________________
वक्षस्कारः -७
४७३
वक्ष्यमाणचन्द्रमण्डलसमवतारसूत्रेण सह विरोधात् ।
अथ नक्षत्रविमानानामायामादिप्ररूपणा - 'नक्खत्त' इत्यादि नक्षत्रमण्डलं भदन्त ! कियदायामविष्कम्भाभाभ्यां कियत् परिक्षेपेण कियद्वाहलयेन - उच्चैस्त्वेन प्रज्ञप्तम् ?, गौतम ! गव्युतमायामविष्कम्भाभ्यां तत्त्रिगुणं सविशेषं परिक्षेपेण अर्द्धक्रोशं बाहल्येन प्रज्ञप्तमिति ।
सम्प्रत्येषामेव मेरुमधिकृत्याबाधाप्ररूपणा - 'जंबुद्दीवे' त्ति जंबूद्वीपे भदन्त ! द्वीपे मंदरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तम्, उपप्तिस्तु सूर्याधिकारे निरूपिता, अथ बाह्यमण्डलाबाधां पृच्छति - 'जंबुद्दीवे' त्ति, जंबूद्वीपे भदन्त ! द्वीपे मंदरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तम् ?, गौतम ! पंचचत्वारिंशद्योजनसहस्राणि त्रीणि च त्रिंशदधिकानि योजनशतान्यबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तम्, उपपत्तिस्तु प्राग्वत् ।
अथ एतेषामेवायामादिनिरूपणम् -'सव्वमन्तरेण' मित्यादि, प्राग्वत्, अथ सर्वबाह्यमण्डलं पृच्छति - 'सव्वबाहिरए' इत्यादि, प्राग्वत्, मध्यमेषु षट्सु मंडलेषु तु चन्द्रमंडलानुसारेणायामविष्कम्भपरिक्षेपाः परिभाव्याः, अष्टावपि नक्षत्रमंडलानि चन्द्रमंडले समवतरन्तीति भणिष्यमाणत्वात्
अथ मुहूर्त्तगतिद्वारम् -'जया ण' मित्यादि, यदा भदन्त ! नक्षत्रं सर्वाभ्यन्तरमंडलमुपसंक्रम्य चारं चरति तदैकैकेन मुहूर्तेन कियत्क्षेत्रं गच्छति ?, नक्षत्रमित्यत्र जात्यपेक्षयैकवचनं, अन्यथाऽभ्यन्तरमंडलगतिचन्तायां द्वादशानामपि नक्षत्राणां संग्रहाय बहुवचनस्यौचित्यात्, गौतम ! पञ्च योजनसहस्राणि द्वे च पञ्चषष्ट्यधिके योजनशते अष्टादशच भागसहस्राणि द्वे च त्रिषष्ट्यधिकभागशते गच्छति, मंडलमेकविंशत्या भागसहनर्नवभिश्च षष्ट्यधिकैः शतैः छित्वा इति, अत्रोपपत्ति- इह नक्षत्रमंलकाल एकोनषष्टिर्मुहूर्ताः एकस्य च मुहूर्त्तस्य सप्तषष्ट्यधिकत्रिशतभागानां त्रीणि शतानि सप्तोत्तराणीति, अयं च नक्षत्राणां मुहूर्त्तभागो गत्यवसरे भावयिष्यते, इदानी - मेतदनुसारेण मुहूर्तगतिश्चिन्त्यते
तत्र रात्रिन्दिवे त्रिंशन्मुहूर्त्ताः तेषु उपरितना एकोनत्रिंशन्मुहूर्त्ताः प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्तानां ततः सवर्णनार्थं त्रिभि शतैः सप्तषष्ट्याऽधिकैः गुणयित्वा उपरितनानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिप्यन्ते जातान्येकविंशतिसहस्राणि नव शतानि षष्ट्यधिकानि अयं च प्रतिमंडलं परिधेः छेदकराशि, तत्र सर्वाभ्यन्तरमंडलपरिधिः ३१५०८९, अयं च योजनात्मको राशिर्भागात्मकेन राशिना भजनार्थं त्रिभिः सप्तषष्ट्यधिकैः शतैः गुण्यते, जातं ११५६३७६६३, अस्य राशेरेकविंशत्या सहस्रैः नवभिः शतैः षष्ट्यधिकैर्भागे हृते लब्धानि ५२६५ शेषं १८२६३/- भागाः, एतावती सर्वाभ्यन्तरमंडलेऽभिजिदादीनां द्वादशनक्षत्राणां मुहूर्त्तगतिः । अथ बाह्ये नक्षत्रमंडले मुहूर्त्तगतिं पृच्छति - 'जयाण 'मित्यादि, यदा भदन्त ! नक्षत्रं सर्वबाह्यं मण्डलं उपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, अत्राप्येकवचनं प्राग्वत्, गौतम ! पञ्च योजनसहस्राणि त्रीणि चैकोनविंशत्यधिकानि योजनशतानि षोडश च भागसहस्राणि त्रीणि च पञ्चषष्ट्यधिकानि भागशतानि गच्छति मण्डलमेकविंशत्या भागसहमैर्नवभिश्च षष्ट्यधिकैः शतैः छित्वा इति, अत्रोपपत्तिः - अत्र मण्डले परिधिः ३१८३१५, अयं त्रिभिः सप्तषष्ट्यधिकैः शतैः गुण्यते जातं ११६८२१६०५, अस्य राशेरेकविंशत्या सहस्रैर्नवभिः
२१९६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org