________________
वक्षस्कारः - १
३७
चीणपिरासीइ वा जासुअणकुसुमेइ वा किंसुअकुसुमेइ वा पालियायकुसुमेइ वा स्तुप्पलेइ वा रत्तासोएइ वा रक्तकणवीरेइ वा रत्तबंधुजीवेइ वा भवे एयारूवे ?, गोअमा ! नो इणट्टे समट्ठे, ते
लहगा मणी तणा य एत्तो इट्ठतरया चैव कंततरया चेव मणुन्नतरया चेव मणामतरया चेव वण्णेणं पन्नत्ते'ति, शसरुधिरं प्रतीतं, उरभ्रः - ऊरणस्तस्य रुधिरं वराहः - शूकरः तस्य रुधिरं मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, एतानि हि शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तेनैषामुपादानां, बालेन्द्रगोपकः - सद्योजात इन्द्रगोपकः, स हि वृद्ध - सन् ईषतपाण्डुरक्तो भवति ततो बालग्रहणं, इन्द्रगोपकः- प्रावृटकालभावी कीटविशेषः बालदिवाकरः - प्रथममुदगच्छन् सूर्य, स हि उदये रक्तो भवतीति बालपदोपादानं, सन्ध्याभ्ररागो - वर्षासु सन्ध्यासमयभावी अभ्ररागः गुञ्जा - रक्तिका तस्याः अर्द्ध तस्य रागः गुञ्जर्द्धरागः, गुञ्जाया हि अर्धमतिरक्तं भवति अर्द्धमतिकृष्णं अतो गुआर्द्धग्रहणं, जात्यहिङ्गुलको व्यक्तः, शिलाप्रवालं - प्रवालनामा रत्नविशेषः प्रवालाङ्करः तस्यैवाङ्कुरः, स हि प्रथमोद्गतत्वेनात्यन्तरक्तो भवत्यतस्तदुपादानं, लोहिताक्षमणिर्नाम रत्नविशेषः लाक्षारसः - प्रसिद्धः कृमिरागेण रक्तः रम्बलः कृमिरागकम्बलः चीनपिष्टं सिन्दूरं तस्य राशि, जपाकुसुमकिंशुककुसुमपारिजातकुसुमरक्तोत्पलरक्ताशोकस्क्तकणवीररक्तबन्धुजीवाः प्रतीताः, 'भवे एयारूवे' इत्यादि प्राग्वत् ।
"तत्थ णं जे ते हालिद्दा मणी तणा य तेसि णं अयमेयारूवे वण्णावासे प० - से जहानामए पंचगेइ वा चंपगच्छल्लीइ वा चंपगच्छेएइ वा हालिद्दाइ वा हालिद्दाभेएइ वा हालिद्दागुलि - याइ वा हलियालियाइ वा हरियालियागुलियाइ वा चिउरेइ वा चिउरंगरागेइ वा वरकणगेइ वा वरकणगनिधसेइ वा वरपुरिसवसणेइ वा अल्लईकुसुमेइ वा चंपगकुसुमेइ वा कोहंडियाकु० कोरटंमल्लदामेइ वा तडउडाकु० वा घोसाडियाकु० वा सुवण्णजूहिया० वा सुहिरण्णियाकु० वा बीअगकु० वा पीयासोएइ वा पीकणवीरेइ वा पीअबंधुजीवेइ वा भवे एआरूवे ?, गो० ! नो इट्टे समट्ठे, ते णं हालिद्दा मणी तणा य एत्तो इट्ठतरा चेव जाव वण्णेणं प० ।
'तत्रे' त्यादि पदयोजना प्राग्वत्, चम्पकः - सामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छल्लीसुवर्णचंपकत्वत् चम्पकभेदः - सुवर्णचम्पकच्छेदः हरिद्रा व्यक्ता, हरिद्राभेदो-हरिद्राच्छेदः हरिद्रागुलिका - हरिद्रासारनिवर्त्तिता गुटिका हरितालिका - पृथिवीविकाररूपा प्रतीता हरितालिकाभेदोहरितालिकाच्छेदः हरितालिकागुलिका- हरितालिकासारनिर्वर्तिता गुटिका चिकुरो - रागद्रव्यविशेषः, चिकुराङ्गरागः - चिकुरसंयोगनिमित्तो वस्त्रदौ रागः, वरं प्रधानं यत् कनकं पीतसुवर्णमित्यर्थ वरकनकं तस्य निघर्ष निकषी वा कषपट्टके रेखारूपः वरपुरुषो - वासुदेवस्तस्य वसनं - वस्त्र, तद्धि किल पीतमेव भवतीति तदुपादानं, अल्कीकुसुमं लोकतोऽवसेयं, चम्पककुसुमं सुवर्णचम्पककुसुमं कूष्माण्डिकाकुसुमं पुंस्फलीपुष्पं, कोरण्टकमाल्यदाम - कोरण्टकः पुष्पजातिविशेषः स च कण्टासेलिआख्यः सम्भाव्यते तस्य मालायै हितानीति कृत्वा माल्यानि - पुष्पाणि तेषां दाम-माला, समुदाये हि वर्णेत्कटयं भवतीति दामग्रहणं, तडवडा - आउली तस्याः कुसुमं तडवडाकुसुमं तथा घोषातकीकुसुमं सुवर्णयूधिकाकुसुमं च प्रतीतं, सुहिरण्यिका- वनस्पतिविशेषः, बीको वृक्षविशेषः प्रतीतस्तस्य कुसुमं, पीताशोकादयो व्यक्ताः, शेषं पूर्ववत् ।
"तत्थ णं जे ते सुकिल्ला मणी य तणाय तेसि णं अयमेयारूवे वण्णावासे पन्नत्ते, तंजहा- से
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International