SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७ / ३४४ तथा विमलमणिरत्नमयानि रुचिराणि पर्यन्तचित्ररूपकाणि अर्थात् कोशीमुखवर्त्तीनीत्यर्थः तैर्विराजिता या काञ्चनकोशीपोलिकेति प्रसिद्धा तस्यां प्रविष्टा दन्ताग्रा-अग्रदन्ता येषां ते तथा तेषां, पदव्यत्ययः प्राकृतत्वात्, तथा तपनीयमयानि विशालानि तिलकप्रमुखाणि यानि मुखाभरणानि आदिशब्दाद्रत्नशुण्डिकाचामरादिपरिग्रहस्तैः परिमण्डितानां, तथा नानामणिरत्नमयो भूर्द्धा येषां ते तथा ग्रैवेयेन सह बद्धानि गलकवरभूषणानि - कण्ठाभरणानि घण्टादीनि येषां ते तथा, ततः पदद्वयकर्मधारयस्तेषां तथा कुम्भयुगलान्तरे - कुम्भद्वयमध्ये उदितः - उदयं प्राप्तः तत्र सथित इत्यर्थ, तथा वैडूर्यमयो विचित्रदण्डो यस्मिन् सतथा, निर्मलवज्रमयस्तीक्ष्णो लष्टो-मनोहरोऽङ्कुशो येषां ते तथा तेषां तथा तपनीयमयी सुबद्धा कक्षा- हृदयर जुर्येषा ते तथा, दर्पिता-सञ्जातदर्पास्ते तथा, बलोद्धुरा–बलोत्कटास्ते तथा, ततः पदत्रयस्य पदद्वयमीलने २ कर्मधारयस्तेषां तथा विमलं तथा घनं मण्डलं यस्य तत् तथा, वज्रमयलालाभिर्ललितंश्रुतिसुखं ताडनं यस्य तत् तथा, नानामणिरत्नमय्यः पार्श्वगाः पार्श्ववर्त्तिन्यो घण्टा अर्याल्लघुघण्टा यस्य तत्तथा एवंविधंरजतमयी तिर्यग्बद्धा या रज्जुस्तस्यां लम्बितं यद् घण्टायुगलं तस्य यो मधुरस्वरः तेन मनोहराणां, - तथा आलीनं-- सुश्लिष्टं निर्भर भरकेसत्वात् प्रमाणयुक्तं चरणावधि लम्बमानत्वात् वर्त्तितं - वर्तुलं सुजाता - लक्षणप्रशस्ता रमणीया - मनोहरा वाला यस्य तत् एवंविधं गात्रपरिपुञ्छनंपुच्छं येषां ते तथा तेषां तिर्यञ्चो हि पुच्छेनैव गात्रं प्मार्जयन्तीति, तथा उपचिता-मासला: परिपूर्णा - पूर्णावयवास्तथा कूर्मवदुन्नताश्चरणास्तैर्लघुलाघवोपेतः - शीघ्रतर इत्यर्थ विक्रमःपादविक्षेपो येषां ते तथा तेषां तथा अङ्करत्नमयनखानां तवणिज्जजीहाणमित्यादि नव पदानि प्राग्वत्, महता-बहुव्यापिना गम्भीरः - अतिमन्द्रो गुलुगुलायितरवो - बृंहितशब्दस्तेन मधुरेण मनोहरेण अम्बरं पूरयन्ति दिशश्च शोभयन्तीत्यादि प्राग्वत् । अथ तृतीयबाहावाहकानाह - 'चंदविमाणस्स ण' मित्यादि, चन्द्रविमानस्य पश्चिमायांजिगमिषितदिशः पृष्ठभागे वृषभरूपधारिणां देवानां चत्वारि देवसहस्रणि पश्चिमां बाहां परिवहन्तीत्यर्थः, श्वेतानां सुभगानामित्यादि प्राग्वत्, चलचपलं- इतस्ततो दोलायमानत्वेनास्थिरत्वादतिचपलं ककुदं - अंसकूटं तेन शालिनां - शोभायमानानां तथा घनवद् - अयोघनवनिचितानांनिर्भरभृतशरीराणामत एवं सुबद्धानां - अश्लथानां लक्षणोन्नतानांप्रशस्तलक्षणानां तथा ईषदानतंकिञ्चिन्नभ्रभावमुपागतं वृषभौष्ठं वृषभौ - - प्रधानी लक्षणोपेतत्वेनाष्ठौ यत्र तत्, समर्थविशेषणेन विशेष्यं लभ्यत इति मुखं येषां ते तथा, ततः पूर्ववत् पदचतुष्टयकर्मधारयस्तेषां तथा चंक्रमितंकुटिलगमनं ललितं-विलासवद्गमनं पुलितं - गतिविशेषः स चाकाशक्रमणरूपः एवंरूपा चलचपला- अत्यन्तचपला गर्विता गतिर्येषां ते तथा सन्नतपावनां अधोऽधः पार्श्वयोरवनत्वात् तथा सङ्गतपावनां देहप्रमाणोचितपावनां तथा सुजातपावनां सुनिष्पन्नपावनां तथा पीवरा - पुष्टा वर्त्तिता - वृत्ता सुसंस्थिता - सुसंस्थाना कटिर्येषा ते तथा तेषा तथा अवलम्बानिअवलंबनस्थानानि तेषु प्रालम्बानि - लम्बायमानानि लक्षणैः प्रमाणेन च यथोचितेन युक्तानि रमणीयानि वालगण्डानि चामराणि येषां ते तथा तेषां तथा समाः परस्परं सध्शाः खुराः प्रतीताः वालिधानं-पुच्छं च येषां ते तथा तेषां, तथा 'समलिखितानि' समानि - परस्परं सध्शानि लिखितानीवोत्कीर्णानीवेत्यर्थ तीक्ष्णाग्राणि सङ्गतानि यथोचितप्रमाणानि शृङ्गाणि येषां ते तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org ५२६
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy