________________
৮০
बृहत्कल्प-छेदसूत्रम् -२-३/९४ शीतलविहारितादोषस्तेषां परितो भवति; 'भगवतः' वर्द्धमानस्वामिनो या आज्ञा तां तथेति प्रतिपत्त्या प्रतीच्छताम्, अनेन यथाच्छन्दतादोषस्तेषां नास्तीत्युक्तं भवति; एवंविधानां साधूनां क्षेत्रे 'अन्तरा' तैरगृहीते उपकरणेयो वस्त्रदि गृह्णाति तस्य तत्स्थानारोपणा' स्वस्थानप्रायश्चित्तम्, तद्यथा-उत्कृष्टे चतुर्लघवः, मध्यमे मासिकम्, जघन्ये पञ्चकम्; सूत्रादेशेन वा साधर्मिकस्तैन्यमिति कृत्वाऽनवस्याप्यम् ।
"अदत्तं"ति भगवता नानुज्ञातमिति कृत्वा तीर्थकरदत्तमपि भवति ।। [भा.४३००] उवरि पंचमपुन्ने, गहणमदत्तं गत त्ति गेहंति ।
अनपुच्छ दुपुच्छा वा, त पुने गत त्ति गेण्हंति॥ वृ-परक्षेत्रे द्वयोर्मासयोरुपरि पञ्चसु दिनेष्वपूर्णे, यदि ग्रहणं करोति तदा अदत्तादानदोषः प्रसज्यते । अथ जानन्ति गता अन्यदेशं क्षेत्रस्वामिनस्ततोऽपूर्णेष्वपि पञ्चरात्रिन्दिवेषु गृह्णन्ति । अथ शङ्कितं ततो न गृह्णन्ति । अथ ते परदेशं न गतास्ततो यद्यनापृच्छया दुःपृच्छया वा वस्त्रं गृह्णन्ति ततस्तथैवादत्तादानदोषं प्राप्नुवन्ति । यत एवमतः 'तद्' वस्त्रदिकमुपकरणं 'गता निशिकतमन्यदेशंक्षेत्रिकाः' इति विज्ञाय पूर्णेमासद्वयेगृह्णन्ति।अत्रानापृच्छा नाम-'क्षेत्रिकैर्वस्त्रग्रहणं कृतं न वा' इति न पृच्छति, दुःपृच्छा पुनः अविधिना प्रच्छन ।
सा चेयम्[भा.४३०१] गोवाल-वच्छवाला-कासग-आदेस-बालव-वुड्वाई।
अविधी विही उसावग-महतर-धुवकम्मि-लिंगत्था ।। दृ-ये गोपाल-वच्छपाल-कर्षकाः प्रभाते निर्गताः सन्तो भूयः प्रदोषे ग्राम प्रविशन्ति, ये वा तत्रांदेशाः-प्राघूर्णका अन्यग्रामादायाताः, ये वा बाल-वृद्धायोऽत्यन्तमुग्धा विस्मरणशीलाश्च तान्पृच्छति-किं श्रमणैः कृतं वस्त्रग्रहणं नवा? इति; एषाअविधिपृच्छा । विधिपृच्छा पुनरियम्श्रावका ग्राममहत्तरा वा प्रच्छनीया येषु साधूनां वस्त्रग्रहणसम्भवो भवति, ये वा ध्रुवकर्मिकाःलोहकार-रथकारादयः ये वा लिङ्गस्थाः-लिङ्गधारिमस्तान् पृच्छति 'वस्त्रादिग्रहणं साधुभिः कृतं नवा?' इति ॥
परक्षेत्रे वस्त्रग्रहणविधिमभिधित्सुराह[भा.४३०२] गंतूण पुच्छिऊण य, तेसिं वयणे गवेसणा होति ।
तेसाऽऽगतेसु सुद्धेसु जत्तियं सेस अग्गहणं॥ इ-क्षेत्रस्वामिनांसमीपे गत्वा विधिवद् आपृच्छय तेषां साधूनां वचने' अनुज्ञायां तदीये क्षेत्रे वस्त्रगवेषणा कर्तव्या भवति । अथ न ज्ञायन्ते ते कुत्रापि गताअमीभिश्च साधुभिस्तत्र वस्त्रग्रहणं कियदपि कृतं ते च क्षेत्रस्वामिन आगताः ततस्तेषु 'शुद्धेषु' विधिना आगतेषु यावद् वस्त्रादि गृहीतं तावत् तेषां प्रत्यर्पयितव्यम्, शेषस्य चोपकरणस्य ग्रहणं न कर्त्तव्यम् ।।
इदमेव सविशेषमाह[भा.४३०३] उप्पन्न कारणाऽऽगंतु पुच्छिउँ तेहि दिन्न गेण्हति ।
तेसाऽऽगयेसु सुद्धेसु जत्तियं सेस अग्गहणं ॥ वृ-बाल-वृद्ध-शैक्षादीनांशीतपरितापनालक्षणे वस्त्रग्रहणकारणे उत्पने स्वक्षेत्रे वस्त्रदुर्लभतां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org