SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ वक्षस्कार:-६ ४२७ यथोक्तसङ्ख्या, त्रीणि षडुत्तराणि वैताढ्यकूटशतानि, तत्र भरतैरावतयोर्विजयानांच वैताढ्येषु चतुस्त्रिंशति प्रत्येकंनवसम्भवादुक्तसङ्कयानयनं, वृत्तवैताढ्येषुच कूटाभावःअतएव वैतादयसूत्रे न दीर्घपदोपादानं विशेषणस्य व्यवच्छेदकत्वात् अत्र च व्यवच्छेद्यस्याभावादिति, मेरौ नव, तानि च नन्दनवनगतानि ग्राह्याणि न भद्रशालवनगतानि दिगहस्तिकूटानि। तेषां भूमिप्रतिष्ठितत्वेन स्वतन्त्रकूटत्वादिति, सङ्ग्रहणिगाथायां 'पव्वयकूडा ये' त्यत्र चोऽनुक्तसमुच्चये तेन चतुस्त्रिंशद् ऋषभकूटानि तथा अष्टौ जंबूवनगतानि तावन्त्येव शाल्मलीवनगतानिभद्रशालवनगतानिच सर्वसङ्ग्ययाऽष्टपञ्चाशत्सङ्ख्याकानि ग्राह्याणि, ननु तर्हि एतदगाथाविवरणसूत्रे'चत्तारि सत्तसठ्ठा कूडसया' इत्येवंरूपे सङ्ख्याविरोधः, उच्यते, एषांगिर्यनाधारकत्वेन स्वतन्त्रगिरित्वान्न कूटेषुगणना, अयमेवाशय ऋषभकूटसङ्ख्यासूत्रपृथककरणेन सूत्रकृता स्वयमेव दर्शयिष्यते, यच्च प्राक् ऋषभकूटाधिकारे । ___'कहिणं भंते! जंबुद्धीवे उसभकूडे नामंपव्वएपन्नत्ते' इति सूत्रं, तिच्छिल्लोचयमात्रतापरं व्याख्येयमिति सर्वं सम्यक्, अथतीर्थानि-'जंबुद्दीवे' इत्यादि, प्रश्नसूत्रेतीर्थानि चक्रिणां स्वस्वक्षेत्रसीमासुरसाधनार्थं महाजलावतारणस्थानानि, उत्तरसूत्रे भरते त्रीणितीर्थानि प्रज्ञप्तानि, तद्यथामागधं पूर्वस्यां गङ्गासङ्गमे समुद्रस्य वरदाम दक्षिणस्यां प्रभासं पश्चिमायां सिंधुसंगमे समुद्रस्य एवमैरावतसूत्रमपि भावनीयं, नवरं नद्यौ चात्र रक्तारक्तवत्यौ तयोः समुद्रसङ्गमे मागधप्रभासे वरदामाख्यं च तत्रत्यापेक्षया तथैव, विजयसूत्रे चायं विशेषः-विजयसत्कगङ्गादि:महानदीनां यथाहं शीताशीतोदयोःसङ्गमे मागधप्रभासाख्यानि भावनीयानि वरदामाख्यानितेषांमध्यगतानि भाव्यानि; एवमेव पूर्वापरमीलनेन एकंत्र्यत्तरं भवतीत्याख्यातमिति। , __ अथ श्रेणयः-'जंबुद्दीवे' इत्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे गौतम ! जंबूद्वीपे द्वीपे अष्टषष्टिविद्याधरश्रेणयः-विद्याधरावासभूता वैतादयानां पूर्वापरोदध्यादिपरिच्छिन्नाआयतमेखला भवन्ति, चतुस्त्रिंशत्यपि वैताढयेषुदक्षिणतउत्तरतश्च एकैकश्रेणिभावात्, तथैवाष्टषष्टिराभियोग्यश्रेणयः, एवमेवपूर्वापरमीलनेनजंबूद्वीपे द्वीपे षट्त्रिंश-षट्त्रिंशदधिकंश्रेणिशंत भवतीत्याख्यातं। ___ अथ विजयाः-'जंबुद्दीवे'त्ति प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे जंबूद्वीपे द्वीपे चतुस्त्रिंशचक्रवर्तिविजयाः तत्र द्वात्रिंशन्महाविदेहविजया द्वे च भरतैरावते उभयोरपि चक्रवर्तिविजेतव्यक्षेत्रखण्डरूपस्य चक्रवर्तिविजयशब्दवाच्यस्य सत्वात्, एवं चतुस्त्रिंशद्राजधान्यश्चतुस्त्रिंशत्तमिम्रगुहाःप्रतिवैताढयमेकैकसम्भवात् एवं चतुस्त्रिंशत्खण्डप्रपातगुहाः चतुस्त्रिंशत्कृतमालका देवाः चतुस्त्रिंशन्नक्तमालकादेवाश्चतुस्त्रिंशत्ऋषभकूटनामकाः पर्वताः प्रज्ञप्ताः,प्रतिक्षेत्रं सम्भवतश्चक्रवर्त्तिनो दिग्विजयसूचकनामन्यासार्थमेकैकसद्भावात्, यश्चात्र विजयद्वारे प्रक्रान्तेराजधान्यादिप्रश्नोत्तरसूत्रे तद् विजयान्तर्गतत्वेनेति । ____ अथ ह्रदाः-'जंबुद्दीवे२' इत्यादिप्रश्नसूत्रं व्यक्तं, उत्तरसूत्रेषोडशमहाहदाः षड्वर्षधराणां शीताशीतादयोश्च प्रत्येकं पञ्च पञ्च । अथ सलिला:-'जंबुद्दीवे' इत्यादि, जंबुद्वीपे द्वीपे कियत्यो महानद्यो वर्षधरेभ्यः-'तात्स्थ्यात्तदव्यपदेश' इति वर्षधरहदेभ्यः प्रवहंति-निर्गच्छन्तीतिवर्षधरप्रवहाः, अन्यथा कुण्डप्रभवाणामपि वर्षधरनितम्बस्थकुण्डप्रभवत्वेन वर्षधरप्रभवा इति वार्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy