________________
वक्षस्कार:- ४
३७३
मू. (२०२) मंदरस्स णं भंते! पव्वयस्स कति नामधेजा प० गो० सोलस तं०बृ. 'मंदरस्सण 'मित्यादि, मन्दरस्स पर्वतस्य भगवन् ! कति नामधेयानि नामानि प्रज्ञप्तानि गौतम ! षोडश नामधेयानि प्रज्ञप्तानि, तद्यथा
मू. (२०३) मन्दर १ मेरु २ मनोरम ३ सुदंसण ४ सयंपभे अ ५ गिरिराया ६ । रयणोच्चय ७ सिलोच्चय ८ मज्झे लोगस्स ९ नाभी य १० ॥
ख. 'मन्दरे' त्यादि गाथाद्वयं मन्दरदेवयोगात् मन्दरः ?, एवं मेरुदेवयोगात् मेरुरिति, नन्वेवं मेरोः स्वामिद्वयमापद्येतेति चेत, उच्यते, एकस्यापि दवस्य नामद्वयं सम्भवतीति न काप्याशङ्का, निर्णीतिस्तु बहुश्रुतगम्येति २ तथा मनांसि देवानामप्यतिसुरूपतया रमयतीति मनोरमः ३, तथा सुष्ठु - शोभनं जाम्बूनदमयतया रत्नबहुलतया च मनोनिर्वृतिकरं दर्शनं यस्यासौ सुदर्शनः ४, तथा रत्नबहुलतया स्वयमादित्यादिनिरपेक्षा प्रभा - प्रकाशो यस्यासी स्वयम्प्रभः ५, चः समुच्चये, तथा सर्वेषामपि गिरीनामुच्वेन तीर्थकरजन्माभिषेकाश्रयतया च राजा गिरिराजः ६, तथा रत्नानां नानाविधानामुत्-प्राबल्येन चयः - उपचयो यत्र स रत्नोच्चयः ७, तथा शिलानां पाण्डुशिला - दीनामूर्ध्व-शिरस उपरि चयः- सम्भवो यत्र स शिलोच्चयः ८ ।
तथा लोकस्य मध्यं, अस्य सकललोकमध्यवर्त्तित्वात् नन्वत्र लोकशब्देन चतुर्दशरज्ज्चात्मकलोके व्याख्यातव्ये 'घम्माइ लोगमज्झं जो अणअस्संखकोडीहिं' इति वचनात् समभूतलाद्ररत्नप्रभाया असंख्याताभिर्योजन - कोटीभिरतिक्रान्ताभिर्लोकमध्यं तत्र च मेरोरसम्भवेन बाधितं व्याख्यानं, अथ लोकशब्देन तिर्यग्लोकस्तस्याप्यष्टादशशतयोजनप्रमाणोच्चस्यास्मिन्त्रेवान्तलीनत्वात् कुतरस्तरामस्य लोकमध्रवर्त्तित्वमिति चेत्, उच्यते, तिर्यग्लोके तिर्यग्भागस्य स्थालाकारैकरज्जुप्रमाणायाम - विष्कम्भस्यात्र लोकशब्देन ववक्षणात् तस्य मध्यं, मेरु तन्मध्य- वर्त्तीत्यर्थः, अस्मात् सर्वतोऽप्य-लोकस्य पञ्चसहस्रनार्द्धरज्जुप्रमाणेन दूरव्यवहितत्वात्, अत एवोप- लक्षणालोकस्याप्यसौ मध्यं अस्मात् सर्वतोऽप्यलोकस्यानन्तयोजनप्रमाणत्वात् ९, एवं 'नाभी य'त्ति अत्र च देहलीप्रदीपन्यायेन लोकशब्दस्य संयोजनात् लोकनाभि, अत्र भावना तु उक्तन्यायेनैव १०, चः समुच्चये ।
मू. (२०४) अच्छे अ ११ सूरिआवत्ते १२, सूरिआवरणे १३ तिआ । उत्तमे १४ अ दिसादीअ १५, वडेंसेति १ अ सोलसे ॥
1
वृ. अथ श्लोकबन्धेन 'अच्छे' इत्यादि, अच्छः- सुनिर्मलः जाम्बूनदरत्नबहुलत्वात्, चतुर्थाङ्ग षोडशसमवाये तु अत्थे इति पाठः, तत्र अनेन ह्यन्तरितः सूर्यादिरस्त इत्यभिधीयते, इदं च पूर्वापरमहाविदेहापेक्षया ज्ञेयं, अतोऽयमपि कारणे कार्योपचारादस्त इति ११ तथा सूर्या उपलक्षणमेतत्तेन चन्द्रादयश्च प्रदक्षिणमावर्त्तन्ति यस्य स सूर्यावर्त्तः १२, तथा सूर्यैरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रादिभिश्च समन्ताद् भ्रमणशीलैराव्रियते स्म - वेष्टयते स्मेति सूर्यावरणः 'कृद्बहुल' मिति वचनात् कर्मण्यनट्प्रत्ययः १३, इतिशब्दो नामसमाप्तौ चः समुच्चये, तथा उत्तमो गिरिषु सर्वतोऽप्यधिकसमुन्नतत्वात्, समवायाङ्गे तु उत्तर इति पाठः, तत्र उत्तरतः - उत्तरदिग्वर्त्ती सर्वेभ्यो भरतादिवर्षेभ्य इति यदाह
"सर्वेषामुत्तरो मेरु" रिति, ननु भरतादिभ्यः उत्तरदिग्वर्त्तित्वं जम्बूद्वीपपट्टादौ विलोकनेन
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International