः,भिक्षोश्चतुर्लघवः, क्षुल्लकस्य चतुर्गुरु इति भावः । एष सङ्ग्रहगाथासमासार्थः ।। अथैनामेव विवृणोति[भा.४४२२] आयरियस्सायरियं, अनुट्ठियंतस्स चउगुरू होति।
वसभे भिक्खू खुडे, लहुगा लहुगो य भिन्नो य ।। वृ- आचार्यस्याचार्य प्राघूर्णकमायान्तमनुत्तिष्ठतश्चतुर्गुरवो भवन्ति, वृषभमनभ्युत्तिष्ठतश्चतुर्लघुकाः, भिक्षुमनत्तिष्ठतो लघुमासः, क्षुल्लकमनुत्तिष्तो भिन्नमासः॥
एवमाचार्यास्य प्रायश्चित्तमुक्तम् । अथ शेषाणामतिदिशति[भा.४४२३] सट्ठाण परहाणे, एमेव य वसह-भिक्खु-खुड्डाणं ।
जंपरठाणे पावइ, तं चेव य सोहि सट्ठाणे॥ वृ-एवमेववृषभ-भिक्षु-क्षुल्लकानामपि स्वस्थान-परस्थानप्रायश्चित्तं वक्तव्यम्। स्वस्थाननामवृषभस्य वृषभः, परस्थानं वृषभस्याचार्य-भिक्षु-क्षुल्लकाः; एवं भिक्षु-क्षुल्लकयोरपि स्वस्थानपरस्थानभावना कर्तव्या । अत्र च यत् परस्थाने आचार्य प्राप्नोति तदसावपिवृषभादि स्वस्थाने प्राप्नोति । किमुक्तं भवति?-वृषभस्य प्राघूर्णकचार्यमनभ्युत्तिष्ठतश्चतुर्गुरुकाः वृषभस्यानभ्युत्थाने चतुर्लघवः,भिक्षोरनभ्युत्थाने मासलघु, क्षुल्लकस्थानभ्युत्थाने भिन्नमासः; एवं भिक्षु-क्षुल्लकयोरपि मन्तव्यम् । अत्र परस्थानमाचार्यस्य वृषभादयः, तेषामनभ्युत्थाने यथाऽसौ चतुर्लघुकादिकमापन्नवान् तथा वृषभादयोऽपि स्वस्थानमनभ्युत्तिष्ठन्तस्तदेव प्राप्नुवन्ति ।।
अथैतदेव प्रायश्चित्तं तपः-कालाभ्यां विशेषयन्नाह[भा.४४२४] दोहि विगुरुगा एते, आयरियस्सा तवेन कालेन ।
तवगुरुगा कालगुरू, दोहि वि लहुगा य खुड्डस्स ।। वृ.आचार्यस्य 'एतानि चतुर्गुरुकादीनि प्रायश्चित्तानि द्वाभ्यामपि गुरुकाणि कर्तव्यानि, तद्यथा-तपसा कालेनच। वृषभस्य तपोगुरुकाणि, भिक्षोः कालगुरुकाणि, क्षुल्लकस्य द्वाभ्यामपि' तपः-कालाभ्यां लघुकानि॥ [भा.४४२५] अहवा अविसिट्ठ चिय, पाहुणयाऽऽगंतुए गुरुगमादी ।
___ पाति अनुर्द्धिता, चउगुरु लहुगा लहुग भिन्नं ॥ कृ'अथवा इतिप्रायश्चित्तस्य प्रकारान्तरताद्योतकः। अविशिष्टमेव' आचार्यादिविशेषैर्विरहितं प्राघूर्णकमागन्तुकमनत्तिष्ठन्तः 'गुर्वादयो' आचार्यप्रभृतयो यथाक्रमंचतुर्गुरुक-चतुर्लघुकलधुमासभिन्नमासान् प्राप्नुवन्ति । तद्यथा-आचार्यस्य यं वा तं वा प्रघूर्णकमागतमनभ्युत्तिष्ठतशचतुर्गुरु वृषभस्य चतुर्लघु, भिक्षोलघुमासः, क्षुल्लकस्य भिन्नमास इति ॥ [भा.४४२६] अहवा जंवा तं वा, पाहुणगं गुरुमनुट्ठिहं पावे ।
भिन्नं वसभी सुकं, भिक्खुलहू खुड्डए गुरुगा। वृ-अथवायंवातंवाप्राघूर्णकमनुत्तिष्ठन् 'गुरु' आचार्यो भिन्नमासंप्राप्नोति, वृषभः शक्लमासं' लधुमासमित्यर्थः, भिक्षुश्चतुर्लधुकम्, क्षुल्लकश्चतुर्गुरुकम् । एतेन “पडिलोम बिइएणं" ति पदं व्याख्यातम् । अथ किमर्थमयं द्वितीयादेशः प्रवृत्तः? इत्याह
[भा.४४२७] वायण-वावारण-धम्मकहण-सुत्तत्थचिंतणासुंच ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org