________________
२२४
गच्छाचार-प्रकिर्णकसूत्रम् ४४ 'हालाहलं' उत्कटं पिबेत्' गलरन्ध्र पातयेत्, विनेय इति शेषः, किंभूतः 'निर्विकल्पः' सर्वथा गतशङ्कः, भक्षयेच्च विषगुटिकादिकंयद्विषगुटिकादिकं तत्क्षणे' भक्षणप्रस्तावे समुपद्रवेत्, पञ्चत्वं प्रापयेदित्यर्थः ॥ मू. (४५) परमत्थओ विसं नो तं, अमयरसायणं खुत।
निविग्धंजं न तं मारे, मओऽवि अमयस्समो॥ वृ. 'परमार्थतः' तत्वतः तद्विषं न भवति, 'अमृतरसायनं' अमृतरसतुल्यं 'खु' निश्चितं तद्विषं निर्विघ्नं' विघ्नविवर्जितं 'यद्' यस्मात्कारणात् नतद्विषंमारयति-न प्राणत्यागं करोति, अतः कथमपि मृतोऽपि' मरणं प्राप्तोऽपि अमृतसम एव' जीवत्रिव भवतीत्यर्थः,शाश्वसुखहेतुत्वादिति, गीतार्थस्येत्यत्र चतुर्भङ्गी यथा संविग्ना नाम एकेनो गीतार्थाः १ न संविग्ना नाम एके गीतार्थाः २ संविग्ना नाम एके गीतार्था अपि ३ न संविग्ना नाम एके नो गीतार्थाः ४ ।
तत्रनप्रथमभङ्गस्थाधर्माचार्याः आगमपरिज्ञानाभावात् १ द्वितीयभङ्गस्थाअपिन धर्माचायश्चिारित्ररहितत्वात्, यदि शुद्धप्ररूपका भवन्ति साधून वन्दन्ते साधूंश्च न वन्दापयन्ति तदा संविग्नपाक्षिका जायन्त इति २ तृतीयभङ्गस्था धर्माचार्या एव, समग्रचारित्रज्ञानयुक्तत्वात्, नन्वेवंविधास्तु गणधरादय एव भवन्ति न संप्रतिकाले तथाविधा अप्रमादिनः, कथं धर्माचार्यत्वं तेषां ? उच्यते-वर्तमानकाले यत्सूत्रं वर्तते तस्य गुरुपरम्परया गृहीतार्था विनिश्चितार्था गीतार्था भवन्ति, दुःषमासेवार्तसंहननाघनुभावतो वीर्यमगोपयन्तः संविग्नाएव अतोन तेषां धर्माचार्यत्वं व्यभिचरतीति ३, चतुर्थभङ्गस्था अपि न धर्माचार्या, ज्ञानक्रियाशून्यत्वात् केवललिङ्गमात्रोपजीवित्वान्चेति ४ ॥अथोक्तविपरीतमाहमू. (६) अगीअत्थस्स क्यणेणं, अमियपि न घुटए।
जेण नो तं भवे अमयं, जं अगीअत्यदेसियं ।। मू. (४७) परमत्थ न तं अमयं, विसं हालाहलं खुतं ।
न तेण अजरामरो हुजा, तक्खणा निहणं वए ।। वृ. अगी० ।। पर० ॥ 'अगीतार्थस्य' पूर्वोक्तचतुर्थभङ्गस्थस्य वचनेन अमृतमपि 'न घुण्टेत्' न पिबेत्, येन कारणेन न तद्भवेत् अमृतं, यदगीतार्थदेशितं परमार्थतो न तदमृतं, विषं हालाहलं 'खुनिश्चितं, न तेनाजरामरो भवेत्, तत्क्षणादेव निधनं व्रजेत्' मरणं प्राप्नुयादित्यर्थः ॥किञ्चमू. (re) अगीअत्थकुसीलेहिं, संगतिविहेण वोसिरे।
मुक्खमग्गस्सिमे विग्धे, पहंमी तेणगे जहा ।। वृ.अगी०।।अगीतार्थाश्च कुशीलाश्च तैरगीतार्थकुशीलैः, उपलक्षणत्वात्सभेदपार्श्वस्थावसनसंसक्तयथाच्छन्दैः सह, 'सङ्ग संसर्ग 'त्रिविधेन मनोवाक्कायेन, तत्र मनसा चिन्तनम्-अहं मिलनं करोमीति, वाचा आलापसंलापादिकरणमिति, कायेन सम्मुखगमनप्रणामादिकरणमिति, 'व्युत्सृजेत्' विविधं विशेषण वा उ इति-भृशं सृजेत्-त्यजेदित्यर्थः, तथा चोक्तं श्रीमहानिशीथषष्ठाध्ययने
॥१॥ “वासलक्खंपि सूलिए, संभिन्नो अच्छियामुहो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org