________________
४४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/६ अथ पुष्करिणीसूत्रं यथा-'तस्स णं वनसंडस्स तत्थ तत्य देसे तहिं तहिं बहूइओ खुड्डाखुड्डियाओ वावीओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सराओ सरपंतीओ सर २ पंतीओबिलपंतीओअच्छाओसण्हाओ रययामयकूलाओसमतीरा वयरामयपासाणाओ तवणिजतलाओ सुवण्णसुभरययवालुयाओ वेरुलियमणिफालियपडलपच्चोअडाओ सुओयारसुहोत्ताराओ नानामणितित्थसुबद्धाओ चाउकोणाओअणुपुव्वसुजायवप्पगंभीरसीयलजलाओ संछत्रपत्तभिसमुणालाओ बहुउप्पलकुमुयणलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसय पत्तसहस्सपत्त-फुल्लकेसरोवचियाओछप्पयपरिभुञ्जमणकमलाओ अच्छविमलसलिलपुण्णाओ परिहत्थभमंत-मच्छकच्छभअनेगसउणमिहुणपविअरियाओपत्तेयंरपउमवरवेइयापरिक्खित्ताओ पत्तेयं र वनसंडपरिक्खित्ताओअप्पेगइयाओआसवोदगाओअ० वारुणोदगाओअ० खोदोदगाओ अ० अमयरससमरसोदगाओ अ० उदगरसेणं प० पासादीयाओ ४' अत्र व्याख्या
तस्ये त्यादि प्राग्वत् बह्वयः क्षुद्राः-अखातसरस्यस्ता एव लध्व्य:-क्षुल्लिका वायःचतुरस्राकाराः पुष्करिण्यो-वृत्ताकाराः दीर्धिकाः-सारण्यः ता एव वक्रा गुञालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि, सूत्रे स्त्रत्वं प्राकृतत्वात्, बहूनि सरासं एकपङ्कया व्यवस्थितानि सरःपङ्क्ति ता बह्वयः सरः पङ्क्त्यः, तथा येषु सरस्सु पङ्क्त्या व्यवस्थितेषु एकस्मात सरसोऽन्यस्मिन् तस्मात्तदन्यत्रैवंसंचारकपाटकेनोदकंसंचरतिसासरःसरः पङ्क्त्यिस्ता बह्वयः सरः सरः पङ्क्त्यः, बिलानि कूपास्तेषां पङ्क्त्यो बिलपङ्क्त्यः, एताश्च सर्वा अपि कथम्भूता इत्याह-अच्छाः स्फटिकवद् बहिर्निर्मलप्रदेशाः श्लक्ष्णाः-लक्ष्णपुद्गलनिष्पादितबहिप्रदेशाः रजतमयं-- रूप्यमयं कूलं यासां तास्तथा, समं न गसिद्भावतो विषमं तीरवर्तिजलापूरितं स्थानं यासां ताः समतीराः, तथा वज्रमयाः पाषाणाः यासांतास्तथा, तथा तपनीयं-हेमविशेषस्तन्मयंतलंयासांतास्तथा।तथा सुवण्णसुब्भरययवालुयाओ' इति सुवर्णं-पीतं हेम सुब्भं रूप्यविशेषः रजतं-प्रतीतं तन्मय्यो वालुका यासु ताः सुवर्णसुब्भरजतवालुकाः, तथा 'वेरुलियमणिफलिहपडलपच्चोयडाओ' इति वैडूर्याणि-वैडूर्यमणिमयनि स्फाटिकपडलमयानि-स्फाटिकरलसम्बन्धिपटलमयानि प्रत्यवतटानि-तटसमीपवर्त्तभ्युनतप्रदेशा यसां तास्तथा, तथा सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः स्ववताराः तथा सुखेनोत्तारो-- जलाहिर्विनिर्गमनं यासु ताः सुखोत्ताराः, ततः पूर्वपदेन विशेषणसमासः, तथा नानामणिभि सुबद्धानि तीर्थानि यासां तास्तथा, अत्र बहुव्रीहावपि क्तान्तस्य परनिपातो भार्यादिदर्शनात् प्राकृतशैलीवशाद्वा, चाउक्कोणाओं इति चत्वारः कोणायासांताःतथा, दीर्घत्वंच अतः समृद्धयादौ वा' इति सूत्रेण प्राकृतलक्षणवशात्, एतच्च विशेषणं वापीः कूपांश्च प्रति द्रष्टव्यं ।
तेषामेव चतुष्कोणत्वसम्भवात् नशेषामां, आनुपूर्येण-क्रमेण नीचर्नीचैस्तरभावरूपेण सुष्टु-अतिशयेन यो जातो वप्रः-केदारोजलस्थानं तत्र गम्भीरं-अलब्धस्ताधं शीतलं जलं यासु ताः आनुपूर्व्यसुजातवप्रगम्भीरशीतलजलाः, तथा संछन्नानि-जलेनान्तरितानि पत्रबिशमृणालानि यासु ताः तथा, इह बिशमृणालसाहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि विशानि-कन्दाः मृणालानि-पद्मनालानि, तथा बहूनामुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापौण्डरीकशतपत्रसहस्रपत्राणां फुल्लानां-विकस्वराणां केशरैः-किझल्कैः उपचिता--भृताः, विशेषणस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org