SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -१ गृहीतव्रतः पञ्चवर्षव्रतपर्यायपालनपर एकादशाङ्गधारी चतुर्थषष्ठाष्टमादि बहु तपःकर्म कृत्वा ईशानकल्पे देवः समुत्पनो द्विसागरोपमस्थितिकः सोऽपि ततश्चयुतो महाविदेहे सेत्स्यतीति । तृतीये महाकालसत्कपुत्रवक्तव्यता, चतुर्थे कृष्णकुमारसत्कपुत्रस्य, पञ्चमे सुकृष्णसत्कपुत्रस्य वक्तव्यता इत्येवं त्रयोऽप्येते वर्षचतुष्ट्यव्रतपर्यायपरिपालनपरा अभूवन्। एवं तृतीयो महाकालाङ्गजश्चतुर्वर्षव्रतपर्यायः सनत्कुमारे उत्कृष्टस्थितिको देवो भूत्वा सप्त सागरोपमाण्यायुरनुपाल्य ततश्चयुतो महाविदेहे सेत्स्यतीति चतुर्थे कृष्णकुमारात्मजश्चतुर्वर्षव्रतपर्यायः माहेन्द्रकल्पे देवो भूत्वा सप्त सागरोपमाण्यायुरनुपालय ततश्च्युतो महाविदेहे सेत्स्यतीति)। पञ्चमः सुकृष्णसत्कपुत्रो वर्षचतुष्टयं व्रतपर्यायं परिपाल्य ब्रह्मलोके पञ्चमकल्पे दश सागरानुत्कृष्टमायुरनुपाल्य ततश्चयुतो महाविदेहे सेत्स्यतीति । षष्ठाध्ययने महाकृष्णसत्कपुत्रस्य वक्तव्यता, सप्तमेवीरकृष्णसत्कपुत्रस्य, अष्टमेरामकृष्णसत्कपुत्रस्य वक्तव्यता। तत्रत्रयोऽप्येतेवर्षत्रयव्रतपर्यायपरिपालनपराअभूवन्।एवंचमहाकृष्णाअजो वर्षत्रयपर्यायाल्लान्तककल्पे षष्ठे उत्पद्य चतुर्दशसागरोपमाण्युत्कृष्टस्थितिकमायुरनुपाल्य ततच्युत महाविदेहे सेत्स्यतीति। वीरकृष्णाङ्गजः सप्तमः वर्षत्रयंव्रतपर्यायं परिपाल्य महाशुक्रेसप्तमे कल्पे समुत्पद्य सप्तदश सागराण्यायुरनुपाल्य ततश्चयुतो विदेहे सेत्स्यतीति । रामकृष्णाङ्गजोऽष्टमो वर्षत्रयं व्रतपर्यायं परिपाल्य सहारेऽष्टमे कल्पेऽष्टादशंसागराण्यायुरनुपाल्य ततश्चयुतो विदेहे सेत्स्यतीति ।। पितृसेनकृष्णाङ्गजो नवमोवर्षद्वयव्रतपर्यायपरिपालनं कृत्वा प्राणतदेवलोकेदशमे उत्पद्य एकोनविंशति सागरोपमाण्यायुरनुपाल्य ततश्चयुतो विदेहे सेत्स्यतीति । महासेनकृष्णाङ्गजश्च दशमो वर्षद्वयव्रतपर्यायपालनपरोऽनशनादिविधिनाऽच्युते द्वादशे देवलोके समुत्पद्य द्वाविंशतिसागरोपमाण्यायुरनुपाल्य ततश्चयुतो महाविदेहे सेत्स्यतीति । __ इत्येवं कल्पावतंसकदेवप्रतिबद्धग्रन्थपद्धतिकल्पावतंसिकेत्युच्यते। (ताएताः परिसमाप्ताः द्वितीयवर्गश्च) अध्ययनानि-३.....१० समाप्तानि २० नवमंउपाङ्गम्-कल्पवतंसिका समाप्तम् | मुनि दीपरत्नसागरेण संशोधिता सम्पादिता कल्पवतंसिका उपाङ्गसूत्रस्य चन्द्रसूरिविरचिता टीका परिसमाप्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003354
Book TitleAgam Sutra Satik 20 Kalpavatansika UpangSutra 09
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages27
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 20, & agam_kalpavatansika
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy