SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-२ हष्टादिविशेषणग्रहणं। मू. (२४) सत्त पाणूई से थोचे, सत्त थोवाइं से लवे। लवाणं सत्तहत्तरीए, एस मुहुत्तेत्ति आहिए। वृ-सप्त प्राणाः सूत्रे च उत्वं क्लीबत्वंचप्राकृतत्वात्, उच्छ्वासनिश्वासा ये इति गम्यतेस स्तोक इतच्यते, एवं सप्तस्तोका येस लवः, लवानांसप्तसप्तत्या एषः-अधिकृतो यजिज्ञासया तव सम्प्रतिप्रश्नावतार इत्यर्थः, मुहूर्त इत्याख्यातः,अथ सप्तसप्ततिलवमानतया सामान्येन निरूपितं मुहूर्तमेवोच्छ्वाससङ्ख्यया विशेषतो निरूपयितुमाहमू. (२५) तिन्नि सहस्सा सत्त य सयाइं तेवत्तरिच ऊसासा। एस मुहत्तो भणिओ सव्वेहिं अनंतनाणीहि ।। वृ-'तिन्नि' इत्यादि, अस्या भावार्थोऽयं-सप्भिरुच्छासैः स्तोकः, ते च लवे सप्त, ततो लवः सप्तभिर्गुणितोजाता एकोनपञ्चाशत्, मुहूर्तेच सप्तसप्ततिर्लवा इति सा एकोनपञ्चाशद्गुणितेति जातं मुहूर्ते उच्छ्वासाना मानं, अत्राप्युपलक्षमत्वादुःच्छासनिश्वासानां समुदितानां मानं ज्ञेयं, सर्वैरनन्तज्ञानिभिरित्यनेन सर्वेषां जिनानामेकवाक्यताज्ञापनेन सध्शज्ञानित्वं सूचितं, न तु साम्मत्यदर्शनं कृतं, तस्य विश्वाससमूलत्वेन श्रद्धालुं प्रत्यसम्भाव्यमानत्वात्, अथ यदर्थं मुहूर्तादिप्रश्नस्तान् मानविशेषान् प्रज्ञापयन् द्विविधकालपरिमाणज्ञापनायोपक्रमते मू (२६) एएणं मुहुत्तप्पमाणेणं तीसं मुहुत्ता अहोरत्तो पन्नरस अहोरत्ता पक्खो दो पक्खा मासो दो मासा उऊ तिन्नि उऊ अयणे दो अयणा संवच्छरे पंचसंवच्छरिए जुगे वीसं जुगाई वाससए दस वाससयाईवाससहस्से सयं वाससहस्साणंवाससयसहस्से चउरासीइंवाससयसहस्साई। से एगे पुब्वंगे चउरासीई पुव्वंगसयसहस्साइं से एगे पुव्वे एवं बिगुणं बिगुणं नेअव्वं तुडिए २ अडडे २ अववे र हूहुए २ उप्पले र एउमे २ नलिने २ अत्थनिउरे २ अउए २ नउए २ पउए २ चूलिया २ सीसपहेलिए २ जाव चउरासीइं सीसपहेलिअंगसयसहस्साइं सा एगा सीसपहेलिया एताव ताव गणिए एताव ताव गणिअस्स विसए तेण परं ओवमिए। - 'एएणं मुहत्त'इत्यादि, एतेन-अनन्तरोदितेन मुहूर्तप्रमाणेन त्रिंशन्मुहूर्ता अहोरात्रः पञ्चदशाहोरात्राः पक्षः द्वौपक्षौमासःद्वौमासौऋतुःत्रयऋतवोऽयनंद्वेअयनेसंवत्सरः पञ्चसंवत्सरिकं युगं विंशतियुगानि वर्षशतं, विंशतेः पञ्चगुणितायाः शतत्वात्, दश वर्षशतानि वर्षाणां सहन, शतं वर्षसहस्रणां वर्षशतसहस्र लक्षमित्यर्थः, चतुरशीति वर्षशतसहस्रणि यानीति गम्यते तदेकं पूर्वाङ्ग, अतः परं लक्षाणांचतुरशीत्या गुणकारसंख्यास्थानानांसप्तविंशतिसंख्यानां (सद्भावः), तथाहि-चतुरशीति पूर्वाड्गशतसहस्रणिचतुरशीत्या गुणकारसंख्यास्थानानां सप्तविंशतिसंख्यानां (सद्भाव)), तथाहि-चतुरशीति पूर्वागशतसहस्रणि यानीतिगम्यते तदेकंपूर्व, पूर्वाड्गलक्षाणां चतुरशीत्या गुणितं पूर्व भवतीति भावः, तद्वर्षमानं चैतत्॥१॥ “पुवस्स उ परिमाणं सयरिं खलु हुंति कोडिक्खाओ । छप्पनं च सहस्सा बोद्धव्वा वासकोडीणं॥" पूर्वागपूर्वन्यायेन संख्यास्थानमुत्तरोत्तरंत्रुटितागंत्रुटितमित्यादि तदङ्गतल्लक्षणभेदाभ्यां द्विगुणं २-द्विसंख्याझं २ ज्ञातव्यं, अयमाशयः-सूत्रे एकत्वेन निर्दिश्यमानानि १३ संख्यास्थानानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy