________________
७२
चतुःशरण-प्रकिर्णकसूत्रम् ४२ केवलिभि-केवलज्ञानोपलब्धसमस्ततत्वैः प्रकाशितं धर्म-श्रुतधर्म- चारित्रधर्मरूपं शरणं प्रपत्रोऽहमिति॥ मू. (४३) पत्तेण अपत्तेण य पत्ताणि अजेण नरसुरसुहाणि।
मुक्खसुहं पुण पत्तेण नवरि धम्मो स मे सरणं ।। वृ. अथ धर्मस्यैव माहात्म्यमुपदर्शयन्नाह-प्राप्तेनाप्राप्तेनापि-लब्धेनालब्धेनापि, केनेत्याह-येनजैनधर्मेण नरसुरसुखानि प्राप्तानि, तत्रप्राप्तेनयथा लब्धसम्यक्त्वेन धनसार्थवाहेन नरसुखं-युगलिकसुखं प्राप्त, अप्राप्तेनापि च यथा तेनैव तस्मिन्नेव भवे सम्यक्त्वलाभात् पूर्व, प्राप्तेन धर्मेण सुरसुखं बहुभिरपि श्रीवीरजीवनयसारादिभिः अप्राप्तेन धर्मेण सुरसुखं 'तावस जा जोइसिआ चरगपरिव्वाय बंभलोगो जा' इत्याधैर्बहुभिः कपिलादिभिरिव लब्धं, यद्वा अनेकैः भव्यैः प्राप्तेन धर्मेण नरसुरसुखानि लब्धानि, अभव्यैश्च अप्राप्तेनापि तेन, तेषामप्यागमे केवलक्रियादिबलेन नवमवेयकं यावद्गमनश्रवणात्।।
मोक्षसुखं पुनर्येन धर्मेण प्राप्तेनैव प्राप्यते, नान्यथा, मरुदेवाप्रभृतयोऽपि भावतश्चारित्रपरिणामं प्राप्यैव मोक्षं जग्मुरिति, नवरि-पुनः स धर्मो मम शरणं भवतु, अथ व्याख्यान्तरं पात्रेण-ज्ञातिकुलसौभाग्या- दिगुणयुक्तेन तथा अपात्रेणापि गुणवियुक्तेन द्रारिद्रयाधुपहतेनापि प्राप्तानि-लब्यानि येन कारणेन नरसुरसुखानिमनुजदेवसमृधः, तत्रपात्रेण ऋजुत्वादिगुणवता वरुणसारथिमित्रमैव नरसुखं-विदेहेषु सुकुलोत्पत्यादिकं यथा प्राप्तं, अपात्रेण-दौःस्थ्याक्रांतेन कौशाम्ब्यामार्यसुहस्ति-प्रवजितसम्प्रतिराजजीवद्रमकेणेव, पात्रेण सुरसुखं वसुदेवपूर्वभवनंदिषेणेनेव प्राप्तं, च एवकारार्थो भिन्नक्रमश्च पात्रेणेत्यत्र योज्यते, ततश्चायमर्थः नवरं-केवलं मोक्षसुखं-शिवशर्म पुनः पात्रेणैव चारित्रधर्माधारभूततथाभव्यत्वगुणलक्षणेनैव प्राप्यते, यस्य धर्मस्य प्राप्तेनैवेति शेषः, नान्यथेति, स धर्मो मम शरणं भवतु। मू. (४) निद्दलिअकलुसकम्मो कयसुहजम्मो खलीकयअहम्मो।
पमुहपरिणामरम्मो सरणं मे होउ जिनधम्मो ॥ वृ.निर्दलितानि-विदारितानि तत्कर्तृजनेभ्यः कलुषाणि-मलिनानि कर्माणि येन धामण स तथा, निर्धूतसर्वपाप इत्यर्थः, यत एवंविधोऽत एव कृतं शुभं जन्म कर्म वा सेवकजनेभ्यो गणधरतीर्थकरत्वादिप्राप्तिलक्षणं येन स कृतशुभजन्मा कृतशुभकर्मावा, यत एवंविधोऽत एव खलीकृतो-वैरिवनिर्धाटितो निसारितो वा अधर्मकुधर्मो वा सम्यक्त्ववासितान्तःकरणेभ्यो येन स तथा।
__ तथाऽयं जिनधर्मः प्रमुखे-आदी इहलोकेऽपि रम्यो धम्मिलादीनामिव परिणामेपरिपाकप्राप्ती भवान्तरेऽपि दामनकादीनामिव रम्यो-मनोज्ञः, मिथ्याष्टिधर्मस्तु नैवंविधः, तस्यारम्भेऽपि पञ्चाग्नितपःप्रभृत्यादेर्महाकष्टहेतुत्वेन परिणामे परलोकेचमिथ्यात्वरूपत्वामुर्गतिमूलत्वेन चासुन्दरत्वात्, विषयसुखस्य तु आदौ सुन्दरत्वेऽपि परिणामेशनै शनैः इहलोके परलोके च कटुविपाकत्वाच्च, जिनधर्मस्त्वादौ परिणामेऽपिच रम्य एव, स एवंविधो धर्मो मे शरणं भवतु मू. (४५) कालत्तएवि न मयं जम्मणजरमरणवाहिसयसमयं ।
___ अमयं व बहुमयं जिनमयं च धम्मं पवन्नोऽहं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org