SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ मू०३४ एकोत्पातेन रुचकवरद्वीपंयान्ति ततः प्रतिनिवृत्ता द्वितीयोत्पातेन नन्दीश्वरे तृतीयोत्पातेन यतो गतास्तत्रायान्ति, ऊर्ध्वदिशं त्वाश्रित्य ते प्रथमोत्पातेन पाण्डुकवनं द्वितीयोत्पातेन नन्दनवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, तपोलब्धेः प्रयुज्यमानाया हासभवनात्, विद्याचारणास्तु प्रथमोत्पातेन मानुषोत्तरनगंद्वितीयोत्पातेन नन्दीश्वरंतृतीयोत्पातेन यतोगतास्तत्रायान्ति, ऊर्ध्वं तु प्रथमोत्पातेन नन्दनवनंद्वितीयोत्पातेनपाण्डुकवनं तृतीयोत्पातेनयतोगतास्तत्रायान्ति, विद्यायाः प्रयुज्यमानाया वृद्धिभवनात्, तथाऽन्येऽपिबहुप्रकाराश्चारणा भवन्ति साधवः, तद्यथा-आकाशगामिनः पर्यङ्कावस्थानिषण्णाः कायोत्सर्गस्थशरीरा वा पादोत्क्षेपक्रमं विनापि व्योमचारिणः, केचित्तु फलपुष्पपत्रहिमवदादिगिरिश्रेणिअग्निशिखानीहारावश्यायमेघवारिधारामर्कटतन्तुन्योतीरश्मिपवनाद्यालम्बनगतिपरणामकुशलाः तथा वापीनधादिजले तज्जीवानविरधयन्तो भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः, तथा भुव उपरि चतुरङ्गुलप्रमिते व्योम्नि पादोक्षेपनिक्षेपकुशला जंघाचारणा इति । _ 'विउब्बिति वैक्रियलब्धिमन्तः साधवः, ते च वैक्रियशक्त्या नानास्पैरसङ्घयेयानपि द्वीपान् समुद्रांश्च पूरयन्ति, जम्बूद्वीपंतु मनुष्याद्यन्यतररूपैर्बिभ्रति, ‘पयाणुसारित्ति ये पूर्वापर पदानुसारतः स्वयं त्रुटितं पदमनुसरन्ति-पूरयन्ति ते पदानुसारिणः, इह चोपलक्षणत्वादामपौषध्यादिलब्धिसंपन्नाः साधवोऽत्र ज्ञेयाः, एते एवंविधभेदभिन्नाः साधवो मे शरणं भवन्तु ।। मू. (३५) उझिअवयरविरोहा निच्चमदोहा पसंतमुहसोहा। अभिमयगुणसंदोहा हयमोहा साहुणो सरणं ।।। वृ. अथ सर्वसाधुसाधारणगुणा ये साधवस्तान् गाथापञ्चकेनाह-वैरं-प्रभूतकालजं श्रीवीरजिनंप्रति त्रिपृष्ठभवनिहतसिंहजीवहालिकब्राह्मणस्य कपिलस्येव विरोधः-कुतश्चित्कारणातत्कालसम्भवोऽप्रीतिविशेषः, प्रतिमार्थे उदायनचण्डप्रद्योतयोरिव, अथवा वैरहेतवो विरोधाः वैरविरोधा उज्झिताः-त्यक्ता वैराणि विरोधाश्च यैस्ते तथा, यत एवोज्झितवैरविरोधा अत एव नित्यं-सततमद्रोहाः-परद्रोहवर्जिताः, वैरवत एव परद्रोहाभिप्रायसद्भावात्, यत एवाद्रोहा। ___अत एव प्रशानता-प्रसन्ना मुखशोभा-वदनच्छाया येषां ते तथा, परद्रोहिणां हि मुखं विकरालंहिमुखं विकरालं स्यादिति, यत एवंरूपाअत एवाभिमतः-प्रशस्यः, पाठान्तरेऽभिगतस्सह चारी वा गुणसंदोहो-गुणनिकरो येषां ते तथा, एवंविधानांच ज्ञानातिशयःस्यादिति हतो मोह:अज्ञानं यैस्ते तथा ज्ञानिन इत्यर्थः, ते साधवः शरणं भवन्तु ।।। मू. (३६) खंडिअसिनेहदामा अकामधामा निकामसुहकामा। सुपुरिसमणाभिरामा आयारामा मुनी सरणं । वृ.खण्डितानि-त्रोटितानि स्नेहरूपाणि दामानि-रजवः आर्द्रकुमारेणेव आत्मनो हस्तिनो वा यैस्ते खण्डितस्नेहदामानः छिन्त्रस्नेहनिगडा इत्यर्थः, यत एवंरूपा अत एव न विद्यते कामोविषयाभिलाषो धामानि च-गृहाणि येषां, छिन्नस्नेहत्वे एव विषयगृहाणां त्यागः स्यादिति, अथवा नविद्यन्ते कामधामानि-विषयगृहाणि येषां ते तथा, विषयासक्तिहेतुरम्यमन्दिररहिता इत्यर्थः, अथवा न कामस्य धाम-स्थानं अकामधामाः, प्राकृतत्वात्पुस्त्वं, यत एवंविधा अत एवनिष्कामंनिर्विषयं यत्सुखं-मोक्षसम्बन्धि तद्विषयोऽभिलाषो येषां ते तथा, निर्विषयस्यैव शिवशर्माभि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003358
Book TitleAgam Sutra Satik 24 Chatusharan PainngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages45
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 24, & agam_chatusharan
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy