________________
अध्ययनं-१
सेणिएण चिंतियं-'न नजइ केण कुमारेण मारेहि?'।तउ तालपुडगं विसं खइयं ।जाव एइताव मओ । सुट्ट्यरं अधिई जाया । ताहे मयकिच्चं काऊण घरमागओरज्जधुरामुक्कतत्तीओतं चेव चिंतंतो अच्छइ । एवं कालेण विसोगो जाओ । पुनरवि सयनआसणाईए पिइसंतिए दवण अधिई होइ । तउ रायगिहाओ निग्गंतु चंपं रायहाणिं करेइ । एवं चंपाए कूणिओ राया रज्जं करेइ नियगमभायपमुहसयणसंजोगओ । इह निरयावलियासुयखंधे कूणिकवक्तव्यताआदावुलिप्ता तत्साहाय्यकरणप्रवृत्तानां कालादीनां कुमाराणां दशानामपि सङ्ग्रामे रथमुशलाख्ये प्रभूतजनक्षयकरणेन नरकयोग्यकर्मोपार्जनसंपादनानरकगामितया 'निरयाउ'त्तिप्रथमाध्ययनस्य कालादिकुमारवक्तव्यताप्रतिबद्धस्य एतनाम । अथ रथमुशलाख्यसङ्गामस्योत्पत्तौ किं निबन्धनम् । अत्रोच्यते-एवं किलायं सङ्ग्रामः संजातः-चम्पायां कूणिको राजा राज्यं चकार ।
तस्य चानुजौहल्लविहल्लाभिधानौ भ्रातरौ पितृदत्तसेचनकाभिधाने गन्धहस्तिनि समारूढी दिव्यकुण्डलदिव्यवसनदिव्यहारविभूषितौ विलसन्तौ ईष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या कदाचिद्दन्तिनोऽपहारायतंकूणिकराजं प्रेरितवती-"कर्णविषलग्नकृतोऽतोऽयमेव कुमारो राजा तत्त्वतः,नत्वं, यस्येदशा विलासाः" ।प्रज्ञाप्यमानाऽपिसा न कथञ्चिदस्यार्थ-स्योपरमति, तरितकूणिकराजेन तौ याचितौ । तौ च तद्भयाद्वैशाल्यां नगर्यां स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिके सहस्तिकौ सान्तः पुरपरिवारिती गतवन्तौ । कूणिकेनच दूतप्रेषणेन तौ याचितौ । न च तेन प्रेछितौ, कूणिकस्य तयोश्च तुल्यमातृकत्वात्।
ततः कूणिकेन भणितं-'यदि न प्रेषर्यास तदा युद्धसज्जो भव' । तेनापि भणितम्-'एष सज्जोऽस्मि' । ततः कूणिकेन सह कालादयो दश स्वीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्ग्रामाय याताः। तत्रैकैकस्य त्रीमित्रीणि हस्तिनां सहाणि, एवं रथानामश्वानांच, मनुष्याणां चप्रत्येकं तिस्त्रस्तिस्रः, कोट्यः । कूणिकस्याप्येवमेव ।तत्रएकादशभागीकृतराज्यस्य कूणिकस्य काला-दिभिः सह निजेन एकादशांशेन सङ्ग्रामे काल उपगतः एतमर्थं वक्तुमाह-'तए णं से काले' इत्या-दिना। एनंच व्यतिकरंज्ञात्वाचेटकेनाप्यष्टादशगणराजानौ मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिबलपरिमाणं, ततो युद्धं संप्रलग्नम् । चेटकराजस्य तु प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति अमोघबाणश्च सः । तत्र च कूणिकसैन्ये गरुडव्यूहः चेटकसैन्ये (च) सागरव्यूहो विरचितः
ततश्च कूणिकस्य कालो दण्डनायको निजबलान्वितोयुध्यमानस्तावद्गतो यावच्चेटकः, ततस्तेन एकशरनिर्घातेनासौ निपातितः १ । भग्नं च कूणिकबलम्, गते च द्वे अपि बले निजं निजमावासस्थानम्। द्वितीयेऽह्नि सुकालोनाम दण्डनायकोनिजबलान्वितोयुध्यमानस्तावद्गतो यावच्चेटकः, एवं सोऽप्येक निपातितः२।एवं तृतीयेऽह्निमहाकालः, सोऽप्येवम् ३। चतुर्थेऽह्नि कृष्णकुमारस्तथैव ४, पञ्चमेसुकृष्णः ५, षष्ठेमहाकृष्णः ६, सप्तमेवीरकृष्णः७, अष्टमे रामकृष्णः ८, नवमे पितृसेनकृष्णः ९ दशमे पितृमहासैनकृष्णः १० चेटकेनैकैकशरेण निपातिताः । एवं दशसुदिवसेषुचेटकेन विनाशिता दशापिकालादयः । एकादशेतुदिवसेचेटकजयार्थं देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह । ततः शक्र चमरावागतौ । ततः शक्रो बभाषे-"चेटकः श्रावक इत्यहं न तंप्रतिप्रहरामि, नवरं भवन्तं संरक्षामि" । ततोऽसौ तद्रक्षार्थं वज्रप्रतिरूपकमभेद्यकवचं कृतवान्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org