________________
४१३
वक्षस्कारः-५ तदभिनयेन नर्तनं, तथा पुष्यमाणः-पुष्टीभवन् तदभिनयेन नृत्यं, यथा हि पुष्टो गच्छन् जल्पन् श्वसिति बहुबहुप्रस्विद्यतिदारुहस्तप्रायौ स्वहस्तावतिमेदस्विनौचालयन् २ सभासदामुपहासपात्रं भवति तथाऽभिनयो यत्र नाटये तत्पुष्यमाणनाटयं, एतदेवोत्तरसूत्रकारो।
'अप्पेगइआ पीणेती'ति सूत्रेण स्वयमेव वक्ष्यति, वर्द्धमानकः-स्कंधाधिरूढः पुरुषस्तदभिनयगर्भितं नाट्यं वर्द्धमानकनाटयं, एतेन प्रथमनाट्यगतवर्द्धमाननाटयाझेदो दर्शितः, मत्स्यानामण्डकंमत्स्याण्डकंमत्स्या हि अण्डाजायंतेतदाकारकरणेनयनतनंतमत्स्याण्डकनाट्यं, एवं मकराण्डकमपि, न हि यथाकामविकुर्विणां देवानां किञ्चिदसाध्यं नाट्येन चानभिनेतव्यं येन तदभिनयो नसम्भवतीति, मत्स्यकाण्डपाठे तु मत्स्यकाण्डं-मत्स्यवृंदं, तद्धि सजातीयैः सह मिलितमेव जलाशये चलति, सङ्गचारित्वात्, तथा यत्र नटोऽयनटैः सह समतो रङ्गभूमौ प्रविशि ततो वा निर्याति तंमत्स्यकाण्डनाटयम्, एवं मकरकाण्डपाठे मकरवृंदं वाच्यं, तद्धि यथा विकृतरूपत्वेनातीव द्रष्टु णां त्रासकृद् भवति तथा यन्नाटयं तदाकारदर्शनेन भयानकं स्यात् तभयानकरसप्रधानं मकरकाण्डं नाम नाटकं, तथा जारनाटकं जारः-उपपति स च यथा स्त्रभिः अतिरहस्येवरक्ष्यतेतद्वद्यत्र मूलवस्तुतिरोधानात्तत्तदिंद्रजालाविर्भावनेन सभासदामनस्ययदेवावतार्यते तज्जारनामकं नाटयं । तथा मारनाटकंमार:-कामस्तदुद्दीपकं नाटकं मारनाटकं, शृङ्गाररसप्रधानमित्यर्थः, तथा पुष्पावलिनाटयं यत्र कुसुमापूर्णसच्छिद्रवंशशलाकादिदर्शनेनाभिनयस्तत्पुष्पावलिनाटकं, तथा पद्मपत्रनाटयं यत्र पद्मपत्रेषु नृत्यन्नटस्तथाविधकरणप्रयत्नविशेषेण वायुरिव लघूभवन्न पद्मपत्रंक्लमयतिनापित्रोटयतिनवक्रीकरोति तत्पद्मपत्रोपलक्षितं नाटयं पद्मपत्रनाटकं, तथा सागरत-रङ्गाभिनयं नाम नाट्यं यत्र वर्णनीयवस्तुनो वचनचातुर्यवर्णनाद्यैः सागरतरङ्गा अभिनीयंते अथवा यत्र तकतक झें झें किटता किटता कुकु इत्यादयस्तालोदघट्टनार्थकवर्णा बहवोऽस्खलदगत्या प्रोच्यते तत्सागरतरङ्गनामनाटकं, एवं वसंतादिऋतुवर्णने वासंतीलतापद्मलतावर्णनाभिनयं नाटकं, नंवेवंसत्यभिनेतव्यवस्तूनामानंत्येन नाटयानामप्यानंत्यप्रसङ्गस्तेन द्वात्रिंशत्सङ्ख्याक-त्वविरोधः, उच्यते।
एषाचसूत्रोक्ता सङ्ख्या, उपलक्षणाचांयेऽपितत्तदभिनयकरणपूर्वकं नाट्यभेदाज्ञेयाः, एवं सर्वनाटयेष्वपिज्ञेयं २, अथतृतीयं-ईहामृगऋषभतुरगनरमकरविहगव्यालकिन-ररुरुसरभचमरकुअरवनलतापद्मलताभक्तिचित्रं, तत्र ईहामृगा-वृकाः ऋषभादयः प्रतीताः नवरंरुरवश्वमराश्च मृगविशेषाः वनो-वृक्षविशेषस्तस्य लताः ३, अथ चतुर्थ-एकतोवक्रद्विघातोवक्रएकतश्चक्रवालद्विघातश्चक्रवालचक्राईचक्रवालाभिनयात्मकः, एकतोत्रकं नाम नटानां एकस्यां दिशि धनुराकारश्रेण्या नर्तन, अनेन श्रेणिनाट्याभेदो दर्शितः, एवं द्विघातोवर्क द्वयो-परस्पराभिमुखदिशोः धनुराकारश्रेण्या नर्तनं, तथा एकतश्चक्रवालं-एकस्यां दिशिनटानां मण्डलाकारेण नर्तनं, एवं द्विघातश्चक्रवालं-द्वयोः परस्पराभिमुखदिशोर्जेयं, तथा चक्रार्द्धचक्रवालं' चक्रस्यरथाङ्गस्याद्धं तद्रूपं यच्चक्रवालं-मण्डलं तदाकारेण नर्तनं अर्द्धमण्डलाकारेणेत्यर्थः, तदभिनयं नाम नाटकं । इदं च नटानां नर्तने संस्थानविशेषप्रधानं नाम नाटकं ४, अथ पञ्चम-चंद्रावलिप्रविभक्ति- सूर्यावलिप्रविभक्तिवलयताराहंसैकमुक्ताकनकरलावलिप्रविभरक्त्यमिनयात्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org