________________
वक्षस्कारः -७
भवतीत्याख्यातं मया चान्यैस्तीर्थकुभिः ।
भू. (२५३) सव्वब्धंतराओ णं भंते! सूरमंडलाओ केवइआए अबाहाए सव्यबाहिरए सूरमंडले पं० ?, गोयमा ! पंचदसुत्तरे जोअणसए अबाहाए सव्वबाहिरए सूरमंडले पन्नते २ । वृ. गतं मण्डलसङ्ख्याद्वारम्, अथ मण्डलक्षेत्रद्वारं, तत्र सूत्रं - 'सव्वमंतराओण' मित्यादि, सर्वाभ्यन्तरात् प्रथमात् सूर्यमण्डलात् भदन्त ! कियत्या अबाधया - कियता अन्तरेण सर्वबाह्यंसर्वेभ्यः परं यतोऽनन्तरं नैकमपीत्यर्थः सूर्यमण्डलं प्रज्ञप्तम् ?, गौतम ! दशोत्तराणि पञ्च योजनशतानि अबाधया-अन्तरालत्वाप्रतिघातरूपया सर्वबाह्यं सूर्यमण्डलं प्रज्ञप्तम्, अत्रानुक्ता अपि अष्टच - त्वारिंशदेकषष्टिभागाः 'ससिरविणो लवणंमि अ जोअण सय तिण्णि तीस अहिआई' इति वचनादधि का ग्राह्याः, अन्यथोक्तसङ्घयाङ्कानां मण्डलानामनवकाशात्, कथमेतदवसीयते ?, उच्यते
सर्वसङ्ख्यया चतुरशीत्यधिकं मण्डलशतं, एकैकस्य च मण्डलस्य विष्कम्भोऽष्टचत्वारिंशदेकषष्टिभागा योजनस्य, ततश्चतुरशीत्यधिकं शतमष्टाचत्वारिंशता गुण्यते, जातान्यष्टाशीति शतानि द्वात्रिंशदधिकानि, एतेषा योजनानयनार्थमेकषष्ट्या भागो हियते, हृते च लब्धं चतुश्चत्वारिंशदधिकं योजनशतं शेषमवतिष्ठतेऽष्टचत्वारिंशत्, चतुरशीत्यधिकशतसङ्ख्यानां च मण्डलानामपान्तरालानि त्र्यशीत्यधिकशतसङ्ख्यानि, सर्वत्रापि ह्यपान्तरालानि रूपोनानि भवन्ति तथा घ प्रतीतमेतत् चतसृणामङ्गुलीनामपान्तरालानि त्रीणीति, एकैकं मण्डलान्तरालं च द्वियोजनप्रमाणं, ततस्त्रयशीत्यधिकं शतं द्विकेन गुण्यते, जातानि त्रीणि शतानि षट्षष्ट्यधिकानि ३६६, पूर्वोक्तं च चतुश्चत्वारिंशं शतमत्र प्रक्षिप्यते, ततो जातानि पञ्चशतानि दशोत्तराणि योजनानि अष्टचत्वारिंशदेकषष्टिभागा योजनस्य, अनेन च मण्डलक्षेत्रस्य प्रमाणमभिहितं, मण्डलक्षेत्रं नाम सूर्यमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यपर्यवसानैर्व्याप्तमाकाशं, तञ्चक्रवालविष्कम्मतोऽवसेयम् । उक्तं च
-
मू. (२५४) सूरमंडलस्स णं भंते! सूरमंडलस्स य केवइयं अबाहाए अंतरे पन्नत्ते ?, गोअमा ! दो जोअणाई अबाहाए अंतरे पन्नत्ते ३ ।
४३३
वृ. अथ मण्डलान्तरद्वारम् - 'सूरमंडल इत्यादि, भगवन् ! सूर्यमण्डलस्य सूर्यमण्डलस्य च कियदबाधया - अव्यवधानेनान्तरं प्रज्ञप्तम् ?, कोऽर्थः ? - पूर्वस्मादपरं मण्डलं कियददूरं इत्यर्थः, अत्र यथा योजनद्वयमुपपद्यते तथाऽनन्तरमेव मण्डलसव्याद्वारे दर्शितम् । गतं मण्डलान्तरद्वारं, अथ बिम्बायामविष्कम्भादिद्वारम्
मू. (२५५) सूरमंडले णं भंते! केवइअं आयामविक्खंभेणं केवइअं परिक्खेवेणं केवइअं बाहल्लेणं बाहल्लेणं पन्नते ?, गोअमा ! अडयालीसं एगसट्टिभाए जोअणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं चउवीसं एगसट्टिभाए जोअणस्स बाहल्लेणं पन्नत्ते इति ४ । वृ. 'सूरमंडले ण' मित्यादि, सूर्यमण्डलं णमिति प्राग्वत् भगवन्! कियदायामविष्कम्भाभ्यां प्रज्ञप्तं, अयमर्थ:- एकयोजनस्यैकषष्टिभागाः कल्प्यन्ते तद्वपा येऽष्टचत्वारिंशद्भागास्तावप्रमाणावस्यायामविष्कम्भावित्यर्थः तत्रिगुणं सविशेषं साधिकं परिक्षेपेण, अष्टचत्वारिंशत्रिगुणिता
13 28
Jain Education International
1
For Private & Personal Use Only
www.jainelibrary.org