________________
जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् १/२१ मूलमध्यान्तेषु क्रमादष्ट षट् चत्वारि योजनानि विष्कम्भेन-विस्तरेण उपलक्षणत्वादायमेनापि, समवृत्तस्यायामविष्कम्भयोस्तुल्यत्वादिति, तथा मूलमध्यान्तेषु पंचविंशतिरष्टादश द्वादश च योजनानि सातिरेकाणि परिक्षेपेण-परिधिना, अथास्य पाठान्तरं-वाचनाभेदस्तदगतपरिमाणान्तरमाहमूले द्वादशयोजनानि विष्कम्भेनमध्येऽष्टयोजनानि विष्कम्भेन उपरिचत्वारियोजनानि विष्कम्भेन, अत्रापि विष्कम्भायामतः साधिकत्रिगुणं मूलमध्यान्तपरिधिमानं सूत्रोक्तं सुबोधं ।
अत्राह परः-एकस्य वस्तुनो विष्कम्मादिपरिमाणे द्वैरूप्यासम्भवेन प्रस्तुतग्रन्थस्य च सातिशयस्थविरप्रणीतत्वेन कथं नान्यतरनिर्णयः ?, यदेकस्यापि ऋषभकूटपर्वतस्य मूलादावादियोजनविस्तृतत्वादिपुनस्तत्रैवास्य द्वादशादियोजनविस्तृतत्वादीति, सत्यं, जिनभट्टारकाणां सर्वेषां क्षायिकज्ञानवतामेकमेव मतं मूलतः, पश्चात्तु कालान्तरेण विस्मृत्यादिनाऽयं वाचनाभेदः, यदुक्तं श्रीमलयगिरिसूरिभिज्योर्तिष्करण्डकवृत्ती-“इह स्कन्दिलाचार्यप्रतिपत्तौदुष्षमानुभावतो दुर्भिक्षप्रवृत्या साधूनां पठनगुणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्ती द्वयोः संघमेलापकोऽभवत्, तद्यथा-एको वलभ्यामेको मथुरायां, तत्रच सूत्रार्थसंघटनेपरस्परंवाचनाभेदो जातः, विस्मृतयोहि सूत्रार्थयोः स्मृत्वा २ संघटने भवत्यवश्य वाचनाभेद" इत्यादि, ततोऽत्रापि दुष्करोऽन्यतरनिर्णयः द्वयोः पक्षयोरुपस्थितयोरनतिशायिज्ञानिभिरनभिनिविष्टमतिभि प्रवचनाशातनाभीरुभिपुष्यपुरुषैरितिन काचिदनुपपत्ति, किञ्च-सैद्धान्तिकशिरोमणिपूज्यश्रीजिनभद्रगणिक्षमाश्रमणप्रणीतक्षेत्रसमाससूत्रे उत्तरमतमेव दर्शितं, तथा॥१॥ 'सव्वेवि उसहकूडा उविद्धा अट्ठजोयणे हुंति।
बारस अट्ठ य चउरो मूले मज्झुवरि विच्छिन्न ।' 'मूले विच्छिन्नं' इत्यादि शेषवर्णकः प्राग्वत् ।अथास्य पद्मवरवेदिकाद्याह-'सेणं एगाए इत्यादि, स ऋषभकूटाद्रिरेकया पद्मवरवेदिकया तथैवेति-यथा सिद्धायतनकूटवर्णकः प्रागुक्तस्तथाऽत्रापि वक्तव्य इत्यर्थ; कियत्पर्यन्त इत्याह-यावद्भवनं-ऋषभाख्यदेवस्थानं, स चायं एगेण य वणसंडेण सव्वओ समंता संपरिक्खित्ते, उसहकूडस्स णं उप्पिं बहुसमरमणिज्जे भूमिभागे प०, से जहाणामए आलिंगपुक्खरेइ वा जाव वाणमंतरा जाव विहरंति, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे महंएगेभवणे प०' इति, अत्र व्याख्या पूर्ववत्, भवनमानं साक्षादेव सूत्रे दर्शयति-क्रोशमायामेनार्द्धक्रोशं विष्कम्भेन देशोनं क्रोशं चत्वारिंशदधिकचतुर्दशधनुःशतरूपमूर्बोच्चत्वेन, यद्यपि भवनमायामापेक्षयाकिञ्चिन्यूनोच्छ्रायमानं भवतिप्रासादस्तु आयामद्विगुणोच्छ्राय इतिश्रीज्ञाताधमकथाङ्गवृत्यादी भवनप्रासादयोर्विशेषो दृश्यते तथाप्यत्र तयोरेकार्थकत्वं ज्ञेयं, श्रीमलयगिरिसूरिभि क्षेत्रसमासवृत्तौ
“एतेषां ऋषभकूटानामुपरि प्रत्येकमेकैकः प्रासादावतंसकः,तेच प्रासादाः प्रत्येकमेकं क्रोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोशमुच्चत्वेने" त्यत्रोक्तभवनतुल्यप्रमाणतया ऋषभकूटेषुप्रासादानाममभिधानादिति, अर्थोनामान्वर्थ ऋषभकूटस्य तथैवेतियथाजीवाभिगमादौ यमकादीनांर्वतानामुक्तस्तथात्रापि औचित्येन वक्तव्यः, तदभिलापसूत्रंतु उप्पलाणी'त्यादिना सूचितंतदनुसारेणेदं से केणडेणंभंते! एवं वुच्चइ-उसहकूडपब्बए २?, गोअमा! उसहकूडपव्वए खुड्डासुखुड्डियासुवावीसुपुक्खरिणीसुजावबिलपंतीसुबहूई उप्पलाइंपउमाइंजाव सहस्सपत्ताई For Private & Personal Use Only
www.jainelibrary.org
Jain Education International