SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - ५ ४१७ प्रतपति- दीप्ताङ्गारतां प्रतिपद्यते गञ्जति गर्जारवं कुर्वति विद्युतं कुर्वति वर्षति च, अत्रापि संयोगा भणितव्याः, अप्पे० देवानां वातस्येवोत्कलिका - भ्रमविशेषस्तां कुर्वति, एवं देवानां कहकहकं-प्रमोदभरजनितकोलाहलं कुर्वति अप्पे० दुहुदुहुगं कुर्वति अनुकरणमेतत्, एवमादि विभाषेत यथा विजयदेवस्य, कियत्पर्यतमित्याह यावत् सर्वतः समंतात् आघावेंति - ईषद्धावंति परिघावति - प्रकर्षेण घावति यावत्करणात् अप्पेगइआ चेलुक्खेवं करेति, अप्पेगइआ वंदणकलसहत्थगया अप्पेगइआ भिंगारहत्थगया एवं एएणं अभिलावेणं आयंसथालपाईवायकरगरयणकरंडगपुप्फचंगेरीजाव लोमहत्थचंगेरीपुप्फपडलगजावलोमहत्थपडलगसीहासणछत्तचामरतिल्लसमुग्गय जाव अंजणसमुग्गयहत्थगया अप्पेगइया देवा धूवकडुच्छु अहत्थगया हट्ठतुठ्ठ जाव हियया' इति ग्राह्यं, अत्र व्याख्या - अप्येककाः चेलोत्क्षेप - ध्वजोच्छ्रायं कुर्वति, अप्येककाः चंदनकलशहस्तगता - मङ्गल्यघटपाणयः अप्येककाः भृङ्गारहस्तगताः, एवमंतरोक्तस्वरूपेण एतेनानंतरवर्त्तित्वात् प्रत्यक्षेणाभिलापेन सूत्रपाठे अप्येककाः आदर्शहस्तगताः स्थालहस्तगताः यावद्धूपकडुच्छुकहस्तगताः आघावंति परिधावतीत्यंवयः शेषं निगदसिद्धं प्रागुक्ताभिषेकाधिकारगतेंद्रसूत्रसमानगमत्वात् । अथाभिषेकनिगमनपूर्वकमाशीर्वादसूत्रमाह सू. (२४१) ते णं से अनुइंदे सपरिवारे सामिं तेणं महया महया अभिसेएणं अभिसंचइ २ त्ता करयलपरिग्गहिअं जाव मत्थए अंजलिं कट्टु जएणं विजएणं बद्धोवेइ २ ता ताहिं इट्ठाहिं जाव जयजयसद्द पउंजति पउंजित्ता जाव पम्हलसुकुमालाए सुरभीए गंधकासाईए गायाइं लूहेइ २ त्ता एवं जाव कप्परुक्खगंपिव अलंकियविभूसिअं करेइ २ ता जाव नट्टविहिं उवदंसेइ २ ता अच्छेहिं सहेहिं रययामएहिं अच्छरसातण्डुलेहिं भगवओ सामिस्स पुरओ अट्ठट्ठमंगलगे आलिहइ, तंजहा मू. (२४२) 'दप्पण १ भद्दासणं २ वद्धमाण ३ वरकलस ४ मच्छ ५ सिरिवच्छा ६ । सोत्थिअ ७ नंदावत्ता ८ लिहिआ अट्टट्टमंगलगा || वृ. 'तए णमित्यादि, ततः सोऽच्युतेंद्रः सपरिवारः स्वामिनं तेन अनंतरोक्तस्वरूपेण महता २- अतिशयेन महताऽभिषेकेणाभिषिञ्चति, निगमनसूत्रत्वान्न पौनरुक्त्यं, अभिषिच्य च करतलपरिगृहीतं यावत्पदसङ्गह्यं प्राग्वत्, मस्तकेऽञ्जलिं कृत्वा जयेन विजयेन च - प्रागुक्तस्वरूपेन वर्द्धयति - आशिषं प्रयुङ्क्तेवर्धयित्वा च ताभिर्विशिष्टगुणोपेताभिरिष्टाभिः श्रोतॄणां वल्लभाभिर्यावत्करणात् 'कंताहिं पियाहिं मणुष्णाहिं मणामाहिं वग्गुहिं' इति ग्राह्यं, अत्र व्याख्या चप्राग्वत्, वाग्भिर्जयशब्दं प्रयुक्ते, सम्भ्रमे द्विर्वचनं जयशब्दस्य, अत्र जयेन विजयेन वर्द्धयित्वा पुनर्जय- २ शब्दप्रयोगो मंगलवचने पुनरुक्तिर्न दोषायेत्यभिहितः, अथाभिषेकोत्तरकालीनं कर्तव्यमाह - 'पउंजित्ता' इत्यादि, प्रयुज्य च यावच्छब्दात् 'तप्पढमयाए' इति ग्राह्यं, अत्र व्याख्यातेष्वभिषेकोत्तरकालीनकर्त्तव्येषु प्रथमतया - आद्यत्वेन पक्ष्मलसुकुमारया सुरभ्या गंधकाषा 13 27 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy