SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-५ ३८१ इत्यनेनाकर्मभूमिषु देवकुर्वादिषुजिनजन्मासम्भवइत्युक्तं भवति, एकैकस्मिन्नित्यत्रवीस्पाकरणेन च सर्वत्रापि कर्मभूमी जिनजन्मसम्भवश्च यथाकालमभिहित इति, तत्र वादी षट्पञ्चाशतो दिक्कुमारीणामितिकर्तव्यता वक्तव्या, तत्राप्यधोलोकवासिनीनामष्टानामितितासां स्वरूपमाह'तेणं कालेण मित्यादि, तस्मिन् काले सम्भवज्जिनजन्मके भरतैरावतेषु तृतीयचतुर्थाकलक्षणे महाविदेहेषु चतुर्थारकप्रतिभागलक्षणे, तत्र सर्वदापि तदाधसमयसद्दशकालस्य विद्यमानत्वात् तस्मिन् समये-सर्वत्राप्यर्द्धरात्रलक्षणे, तीर्थकराणां हि मध्यरात्रएवजन्मसम्भवात्, अधोलोकवास्तव्याः-चतुर्णा गजदन्तानामधः समभूतलानवशतयोजनरूपां तिर्यग्लोकव्यवस्थां विमुच्य प्रतिगजदन्तंद्विद्विभावेन, तत्रभवनेषुवसनशीलाः, यत्तुगजदन्तानांषष्ठपञ्चमकूटेषु पूर्वंगजदन्तसूत्रे आसां वासः प्ररूपितस्तत्र क्रीडार्थमागमनं हेतुरिति, अन्यथा आसामपि चतुःशतयोजनादिपञ्चाशतयोजनपर्यन्तोच्चत्वगजदन्तगिरिगतपञ्चशतिककूटगतप्रासादावतंसकवासित्वेन नन्दनवनकूटगतमेघङ्करादिदिक्कुमारीणावोर्ध्वलोकवासित्वापत्ति। . अथप्रकृतंप्रस्तुमः, अष्टौ दिक्कुमार्यो-दिक्कुमारभवनपतिजातीया महत्तरिकाः-स्ववग्येषु प्रधानतरिकाः स्वकेषु स्वकेषुकूटेषु-गजदन्तादिगिरिवर्तिषुस्वकेषु२ भवनेषु-भवनपतिदेवावासेषु स्वकेषु २ प्रासादावतंसकेषु-स्वस्वकूटवर्तिक्रीडावासेषु, सूत्रेचसप्यम्यर्थे तृतीयाप्राकृतत्वात, प्रत्येकं २, चतुर्भिः सामानिकानां-दिक्कुमारीसध्शधुतिविभवादिकदेवानां सहनैः चतसृभिश्च महत्तरिकादिभिःदिक्कुरिकातुल्यविभवाभिस्ताभिरनतिक्रमणीयवचनाभिश्चस्वस्वपरिवारसहिताभिः सप्तभिरनीकैः-हस्त्यश्वरथपदातिमहषगंधर्वनाटयरूपैः सप्तभिरनीकाधिपतिभि षोडशभिरात्मरक्षकदेवसहनैरित्यादिकं सर्वं विजयदेवाधिकार इव व्याख्येयं, ननुकासाञ्चित् दिक्कुमारीणां व्यक्त्या स्थानाङ्गेपल्योपमस्थितेर्भणनात् समानजातीयत्वेनासामपितथाभूतायुषः सम्भाव्यमानत्वाद् भवनपतिजातीयत्वं सिद्धं तेन भवनपतिजातीयानां वानमन्तरजातीयपरिकरः कथं सङ्गच्छते उच्यते। एतासांमहर्द्धिकत्वेनये आज्ञाकारिणो व्यन्तरास्ते ग्राह्या इति, अथवा वानमन्तरशब्देनात्र वनानामन्तरेषुचरन्तीति योगिकार्यसंश्रयणात् भवनपतयोऽपिवानमन्तरा इत्युच्यन्ते, उभयेषामपि प्रायो वनकूटादिषु विहरणशीलत्वादिति सम्भाव्यते, तत्वं तु बहुश्रुतगम्यमिति सर्वं सुस्थम्, । मू. (२१३) भोगंकरा १ भोगवई २, सुभोगा ३ भोगमालिनी ४ । तोयधारा ५ विचित्ता य ६, पुष्फमाला ७ अनिंदिआ ८॥ वृ. आसां नामान्याह-'तंजहा' इत्यादि, तद्यथा-भोगंकरेत्यादिरूपकमेतत्, कण्ठ्यं । मू. (२१४) तएणं तासिं अहेलोगवत्थव्वाणं अमृण्हं दिसाकुमारीणं मयहरिआणं पत्तेयं पत्तेअंआसणाइंचलंति, तए णं ताओ अहेलोगवस्थव्वाओ अट्ट दिसाकुमारीओ महत्तरिआओ पत्तेयं २ आसणाइं चलिआई पासंति र त्ता ओहिं पउंजंति पउंजित्ता भगवं तित्थयरं ओहिणा आभोएंति २ ता अन्नमन्नं सद्दाविति २ ता एवं वयासी उप्पन्ने खलु भो! जंबुद्दीवे दीवे भयवं! तित्थयरे तंजीयमेअंतीअपचुप्पन्नमनागयाणं अहेलोमवत्थव्वाणं अट्ठण्हं दिसाकुमारीमहत्तरिआणं भ० तित्थगरस्स जम्मणमहिमं करेत्तए, तं गच्छामो णं अम्हेवि भग० जम्मणमहिमं करेमोत्तिकट्ठएवं वयंति र तापतेअं२ आभिओगिए देवे सद्दावेति २ ता एवं वयासी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy