________________
अध्ययनं- 9
सङ्घयेयत्वाज्जम्बूद्वीपानामन्यत्रेतिभावः । भारते वर्षे -क्षेत्रे चम्पा एषा नगरी अभूत् । रिद्धेत्यनेन 'रिद्धत्थिमियसमिद्धे' त्यादि दृश्यं, व्याख्या तु प्राग्वत् । तत्रोत्तरपुर्वदिग्भागे पूर्णभद्रनामकं चैत्यं व्यन्तरायतनम् ।
'कुणिए नाम राय' त्ति कूणिकनामा श्रेणिकराजपुत्रो राजा 'होत्थ' त्ति अभवत् । तद्वर्णको "महयाहिमवंतमहंतमलयमंदरमहिंदसारेत्यादि पसंतडिंबडमरं रज्जं पसाहेमाणे विहरइ" इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजपेक्षया, तथा मलयः - पर्वतविशेषो, मन्दरो --मेरुः, महेन्द्र:शक्रादिदेवराजः, तद्वत्सारः - प्राधानो यः स तथा । तथा प्रशान्तानि डिम्बानि - विघ्ना इमराणि च - राजकुमारादिकृता विड्वरा यस्मिंस्तत्तथा (राज्य) प्रसाधयन् - पालयन् विहरति आस्ते स्म । कूणिकदेव्याः पद्मावतीनाम्या वर्णको यथा- 'सोमाल जाव विहरइ' यावत्करणादेवं दृश्यम् “सुकुमालपाणिपाया अहीणपंचिंदियसरीरा" अहीनानि अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिंस्तत् तथाविधं शरीरं यस्याः सा तथा ।
“लक्खणवंजणगुणोववेया" लक्षणानि - स्वस्तिकचक्रादीनि व्यञ्जनानि - मषीतिलकादीनि तेषां यो गुणः - प्रशस्तता तेन उपपेता - युक्ता या सा तथा, उप अप इता इतिशब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनात् उपपेतेति स्यात् । “माणुम्माणप्पमाणपडिपुन्नसुजायसव्वंगसुंदरंगी" तत्र मानं - जलद्रोमप्रमाणता, कथं ? जलस्यातिभृते कुण्डे पुरुषे निवेशिते यज्जलं निःसरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानम् - अर्धभारप्रमाणता, कथं ? तुलारोपितः पुरुषो यद्यर्धभारं तुलयति तदा स उन्मानप्राप्त उच्यते, प्रमाणं तु स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रायिता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि - अन्यूनानि सुजातानि सर्वाणि अङ्गानि -- शिरःप्रभृतीनि यस्मिंस्तत् तथाविधं सुन्दरम् अङ्ग- शरीरं यस्याः सा तथा । "ससिसोमाकारकंतपियदंसणा " शशिवत्सौम्याकारं कान्तं च-कमनीयम् अत एव प्रियं द्रष्टृणां दर्शनं - रूपं यस्याः
सा तथा ।
अत एव सुरूपा स्वरूपतः सा पद्मावती देवी 'कुणिएण सद्धिं उरालाई भोगभोगाई भुंजमाणी विहरइ' भोगभोगान्–अतिशयवद्भोगान् । 'तत्य णं' इत्यादि । 'सोमालपाणिपाया' इत्यादि पूर्ववद्वाच्यम् । अन्यच्च “कोमुइरयणियरविमलपडिपुन्नसोमवयणा" कौमुदीरजनी करवत्कार्तिकीचन्द्र इव विमलं प्रतिपूर्णं सौम्यं च वदनं यस्याः सा तथा । 'कुंडलुल्लिहियगंडलेहा' कुण्डलाभभ्यामुल्लिखिता - घृष्टा गण्डलेखा - कपोलविरचितमृगमदादिरेखा यस्याः सा तथा । 'सिंगारागारचारुवेसा' शृङ्गारस्य- रसविशेषस्य अगारमिव अगारं तथा चारु; वेषो - नेपथ्यं यस्याः सा तथा ततः कर्मधारयः ।
'काली नामं देवी' श्रेणिकस्य भार्या कूणिकस्य राज्ञश्श्रुल्लजननी -- लघुतमाताऽभवत् । सा च काली "सेणियस्स रन्नो इट्ठा" वल्लभा कान्ता काम्यत्वात् 'पिया' सदा प्रेमविषयत्वात्, 'मणुन्ना' सुन्दरत्वात् 'नामधिज्ञ्जा' प्रशस्तनामध्यवतीत्यर्थः नाम वा धार्यं हृदि धरणीयं यस्याः सा तथा, 'वेसासिया' विश्वसनीयत्यात् 'सम्मया' तत्कृतकार्यस्य संमतत्वात् 'बहुमता' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशात् बहुमता बहुमानपात्रं वा, 'अणुमया' विप्रियकरणस्यापि पश्चात्मताऽनुमता । भंडकरंडकसमाणा' आभरणकरण्डकसमाना उपादेयत्वात् सुरक्षितत्वाच्च । 'तेल्लकेला इव सुसंगोविया' तैलकेला सौराष्ट्रप्रसिद्दो मृन्मयस्तैलस्य भाजनविशेषः, स च भङ्गभयात् लोचनभयाच्च
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International