________________
५१४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३३२ सकायमणुरंगिआएछायाए सूरिए अणुपरिअट्टइ, तस्सणंमासस्स जे से चरिमे दिवसेतंसिचणं दिवसंसि लेहट्ठाई दो पयाईपोरिसी भवइ । एतेसिणं पुब्बवण्णिआणं पयाणंइमा संगहणी मू. (३३३) जोगो देवयतारग्गगोत्तसंठाण चंदरविजोगो।
कुलपुण्णिमअवमंसा नेआछाया य बोद्धव्वा ।। वृ. वर्षाणां-वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथममासं-श्रावणलक्षणं कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया क्रमेण नयन्ति?,द्विकर्मकत्वादस्य समाप्तिति गम्यते, कोऽर्थः ?-वक्ष्यमाणसङ्ख्याकस्वस्वदिनेषु इमानि नक्षत्राणि यदा अस्तमयन्ति तदा श्रावणमासेऽहोरात्रसमाप्तिरित्यर्थः, तेनैतानिरात्रिपरिसमापकत्वाद्रात्रिनक्षत्राण्युच्यन्ते, मगवनाह-गौतम चत्वारि नक्षत्राणिनयन्ति, तद्यथा-उत्तराषाढा अभिजिच्छवणोधनिष्ठाच, तत्रोत्तरषाढाप्रथमान् चतुर्दश अहोरात्रान् नयति, तदनन्तरमभिजिन्नक्षत्रं सप्ताहोरात्रात्रयति, ततः श्रवणनक्षत्रमष्टी अहोरात्रान्नयति, एवंच सर्वसङ्कलनया श्रावणमासस्यैकोनत्रिंशदहोरात्रा गतास्ततः परं श्रावणमासस्य सम्बन्धिनं चरममेकमहोरात्रं धनिष्ठानक्षत्रं नयति, एवं श्रावणमासं चत्वारि नक्षत्राणि नयन्ति, तद्यथा-धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदाच, तत्र धनिष्ठा आघान् चतुर्दश अहोरात्रान् नयतितदनन्तरंशतभिषक्सप्ताहोरात्रान्नयतिततः परमष्टावहोरात्रान् पूर्वभद्रपदा नयति तदनन्तरमेकमहोरात्रमुत्तरभद्रपदानयति, एवमेनभाद्रपदमासंचत्वारिनक्षत्राणिनयन्ति, तस्मिंश्च मासेऽष्टाङ्गुलपौरुष्या-अष्टाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्तते अत्र भावार्थः प्राग्वद् भाव०, एतदेवाह-तस्य भाद्रपदमासस्य चरमे दिवसे द्वे पदे अष्ट चाङ्गुलानि पौरुषी ।
अथ तृतीयं पृच्छति-'वासाणं भंते !'त्ति, इत्यादि, वर्षाणा भदन्त ! तृतीयं मासं कति नक्षत्राणि नयन्ति?, गौतम ! त्रीणि नक्षत्राणिउत्तरभद्रपदा रेवती अश्विनीच, तत्रोत्तरभद्रपदा चतुर्दश रात्रिन्दिवान्नयति, रेवती पञ्चदश रात्रिन्दिवान्नयति, अश्विनी एकंरात्रिन्दिवं नयति, एवं तृतीयंमासंत्रीणि नक्षत्राणिनयन्ति, तस्मिंश्चमासे द्वादशाङ्गुलपौरुष्या-द्वादशाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थः पूर्ववत्, एतदेवाह-तस्य मासस्य चरमे दिवसे रेखा-पादपर्यन्तवर्तिनी सीमातस्थानित्रीणिपदानिपौरुषी भवति, किमुक्तं भवति?-परिपूर्णानि त्रीणि पदानि पौरुषी भवति।
अथ चतुर्थं पृच्चति–'वासाणमित्यादि, वर्षाणां वर्षाकालस्य भदन्त!चतुर्थ कार्तिकलक्षणं मासंकति नक्षत्राणि नयन्ति?,गौतम! त्रीणि अश्विनी भरणी कृत्तिकाच, तत्राश्विनीचतुर्दशाहोरात्रान् भरणी पञ्चदशाहोरात्रान् कृत्तिका एकमहोरात्रं नयति, तस्मिंश्च मासे षोडशांगुलपौरुष्या-षोडशांगुलाधिकपौरुष्याछायया सूर्योऽनुपरावर्त्तते, भावार्थ पूर्ववत्, एतदेवाह-तस्य मासस्य चरमे दिवसे त्रीणि पदानि चत्वारि चांगुलानि पौरुषी भवति । गतो वर्षाकालः ।
अथ हेमन्तकालं पृच्छति-हेमन्तानां-हेमन्तकालस्य भदन्त! प्रथमंमार्गशीर्षलक्षणंमासं कति नक्षत्राणि नयन्ति?,गौ० त्रीणि न०-कृत्तिका रोहिणी मृगशिरश्च, तत्र कृत्तिका चतुर्दशाहोरात्रान् रोहिणी पञ्चदशाहोरात्रान् मृगशिर एकमहोरात्रं नयति, तस्मिंश्च मासे विंशत्यङ्गुलपौरुष्या-विंशत्यकुलाधिकपौरुष्याछायया सूर्योऽनुपरावर्त्तते, भावार्थः पूर्ववत्, एतदेवाह-तस्य मासस्य यश्चरमो दिवसस्तस्मिन् दिवसे त्रीणि पदानि अष्ट चांगुलानि पौरुषी भवतीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org