SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ निरयावलिका-उपाङ्गसूत्रम्-१/१ "लाउल्लोइयमहिए" लाइयं यद्भूमेश्छगणादिना उपलेपनम्, उल्लोइयं-कुडयमालानां सेटिकादिभिः संमृष्टीकरणं, ततस्ताभ्यां महितमिव महितपूजितंयत्तत्तथेति।तत्रचगुणशिलकचैत्ये अशोक- वरपादपः समस्ति, "तस्सणं हेट्ठा खंधासन्ने, एत्थ णं महं एगे पुढविसिलापट्टए पन्नत्ते, विक्खंभाया-मसुप्पमाणेआईणगरूयबूरनवणीयतूलफासे" आजिनकं चर्ममयंवस्त्रं, रूतं-प्रतीतं, बूरो-वनस्पतिविशेषः, नवनीतं-म्रक्षणं, तूलम्-अर्कतूलं, तद्वत् स्पर्शो यस्य स तथा, कोऽर्थः ? कोमल- स्पर्शयुक्तः । पासाईए जाव पडिरूवे' त्ति। मू. (२) तेणंकालेणं तेणं समएणंसमणस्स भगवओमहावीरस्स अंतेवासी अजसुहम्मे नामंअनगारे जातिसंपन्ने जहा केसि जाव पंचहि अनगारसएहिंसद्धिं संपरिघुडे पुव्वाणुपुब्बिंचरमाणे जेणेव रायगिहे नगरे जाव अहापडिरूवं उग्गहं ओगिन्हित्ता संजमेणं जाव विहरति । परिसा निग्गया धम्मो कहिओ। परिसा पडिगया। वृ. 'तेणं कालेणं इत्यादि, ‘जाइसंपन्ने' उत्तममातृकपक्षयुक्त इति बोद्धव्यम्, अन्यथा मातृकपक्षसंपन्नत्वं पुरुषमात्रस्यापिस्यात् इति नास्योत्कर्षः कश्चिदुक्तो भवेत्, उत्कर्षाभिधानार्थं चास्य विशेषणकलापोपादानं चिकीर्षितमिति । एवं "कुलसंपन्ने," नवरं कुलं-पैतृकः पक्षः। "बलसंपन्ने" बलं-संहननविशेषसमुत्थः प्राणः । 'जहा केसित्ति केसि (शि) वर्णको वाच्यः, स च "विनयसंपन्ने" लाघवं द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः एभिः संपन्नो यः स तथा "ओयंसी" ओजो-मानसोऽवष्टम्भः तद्वान् ओजस्वी,तेजः-शरीरप्रभातद्वान्तेजस्वी, वचो-वचनं सौभाग्याधुपेतं यस्यास्तीति वचस्वी, “जसंसी" यशस्वी-ख्यातिमान्, इह विशषणचतुष्टयेऽपि अनुस्वारः प्राकृत्वात्। "जियकोहमानमायालोभे" नवरंक्रोधादिजयः उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः 'जीवियासामरणभयविप्पमुक्के' जीवितस्य-प्राणधारणस्यआशा-वाञ्छा मरणाच्च यद्भय ताभ्यां विप्रमुक्तोजीविताशामरणभयविप्रमुक्तः तदुभयोपेक्षक इत्यर्थः । 'तवप्पहाणे' तपसा प्रधानःउत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स तपःप्रधानः । एवं गुणप्रधानोऽपि, नवरं गुणाः--संयमगुणाः । 'करणचरणप्पहाणे' चारित्रप्रधानः। 'निग्गहप्पहाणे' निग्रहो- अनाचारप्रवृत्तेर्निषेधनम्। 'घोरबंभचेरवासी' घोरं च तत् ब्रह्मचर्यं च अल्पसत्त्वैर्दुःखेन यदनुचर्यंते तस्मिन् घोरब्रह्मचर्यवासी । 'उच्छूढसरीरे' 'उच्छूढे' ति उज्झितमिव उज्झितं शरीरं तत्सत्कारं प्रति निःस्पृहत्वात् (येन) स तथा । 'चोद्दसपुव्वी चउनाणोवगए चतुर्ज्ञानोपयोगतः केवलवर्जज्ञानयुक्तः । केसि (शि)गणधरो मतिश्रुतावधिज्ञानत्रयोपेत इति दृश्यम् । आचार्यः सुधर्मा पञ्चभिरनगारशतैः सार्ध-सह संपरिवृतः समन्तात्परिकलितः पूर्वानुपूव्या नपश्चानुपूव्याचेकत्यर्थः क्रमेणेति हृदयं, चरन्-संचरन् । एतदेवाह 'गामाणुगामंदुइज्जमाणे"त्ति ग्रामानुग्रामश्च विवक्षितग्रामादनन्तरग्रामो ग्रामानुग्रामं तत् द्रवन्-गच्छन्–एकस्माद् ग्रामादनन्तरग्राममनुल्लङ्मयन्नित्यर्थः, अनेनाप्रतिबद्ध विहारमाह । तत्राप्यौत्सुक्याभावमाह-सुहंसुहेणंविहरमाणे सुखंसुखेन-शरीरखेदाभावेन संयमाऽऽबाधाभावेन चविहरन्ग्रामादिषुवा तिष्ठन् । जेणेव त्तियस्मिन्नेव देशेराजगृहनगरं यस्मिन्नेव प्रदेशे गुणशिलकं चैत्यं तस्मिन्नेव प्रदेशे उपागच्छति, उपागत्य यथाप्रतिरूपं-यथोचितं मुनिजनस्य अवग्रहम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003353
Book TitleAgam Sutra Satik 19 Nirayavalika UpangSutra 08
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages46
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 19, & agam_nirayavalika
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy