________________
४३०
जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् ६/२४१ ॥१॥ "सुत्ते चउदसलक्खा छप्पन्नसहस्स जंबुदीवम्मि।
हंति उसत्तर लक्खा बानवइसहस्स सलिलाओ॥" इति । एतेषांजंबूद्वीपप्रज्ञप्तयुक्तार्थानांपिण्डके-मीलके विषयभूते इयं सङ्ग्रहणी गाथा भवतीति
अथ जंबूद्वीपव्यासस्य लक्षप्रमाणताप्रतीत्यर्थं दक्षिणोत्तराभ्यां क्षेत्रयोजनसर्वाग्रमीलनं जिज्ञासूनामुपकाराय दय॑ते, यथा
१ भरत क्षेत्रप्रमाणं ५२६योजन कला ६ २ क्षुल्लहिमाचलपर्वतप्रमाणं०१०५२ योजन कला १२ ३ हैमवतक्षेत्रप्रमाणं० २१०५ योजन कला ५ ४ वृद्धहिमाचलपर्वतप्रमाणं० ४२१० योजन कला १० ५ हरिवर्षक्षेत्रप्रमाणं ८४२१ योजन कला १ ६ निषधपर्वतप्रमाणं १६८४२ योजन कला २ ७ महाविदेहक्षेत्रप्रमाणं ३३६८४ योजन कला ४ ८ नीलवत्पर्वतप्रमाणं १६८४२ योजन कला २ ९ रम्यकक्षेत्रप्रमाणं ८४२१ योजन कला १ १० रुक्मिपर्वतप्रमाणं ४२१० योजन कला १० ११ हैरण्यवतक्षेत्रप्रमाण २१०५ योजन कला ५ १२ शिखरिपर्वतप्रमाणं १०५२ योजन कला १२ १३ ऐरवतक्षेत्रप्रमाणं ५२६ योजन कला ६
९९९९६ योजन ७६ कला दक्षिणोत्तरतः सर्वमीलने १००००० लक्षयोजनसर्वाग्रं, अत्र दक्षिणजगतीमूलविष्कम्भो भरतप्रमाणे उत्तरजगतीसत्कश्च ऐरावतेऽन्तर्भावनीय इति । पूर्वतः पश्चिमतश्चैवंसर्वाग्रमीलनं-औत्तराहंशीतावनमुखं २९२२ योजन विजयषोडशकं३५४०६ योजन अन्तरनदीषट्कं७५० योजन वक्षस्काराष्टकं ४००० योजन मेरुभद्रशालवनं ५४००० योजनऔत्तराहंशीता (तोदा) मुखवनं २९२२ योजन १००००० अत्रापिजगतीसत्कमूलविष्कम्मः स्वस्वदिग्गतमुखवनेऽन्तर्भावनीय इति।
वक्षस्कारः-६ समाप्तः __इति सातिशयधर्मदेशनारसमुल्लासविस्मयमानऐंदीयुगीननराधिपतिचक्रवर्तिसमानश्रीअकब्बरसुरत्राणप्रदत्तषाण्मासिकसर्वजन्तुजाता मदानशत्रुअयादिकमोचनस्फुरन्मानप्रदानप्रभृतिबहुमानयुगप्रधानोपमानसम्प्रतिविजयमानश्रीमत्तयपपोगच्छाधिराजश्रीहिरविजयूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जंबूद्वीपप्रज्ञप्तिवृत्ती प्रमेयरत्नमञ्जूषानाम्न्यां जंबूद्वीपगतपदार्थसंग्रहवर्णनो नाम षष्ठो वक्षस्कारः
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता जंबूदीपप्रज्ञप्तिउपाङ्गसूत्रे षष्ठवक्षस्कारस्य शान्तिचन्द्रवाचकेन विरचिता टीका परिसमाप्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org