SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २४४ गच्छाचार-प्रकिर्णकसूत्रम् ९७ कषायवत्, 'चेव'त्ति यथार्थे यथा 'सु' इति अतिशयेन निविष्टः-स्थितः सुनिविष्टः' पदमपि गन्तुमसमर्थ इत्यर्थः ‘पङ्गुलः' पङ्गु उत्थातुं न शक्नोतीति॥ मू. (९८) धम्मतरायभीए भीए संसारगब्भवसहीणं। न उईरंति कसाए मुनी मुणीणं तयं गछं। वृ. अगाधसंसारसागरे पततां जीवानां धत्ते इति धर्म-सर्वज्ञोक्तज्ञानदर्शनचरणरूपस्तस्यान्तरायो-निद्राविकथाकुमत्यादिविघ्नस्तस्माद्भीताः त्रस्ताः, तथा 'भीताः' कम्पमानाः संसरणं संसारो-भवभ्रमणं गर्भे वसनं वसति गर्भवसति संसारश्च गर्भवसतिश्च संसारगर्भवसती ताभ्यां, यद्वा संसारे-चतुर्गत्यात्मके गर्भवसतयस्ताभ्यः 'नोदीरयन्ति' प्रशान्ताः सन्तः कुवाक्यादिना नोत्थापयन्तीत्यर्थः, कान्?-'कषायान्'कोधादीन् मुनयो मुनीनांस गच्छः। अत्र कषायोदये उदाहरणानि वाच्यानि, यथा-क्रोधे गोधातकमरुकोदाहरणं १, मानेऽचंकारिभट्ठोदाहरणं २, मायायां पण्डार्योदाहरणं ३, लोभे आर्यमङग्वाचार्योदाहरण ४ मिति।। मू. (९९) कारणमकारणेणं अह कहवि मुणीण उट्ठहि कसाए। उदएवि जत्थ रुंभहि खामिज्जइ जत्थतं गच्छं। वृ. तथा 'कारणे' गुरुग्लानशैक्षादिवैयावृत्यादिप्रयोजने सारणवारणनोदनादिकारणे वा 'अकारणे' बहिप्रयोजनाभावे वा 'ण' वाक्यालङ्कारे, यद्वा मकारोऽलाक्षणिकः कारणाकारणेन, अथ कथमपि 'मुनीनां' ज्ञातागमतत्वानांकषायविपाकवेत्त णां 'उहिहिति' उतपद्यन्ते-प्रकटीभवन्ति 'कषायाः' क्रोधादयः 'उदएवित्तिउत्पद्यमाना अपियत्र रुमेहिति' रुध्यन्ते क्षाम्यन्ते च यत्र स गच्छः॥ मू. (१००) सीलतवदानभावन वउविहधम्मंतरायभयभीए। जत्थ बहू गीयत्थे गोयम ! गच्छं तयं भणियं । वृ. सीलत०॥ दीयत इति दान-सुपात्रानुकम्पादिकं १ शीलमष्टादशधाऽब्रह्मवर्जनं २ तप्यतेऽष्टप्रकारं कर्मानेनेति तपः-रत्नावलीकनकावल्येकावलीमुक्तावलीश्रेणिवर्गधनप्रमुखषष्ट्यधिकशतत्रय ३६० भेदभिन्नं, उक्तञ्च श्रीगणिविद्याप्रकीर्णके॥१॥ “महा १ भरणि २ पुव्वाणि, तिन्नि उग्गा वियाहिया । एएसुतवं कुजा, सब्तिरबाहिरं ।। ॥२॥ तिन्नि सयाणि सट्टाणि, तवोकम्माणि आहिया। छग्गनक्खत्तजोएसु, तेसुमनतरं करे ।। इति ॥ भाव्यते संसारस्वरूपमनित्यत्वेन चिन्त्यतेऽनयेति भावना, इत्येवंरूपस्य चतुर्विधधर्मस् यान्तरायभयभीताः, सूत्रे तु बन्धानुलोभ्यात् ‘सीलतवदानभावन'त्ति, यत्रोक्तलक्षणा बहवो गीतार्थाः-सूत्रार्थज्ञातारो भवन्ति हे गौतम! सगच्छो भणितः ।अत्रानुकम्पादाने जयराजोदाहरणं, सुपात्रदाने सुबाहुकुमारोदाहरणं, शीलेऽनङ्गलेखोदाहरणं, तपसि स्कन्धककालीदेव्याधुदाहरणं, भावनायां भरतोदाहरणं वाच्यमिति॥ उक्तमुत्तमगणस्वरूपमथाधमाधमगणस्वरूपमाहमू. (१०१) जत्थ य गोयम! पंचण्ह कहवि सूणाण इक्कमवि हुजा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003364
Book TitleAgam Sutra Satik 30 Gachchhachar PainngSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages74
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 30, & agam_gacchachar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy