________________
१५४
तन्दुलवैचारिक प्रकिर्णकसूत्रम् ६४
धायन्तीति भोगलक्षणधराः सुजातानि - सुनिष्पन्नानि सर्वाणि अङ्गानि - अवयवाः यत्र तदेवंविधं सुन्दरं अङ्गं शरीरं येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'रत्तुप्पलपउमकरचरणकोमलंगुलितल' त्ति रक्तोत्पलवत् करचरणानां कोमला अङ्गुल्यो येषां ते तथा, तथा पद्मवत् करचरणानां कोमलानि तलानि - अधोभागा येषां ते तथा, नगः-- पर्वतः नगरं प्रतीतं मकरो - मत्स्यः सागरः- समुद्रः चक्रं प्रतीतं अङ्कधरः -- चन्द्रः अङ्कः-तस्यैव लाञ्छनं मृगः एवंरूपैर्लक्षणैरङ्कितानि तलानि - पादाधोभागाः येषां ते तथा ।
सुप्रतिष्ठिताः- सप्रिष्ठानवन्तः कूर्मवत्- कच्छपवत् चारवः चरणा येषां ते तथा, आनुपूर्व्यापरिपाटया वर्द्धमाना हीयमाना वा इति गम्यते, सुजाताः - सुनिष्पन्नाः पीवराः अङ्गुलिकाःपादाग्रावयवाः येषां ते तथा, उन्नताः - तुङ्गाः तनवः प्रतलाः ताम्रा - अरुणाः स्निग्धाः - कान्तिमन्तो नखा येषां ते तथा, संस्थिती संस्थानविशेषवन्तौ सुश्लिष्टौ - मांसली गूढौ - मांसलत्वादनुपलक्ष्यौ गुल्फौ -घुटकौ येषां ते तथा, आनुपूव्येर्ण - परिपाट्या वर्धमाना हीयमाना वा इति गम्यते, एणीहरिणी तस्याश्चेह जङ्घा ग्राह्या, कुरुविन्दं - तृणविशेषः वत्ताच -सूत्रवलनकं एतानीव वृत्ते - वर्तुले आनुपूव्येर्ण स्थूलस्थूलत्वेनेति गम्यं, जङ्घे प्रसृते येषां ते तथा समुद्गस्येव- समुद्गकपक्षिण इव निमग्ने - अन्तः प्रविष्टे गूढे - मांसलत्वादनुपलक्ष्ये जानुनी - अष्ठीवन्तौ येषां ते तथा ।
गजो - हस्ती 'ससण' त्ति श्वसिति--प्राणिति अनेनेति श्वसनः - शुण्डादण्डः गजस्य श्वसनः गजश्वसनस्तस्य सुजातस्य- सुनिष्पन्नस्य सन्निभे- सध्शे ऊरू येषां ते तथा, वरवारणस्य-प्रधानगजेन्द्रस्य तुल्यः- सध्शी विक्रमः - पराक्रमो विलासिता - सञ्जातविलासा च गतिर्येषां ते तथा, सुजात वरतुरगस्येव सुगुप्तत्वेन गुह्यदेशी-लिङ्गलक्षणोऽवयवो येषां ते तथा, आकीर्णहय इवजात्याश्व इव निरुपलेपाः -- तथाविधमलविकलाः, प्रमुदितो - हृष्यो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण - अतिशयेन वर्त्तिता - वर्तुला कटिर्येषां ते तथा, 'साहय'त्ति संहृतं - संक्षिप्तं यत् सोणंदं त्रिकाष्ठिकामध्यं मुशलं प्रतीतं दर्पणो-दर्पणगण्डो विवक्षितः 'निगरिय 'त्ति सर्वथा शोधितं सारीकृतमित्यर्थः यद् वरकनकं तस्य यत् 'छरु'त्ति खङ्गादिमुष्टि स च (ततः) एतदद्वन्द्वस्तैः सशो यः ।
वरवज्रवद् वलितः क्षामो - वलित्रयोपेतो मध्यभागो येषां ते तथा, गङ्गावर्त्तक इव प्रदक्षिणावर्त्ती- दक्षिणावर्तती तरङ्गैरिव तरङ्गैः- तिसृभिर्वलिभिर्भङ्गुरा तरङ्गभङ्गुरा रविकिरणैस्तरुणंअभिनवं तत्प्रथमतया तत्कालमित्यर्थः बोधितं विकासितं 'विकोसायंत' त्ति विगतकोशं कृतं यत्पङ्कजं तद्वत् गम्भीरा विकटाच नाभिर्येषां ते तथा, 'उजुय०' ऋजुकानां - अवक्राणां समानानामायामादिप्रमाणतः ‘सहिय'त्ति संहितानाम् - अविरलानां सुजातानां जात्यानां स्वाभाविकानां तनूनां - सूक्ष्माणां कृष्णानां - कालवर्णानां अथवा कृत्स्नानां - अभिन्नानां स्निग्धानां कान्ताना॑ आदेयानां - सौभाग्यवतां लडहानां मनोज्ञानां सुकुमारमृदूनां - अत्यंतकोम - लानां रमणीयानां च रोम्णांतनुरुहाणां राजि - आवलिर्येषां ते तथा झषविहगयोरिव - मत्स्यपक्षिणोरिव सुजाता - सुभूतौ पीनौ - उपचितौ कुक्षी - जठरदेशौ येषां ते तथा, 'झषोदरा' इति प्रतीतं पद्मवद् विकटा नाभिर्येषां ते ता ।
इदं च विशेषणं न पुनरुक्तं पूर्वोक्तस्य नाभिविशेषणस्य बाहुल्येन पाठादिति, सङ्गतपावः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International