________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७ / ३४४
अवचूलाश्च- प्रलम्बमानगुच्छाः चामराणि च स्थासकाश्च प्रतीता एषां द्वन्द्वस्तत एते यथास्थाने नियोजिता येषां सन्ति ते तथा, अभ्रादित्वादप्रत्यये रूपसिद्धि, परिमण्डिता कटिर्येषां ते तथा, तः पदद्वयकर्मधारयस्तेषां तथा तपनीयखुराणां तथा तपनीयजिह्वानामित्यादि नव पदानि प्राग्वत्, तथा महता - बहुव्यापिना हयहेषितरूपो यः किलकिलायितरवः - सानन्दशब्दस्तेनेत्यादि प्राग्वत्, एषु च चतुर्ष्वपि विमानबाहाबाहकसिंहादिवर्णकसूत्रेषु कियन्ति पदानि प्रस्तुतोपाङ्गसूत्रादर्शगतपाठ नुसारीण्यपि श्रीजीवाभिगमोपाङ्गसूत्रादर्शपाठानुसारेण व्याख्यातानि न च तत्र वाचनाभेदात् पाठभेदः सम्भवतीति वाच्यं ।
५२८
यतः श्रीमलयगिरिपादैर्जीवाभिगमभवृत्तावेव 'क्वचित् सिंहादीनां वर्णनं दृश्यत तद्बहुषु पस्तकेषु न दृष्टमित्युपेक्षितं, अवश्यं चेत्तदव्याख्यानेन प्रयोजनं तर्हि जम्बूद्वीप टीका परिभावनीया, तत्र सविस्तरं तदव्याख्यानस्य कृतत्वादि" त्यतिदेशविषयीकृत्वेन द्वयः सूत्रयोः सध्शपाठकत्वमेव सम्भाव्यत इति ।
यत्तु जीवाभिगमपाठदृष्टान्यपि 'मिअमाइअपीणरइ अपासाण' मित्यादिपदानि न व्याख्यानि तत् प्रस्तुतसूत्रे सर्वथा अध्टत्वात्, यानि च पदानि प्रस्तुतसूत्रादर्शपाठे ध्ानि तान्येव जीवाभिगमपाठानुसारेण सङ्गतपाठीकृत्य व्याख्यातानीत्यर्थः । अथ चन्द्रवक्तव्यस्य सूर्यादिवक्तव्यविषयेऽतिदेशं चन्द्रादीनां सिंहादिसङ्ख्यासंग्रहणिगाथे चाह गाहासोलसदेवसहस्सा हवंति चंदेसु चैव सूरेसु ।
मू. (३४५)
अद्वेव सहस्साइं एक कमी गहविमाणे ।
पू. (३४६)
चत्तारि सहस्साइं नक्खत्तंमि अ हवंति इक्विक्के / दो चेव सहस्साइं तारारूवेक्कमेकमि ॥
मू. (३४७) एवं सूरविमाणाणं जाव तारारूवविमाणाणं, नवरं एस देवसंघाएत्ति । बृ. "सोलस देवसहस्सा" इत्यादि, अत्र सङ्गतिप्राधान्याद् व्याख्यानस्य दृश्यमानप्रस्तुतसूत्रादर्शेषु पुरः स्थितोऽपि प्रथमं 'एवं सूरविमाणाण' मित्याद्यालापको व्याख्येयो, यथा एवंचन्द्रविमानवाहकानुसारेण सूर्यविमानानामपि वाहका वर्णनीयाः यावत्तारारूपाणामपि विमान वाहका वर्णनीयाः यावत्पदात् ग्रहविमानानां नक्षत्रविमानानां च विमानवाहका वर्णनीयाः, नवरं एष देवसंघातः, अयमर्थः - सर्वेषां ज्योतिष्काणां विमानवाहकवर्णनसूत्रं सममेव तेषां सङ्ख्याभेदस्तु व्याख्यास्यमानगाथाभ्यामवगन्तव्यः, ते चेमे वक्ष्यमाणे गाहात्यादि, षोडशदेवसहस्राणि भवन्ति चन्द्रविमाने चैवेति समुच्चये तथा सूर्यविमानेऽपि षोडश देवसहस्राणि, बहुवचनं चात्र प्राकृतत्वात्, तथा अष्टी देवसहस्राण्येकैकस्मिन् ग्रहविमाने तथा चत्वारि सहस्रणि नक्षत्रे चैकैकस्मिन् भवन्ति, तथा द्वे चैव सहस्रे तारारूपविमाने एकैकस्मिन्निति । अथ दशमद्वारप्रश्नमाह
मू. (३४८) एतेसि णं भंते! चंदिमसूरि अगहगणनक्खत्ततारारूवाणं कयरहे सब्वसिग्घगई कयरे सव्वसिग्धतराए देव ?, गो० ! चंदेहिंतो सूरा सव्वसिग्घगई सूरेहिंनो गहा सिग्धगई गहेहिंतो नक्खत्ता सिग्घ० नक्खत्तेहिंती तारारूवा सिग्घ०, सव्वप्यगई चंदा सव्वसिग्धगई तारारूवा । वृ. 'एतेसि णमित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां मध्ये कतरः 'सर्वशीघ्रगति' सर्वेभ्यश्चन्द्रादिभ्यश्चरज्योतिष्केभ्यः शीघ्रगति, इदं च सर्वाभ्यन्तरमण्डलापेक्षया, कतरश्च सर्व शीघ्रगतितरकः, अत्र द्वयोः प्रकृष्टे तरप्, इदं च सर्वबाह्यमण्डलापेक्षयोक्तं, अभ्यन्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org