SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः -७ ४९३ ३ गोत्राणि नक्षत्राणां ४ संस्थानानि नक्षत्राणां ५ चन्द्ररवियोगो - नक्षत्राणां चन्द्रेण रविणा च सह योगः ६, कुलानि - कुलसंज्ञकानि नक्षत्राणि उपलक्षणादुपकुलानि कुलोपकुलानि च ७ कति पूर्णिमाः कति अमावास्याश्च ८ सन्निपातः एतासामेव पूर्णिमामावास्यानां परस्परापेक्षया नक्षत्राणां सम्बन्धः ९, चः समुडाये, नेता-मासस्य परिसमापकस्त्रिचतुरादिनक्षत्रगणः १०, चः समुच्चये, छायाद्वारं तु नेतृ द्वारानुयायित्वेन न पृथक्कृतमिति । मू. (३०२) कति णं भंते! नक्खत्ता पं० ?, गो० ! अट्ठावीसं नक्खत्ता पं० - अभिई 9 सवणो २ घणिट्ठा ३ सयमिसया ४ पुव्वभध्वया ५ उत्तरभध्वया ६ रेवई ७ अस्सिमी ८ भरणी ९ कत्ति १० रोहिणी ११ मिअसिर १२ अद्दा १३ पुमव्वसू १४ पूसो १५ अस्सेसा १६ मघा १७ पुव्वफग्गुणि १८ उत्तरफग्गुणि १९ हत्थे २० चित्ता २१ साई २२ विसाहा २३ अणुराहा २४ जिड्डा २५ मूलं २६ पुव्वासाढा २७ उत्तरासाढा २८ इति । वृ. अथ चन्द्रस्य नक्षत्रे सह दक्षिणादिदिग्योगो भवति तेन प्रथमतो नक्षत्रपरिपाटीमाह - अत्र शब्दसंस्कारा इमे, अभिजित् १ श्रवणः २ धनिष्ठा ३ शतभिषक् ४ पूर्वभद्रपदा ५ उत्तरभद्रपदा ६ रेवती ७ अश्विनी ८ भरणी ९ कृत्तिका १० रोहिणी ११ मृगशिरः १२ आर्द्रा १३ पुनर्वसु १४ पुष्यः १५ अश्लेषा १६ मधा १७ पूर्वाफाल्गुनी १८ उत्तराफाल्गुनी १९ हस्तः २० चित्रा २१ स्वाति २२ विशाखा २३ अनुराधा २४ ज्येष्ठा २५ मूलं २६ पूर्वाषाढा २७ उत्तराषाढा २८ । अयं च नक्षत्रावलिकाक्रमोऽश्विन्यादिकं कृत्तिकादिकं वा लौकिकं क्रममुल्लङ्घय यञ्जनप्रवचने दर्शितः स युगादी चन्द्रेण सहाभिजिद्योगस्य प्रथमं प्रवृत्तत्वात्, न चात्र 'बहि मूलोऽभंतरे अभिई' इति वचनादभिजितः सर्वतोऽभ्यन्तस्थायित्वेन नक्षत्रावलिकाक्रमेण पूर्वसुपन्यास इति वाच्यं, नक्षत्रक्रमनियमे चन्द्रयोगक्रमस्यैव कारणत्वात् न तु सर्वाभ्यन्तरादिमम्डलस्थायित्वस्य अन्यथा षष्ठादिमण्डलस्थायिनां कृत्तिकादीनां भरण्यनन्तरमुपन्यासो न स्यात्, अथ यद्यभिजितः प्रारभ्य नक्षत्रावलिकाक्रमः क्रियते तर्हि सप्तविंशतिनक्षत्राणामिव कथमस्य व्यवहारासिद्धत्वं ?, उच्यते, अस्य चन्द्रेण सह योगकालस्याल्पीयस्त्वेन नक्षत्रान्तरानुप्रविष्टतया विवक्षणात् यदुक्तं समवायाङ्गे सप्तविंशतितमे समवाये- "जंबुद्दीवे दीवे अभिईवजेहिं सत्तावीसाए नक्खत्ताहिं संववहारे वट्टइ" एतद्ध तिर्यथा - "जंबूद्वीपे न धातकीखण्डादौ अभिजिद्वर्णैः सप्तविंशत्या नक्षत्रैः व्यवहारः प्रवर्त्तते, अभिजिन्नक्षत्रस्योत्तराषाढाचतुर्थपादानुप्रवेशनादिति," ॥ अथ प्रथमोष्टिं योगद्वारमाह मू. (३०३) एतेसि णं भंते! अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ता जे णं सया चंदस्स दाहिणेणं जोअं जोएंति कयरे नक्खत्ता जे णं सया चंदस्स उत्तरेणं जोअं जोएंति कयरे नक्खत्ता जेणं चंदस्स दाहिणेावि उत्तरेणवि पमद्दपि जोगं जोएंति कयरे नक्खत्ता जे णं चंदस्स दाहिणेणंपि पमद्दपि जो अं जोएंति कयरे नक्खत्ता जे गं सया चंदस्स पमदं जोअं ज़ोएंति ?, गो० ! एतेसि णं अट्ठावीसाए नक्खत्ताणं तत्थ जे ते नक्क्त्ता जेणं सया चंदस्स दाहिणेणंजोअंजोएंति ते णंछ, तंजहाबृ. 'एतेसि ण' मित्यादि, एतेषां भदन्त ! अष्टाविंशतेनक्षत्राणां मध्ये कतराणि नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणेन - दक्षिणस्यां दिशि व्यवस्थितानि योगं योजयन्ति ? - सम्बन्धं कुर्वन्ति १ तथा कतराणि नक्षत्राणि यानि सदा चन्द्रस्योत्तरस्यां दिशि व्यवस्थितानि योगं योजयन्ति २ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy