________________
वक्षस्कारः - ४
३७९
माल्यवद्वर्णामानीति प्राग्वत्, प्रभासश्चात्र देवः पल्योपस्थितिकः परिवसति 'से तेणट्टेण' मित्यादि निगमनसूत्रं प्राग्वत् राजधानी तस्योत्तरस्यां शब्दापातिनस्तु दक्षिणस्यां मेरोरिति, अथ हैरण्यवतनाम्नोऽर्थव्यक्तये पृच्छति
'सेकेणट्टेणमित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-हैरण्यवतं वर्षं २ -इति ?, गौ० ! हैरण्यवतं वर्ष रुक्मिशिखरिम्यां वर्षधरपर्वताभ्यां द्विधातः उभय ओर्दक्षिणोत्तर - पार्श्वयोः समुपगूढं- समालिङ्गितं, कृतसीमाकमित्यर्थः, अथ कथमाभ्यां समालिकितत्वेनास्य हैरण्यवतमिति नाम सिद्धं ?, उच्यते, रुक्मी शिखरी च द्वाव्येतौ पर्वतौ यथाक्रमं रूप्यसुवर्णमयी यच्च यन्मयं तत्र तद्विद्यते हिरण्यशब्देन सुवरणं रूप्यमपि च ततो हिरण्यं सुवर्णं विद्यते यस्यासौ हिरण्यवान्शिखरी हिरण्यं रूप्यं विद्यते यस्यासौ हिरण्यवान् रुक्मी द्वयोः हिरण्यवतोरिदं हैरण्य - वतम्, यिवा हिरण्यं जनेभ्यः आसनप्रदानादिना प्रयच्छति अथवा दर्शनमनोहारितया तत्र तत्र प्रदेशे हिरण्यं जनेभ्यः प्रकाशयति, तथाहि - बहवस्तत्र मिथुनकमनुष्यानामुपवेशनशयनादिरूपोपभोगयोग्या हिरण्यमयाः शिलापट्टकाः सन्ति पश्यन्ति च ते मनुष्यास्तत्र तत्र प्रदेशे मनोहारिणो हिरण्यमयान्निवेशान् ततो हिरण्यं प्रशस्यं प्रभूतं नित्ययोगि वाऽस्यास्तीति हिरण्यवत् तदेव हैरण्यवतं, स्वार्थेऽणप्रत्ययः, यदिवा हैरण्यवतनामात्र देवः पल्योपमस्थितिकः आधिपत्यं परिपाल-यति तेनैतत्स्वामिक्त्वाद्धैरण्यवतम् ।
अथ षष्ठवर्षधरावसरः - क्व भदन्त ! जम्बूद्वीपे द्वीपे शिखरीनामवर्ष धरपर्वतः प्रज्ञप्तः ?, गौ० ! हैरण्यवतस्योत्तरस्या ऐरावतस्य- वक्ष्यमाणसप्तमक्षेत्रस्य दक्षिणस्यां 'पुरत्थिमेत्यादि प्राग्वत्, एवमुक्ताभिलापेन यथा क्षुद्रहिमवान् तथैव शिखर्यपि, नवरं जीवा दक्षिणेन धनुरुत्तरेण अवशिष्टं तदेवेति-क्षुद्रहिमवत्प्रकरणोक्तमेव, तत्र पुण्डरीको द्रहः, तस्मात्सुवर्णकूला महानदी दक्षिणेन निर्गता नेतव्या, परिवारादिना च यथा रोहितांशा, साच पश्चिमायां समुद्रं प्रविशति इयं च पूर्वस्यामित्यत आह- सुवर्णकूलायाः रोहितांशातिदेशन्यायेन यथैव गङ्गासिन्धू तथैव रक्तारक्तवत्यौ नेतव्ये, तत्रापि दिग्व्य क्तिमाह पूर्वस्यां रक्ता पश्चिमायां रक्तावती अवशिष्टं तदेव - गङ्गासिन्धुप्रकरणोक्तमेव सम्पूर्ण नेतव्यं ।
अथात्र कूटवक्तव्यमाह - 'सिहरिम्मि णं भंते! वासहरपव्वए' इत्यादि, शिखरिणि पर्वते भगवन् ! कति कूटानि प्रज्ञप्तानि ?, गौतम ! एकादश कूटानि प्रज्ञप्तानि तद्यथा- पूर्वस्यां सिद्धायतनकूटं, ततः क्रमेण शिखरिकूटं शिखरिवर्षधरनाम्ना कूटं हैरण्यवत क्षेत्र सुरकूटं सुवर्णकूलानदीसुरीकूटं सुरादेवीदिक्कुमारीकूटं रक्तावर्तनकूटं लक्ष्मीकूटं पुण्डरीकद्रहसूरी कुटंरक्तावत्यावर्त्तनकूटं इलादेवीदिक्कुमारीकूटं तिगिच्छिद्रहपतिकूटं एवं सर्वाण्यप्येतानि पञ्चशतिकानि ज्ञातव्यानि, क्षुद्रहिमवत्कटतुल्यवक्तव्यताकानि ज्ञेयानि, एतस्वामिनां राजधान्य उत्तरस्यामिति । अथास्य नामनिबन्धनं प्रष्टुमाह- 'सेकेणट्टेणं० अथ केनार्थेन भदन्त ! एवमुच्यते शिखरीवर्षधरपर्वतः २ ? गौतम ! शिखरिणि पर्वते बहूनि कूटानि शिखरी - वृक्षस्तत्संस्थानसंस्थितानि सर्वरत्नमयानि सन्तीति तद्योगाच्छिखरी, कोऽर्थ अत्र वर्षधराद्री यानि सिद्धायतनकूटादीन्येकादश कूटान्युक्तानि तेभ्यो ऽतिरिक्तानि बहूनि शिखराणि वृक्षाकारपरिणतानि सन्तीति, अनेन चान्येभ्यो वर्षधरेभ्यो व्यावृत्ति कृता, अन्यथा तेषामपि कूटवत्वेन शिखरित्वव्यपदेशः स्यादिति, अथवा शिखरी चात्र देवो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति तेन तत्स्वामिकत्वात् शिखरीति, 'से
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org