________________
मू०३०
पुनः कथंभूतः सः?-मेदिन्याः-पृथ्व्या मिलत्-लुठत् सुप्रशस्तंभक्तिभरनम्रत्वान्मस्तकं -उत्तमाङ्गं यस्य स मेदिनीमिलत्सुप्रशस्तमस्तकः, एवंविधः स साधुगुणरागी मूतलन्यस्तमौलि सन् तत्रेतिशरणप्रस्तावे इदं-वक्ष्यमाणं भणति-वक्ति । मू. (३१) जिअलोअबंधुणो कुगइसिंधुणो पारगा महाभागा।
नाणाइएहिं सिवसुकखसाहगा साहुणो सरणं ।। वृ. यदयं भणति तन्त्रवभिर्गाथाभिराह-'जिअलोअ'त्ति, जीवलोकस्य-प्राणिवर्गस्य षड्जीवनिकायात्मकस्य त्रिविधं त्रिविधेन रक्षाकारित्वात् बन्धव इव बन्धवः, कुत्सिता गति कुगतिः, नरकतिर्यगादिरूपा सैव सिन्धुः-महानदी समुद्रो वातस्यास्तस्य वा पारं-तीरंगच्छन्तीति पारगाः-तीरवर्तिनः सुगतिगामित्वादेव साधूनां, तथा महान् भागः-अतिशयविशेषो येषां ते तथाऽनेकलब्धिसम्पन्नत्वात्तेषां, तथा ज्ञानादिकैः-ज्ञानदर्शनचारित्रैरेव शिवसौख्यं-मोक्षशर्म साधयन्ति ये ते शिवसौख्यसाधकाः, एतेन तीर्थान्तरीयैर्यत्स्नानादिक्रियाभिर्मोक्षसाधनमुक्तं तन्निरासः कृतो द्रष्टव्यः, त एवंविधाः साधवो मम शरणं भवन्तु॥ मू. (३२) केवलिणो परमोहिविउलमइसुअहरा जिनमयंमि।
आयरियउवज्झाया ते सव्वे साहुणो सरणं॥ वृ.साधुभेदानाह-'केवलं असहायं-मत्यादिज्ञानानपेक्षं सर्वद्रव्यपर्यायादिविषयं ज्ञानं विद्यते येषां ते केवलिनः, परमोहित्ति अवधि-मर्यादा रूपिद्रव्येषु प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधि परमश्चासाववधिश्च परमावधिः यदुत्पत्तेरनन्तरमवश्यमन्तर्मुहूर्तेन केवली भवति उत्कृष्टमवधिज्ञानमित्यर्थस्तद्योगात्समधवोऽपि परमावधयः,. उत्कृष्टावधिसाधुभणनेन जघन्यमध्यमावधयोऽपि साधवोऽन्तर्भाविता ज्ञेयाः । ___'विउलमइत्ति मनःपर्यायज्ञानं द्विधा-ऋजुमतिविपुलमतिभेदात्, तत्र विपुला मतिक्रजुमत्यपेक्षया विशिष्टज्ञानत्त्वेन येषां ते विपुलमतयः, इह विपुलमतिग्रहणेन ऋजुमतयोऽपि गृहीता ज्ञातव्याः, द्वयेषामप्येषां मनुष्यक्षेत्रान्तर्वर्तिसंज्ञिपञ्चेन्द्रियमनोद्रव्यपरिच्छेदकत्वात्, बह्वल्पपर्यायग्रहणादिनैव विशेषाच्च, तथा श्रुतं-कालिकोत्कालिकाङ्गप्रविष्टानगप्रविष्टादिलक्षणंसूत्रार्थोभयरूपंधरन्ति योग्यशिष्यप्रशिष्यादिप्रदानेनाव्यवच्छिनं कुर्वन्तीति श्रुतधराः सामान्यतः सर्वेऽपि विशेषेणतुआचर्यन्ते-आसेव्यन्तेमोक्षार्थिभिरित्याचार्या-पञ्चविधाचारधारिणः सूत्रार्थोभयवेदिनो गच्छावलम्बनभूताः षट्त्रिंशद्गुणवन्तोऽर्थव्याख्यानकारिणः, उपेत्यःआगत्य अधीयते येभ्य इत्युपाध्यायाः-सूत्रार्थोभयवेदिनोद्वादशाङ्गसूत्राध्यापका उपाध्यायाः, एतेच आचार्योपाध्यायाः सामान्यतो लौकिकाः कालाचार्यादयोऽपि लभ्यन्ते इति तद्यवच्छेदायाह
'जिनमयंमि त्ति जिनमते-जिनशासने ये आचार्योपाध्यायाः, एतद्ग्रहणं चोपलक्षणम्, तेन प्रवर्तकस्थविरगणावच्छेदका अन्यत्र गृहीता ज्ञातव्याः, सर्वशिष्यान् तपःसंयमव्यापारेषु प्रवर्तयन्तोगणतप्तिकराः प्रवर्तका उच्यन्ते, प्रवर्तकव्यापारितार्थेषुसीदमानानुसाधून स्थिरीकुर्वन्तः स्थविराः, गच्छयोग्यक्षेत्रोपध्यादिसंपादनार्थं नवनवक्षेत्रविहारकारिणो गणावच्छेदकाश्च, तेच सर्वे केवलिप्रभृतिसाधवः शरणं भवन्तु ।।
मू. (३३) चउदस दसनवपुवी दुवालसिक्कारसंगिणो जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org