________________
२२२
गच्छाचार-प्रकिर्णकसूत्रम् ३५ तुशब्दात्कुर्वन्तमन्यमनुजानाति यः स संविनपाक्षिक आराधको ज्ञेय इत्याशयः ।। किञ्च-- मू. (३६) भूया अत्थि भविस्संति केइ तेलुकनमिअकमजुअला।
जेसिं परहिअकरणिकबद्धलक्खाण वोलिही कालो। वृ. भूया० ।। 'भूताः' अतीतकाले अस्थिति 'सन्ति' विद्यन्तेवर्तमानकाले 'भविष्यन्ति' भविष्यत्काले केचित् अल्पाः संविग्नपाक्षिकाः, किंभूताः?-त्रैलोक्येन स्वर्गमर्त्यपाताललक्षणेन तन्निवासिप्राणिगणेनेत्यर्थः नतं क्रमयुगलं-चरणयुग्मं येषां ते त्रैलोक्यनतक्रमयुगलाः, 'येषां' सत्पुरुषाणां संविग्नपाक्षिकाणां, पुनः किंभूतानां?
परहितकरणैकबद्धलक्षाणांपरस्मै-अन्यस्मै हितं परहितं परहितस्य करणं परहितकरणं तस्मिन् एकम्-अद्वितीयं बद्धं लक्षं-आलोचनलक्षणं यैस्ते पर०, लक्षणं आलोचनं इति, यद्वा परहितकरणे एकंबद्धं लक्षं--दर्शनं लक्षणंवा यैस्ते परहि० लक्षीण दर्शनांकनयो रिति तेषां प० 'वोलिही ति गमिष्यति ‘कालः' समयादिलक्षणः, ते संविग्नपाक्षिकाः पूज्या विज्ञेया इति ॥
ये एवंविधा न स्युस्तेषां स्वरूपमाहमू. (३७) तीआणागयकाले केइ होहिंति गोयमा! सूरी।
जेसिं नामग्गहणेऽवि होइ नियमेण पच्छित्तं ।। वृ.तीआ०॥अतीते कालेऽनागतकाले च केचित्' अनिर्दिष्टनामानोऽभूवन्निति शेषः 'होहिंति' भविष्यन्ति वर्तमानेऽपि काले सन्ति हे गौतम ! 'सूरयः' आचार्यपदनामधारकाः, येषां परिचयकरणादिकं दूरे आस्तां 'नामग्रहणेऽपि' अमुकदेवदत्ताख्यसूरिरित्यपि कथ्यमाने भवति निश्चयेन प्रायश्चित्तमिति, तथा चोक्तं श्रीमहानिशीषपञ्चमाध्ययने॥१॥ "इत्थं चायरियाणं पणपन्न होंति कोडिलक्खाओ! ___कोडिसहस्से कोडीसए य तह एत्तिए चेव ५५५५५५००००००००
एतेसि मज्झाओ एगे न बुड़ेइ गुणगणाईण ॥” इति ।।। मू. (३८) जओ-सइरीभवंति अणविक्खयाइ जह भिववाहणा लोए।
पडिपुच्छाहिं चोयण तम्हा उगुरू सया भयइ॥ वृ. जओ-स० ।। जओत्ति भिन्नपदं यतो भणितं-'सइरीत्ति स्वेच्छाचारिणो भवन्ति 'अणविक्खयाइ'त्ति शिक्षारहितत्वेन यथा मृत्यवाहनादयः, तत्र भृत्याः-सेवकाः वाहनानि-हस्त्यश्ववृषभमहिषादीनि लोके, तथा विनेयाः गुरूणां कार्य २ प्रतिपृच्छाःप्रतिपृच्छास्ताभिः, प्रतिपृच्छाभिः "चोयणेति प्राकृतत्वाद्विभक्तिपरिणामः चोदनादिभिश्च विनेति गम्यं स्वेच्छाचारिणो भवन्तीत्यर्थः, यस्मात्स्वेच्छाचारिणो भवन्ति तस्मात्पतिपृच्छादिभिराचार्योविनेयानां तुशब्दान्महत्तरा स्वशिष्यणीनां 'सदा' सर्वकालं ‘भयइत्ति धातूनामनेकार्थत्वात् 'सत्यापयति' शिक्षां ददातीत्यर्थः ।। किञ्चमू. (३९) जो ऊ पमायदोसेणं, आलस्सेणं तहेव य।
सीसवगं न चोएइ, तेण आणा विराहिया ॥ वृ.जोउ० ।। 'यो' गणीतुशब्दादुपाध्यायगणावच्छेदादिप्रमादश्च-निद्रादि द्वेषश्च मत्सरः दोषश्च वा-स्वशिष्ये रागादिकः प्रमादद्वेषं प्रमाददोषं वा तेन, यद्वा प्रमादरूप एव यो दोषः-कुलक्षणत्वं तेन प्रमाददोषेण, आलस्येन तथैव च, चकारान्मोहावज्ञादिप्रकारेण, शिष्यवर्ग'
Jair Education International
For Private & Personal Use Only
www.jainelibrary.org