________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/५
पुद्गलसंहतिरुपचाराद् गन्धधाणिरित्युच्यते तां निरन्तरं मुञ्चन्त इत्यर्थः, तथा शुभाः - प्रधानाः सेतवो-मार्गा आलवालपाल्यो वा केतवो-ध्वजा बहुलाअनेकरूपा येषां ते तथा, रथाःक्रीडारथादयः यानानि - उक्तवक्ष्यमाणातिरिक्तानि शकटादीनि - वाहनानि युग्यानि - गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि चतुरस्रवेदिकायुतानि जम्पानानि शिबिका :- कूटाकारेणाच्छादिताः जम्पानविशेषाः स्यन्दमानिकाः - पुरुषप्रमाणजम्पानविशेषाः, अनेकेषां रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा, 'पासादीया' प्राग्वत् । अथ वनखण्डस्य भूमिभागवर्णनमाह
मू. (६) तस्स णं वनसंडस्स अंतो बहुसमरमणिजे भूमिभागे पन्नत्ते से जहानामए आलिंगपुक्खरेइ वा जाव नानाविहपंचवण्णेहिं मणीहिं तणेहिं उवसोमिए, तंजहा
किण्हेहिं एवं वण्णे गंधी रसो फासो सद्दो पुक्खरिणीओ पव्वयगा घरगा मंडवगा पुढविसिलावट्टया गोयमा ! णेयव्वा, तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति पुरापोराणाणं सुपरकंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसंपञ्चणुभवमाणा विहरति । तीसे णं जगईए उप्पिं अंतो पउमवरवेइआए एत्थ णं एगे महं वनसंडे पन्नत्ते, देसूणाई दो जो अणाइं विक्खंभेणं वेदिवासमएण परिक्खेवेणं किण्हे जाव तणविहूणे ने अव्वो ।
३४
वृ. तस्य णमिति पूर्ववत् वनखण्डस्यान्तः -- मध्ये बहु-अत्यन्तं समो बहुसमः स चासौ रमणीयश्च स तथा भूमिभागः प्रज्ञप्तः, कीध्श इत्याह- 'से' इति तत् सकललोकप्रसिद्धं 'यथे' ति ष्टान्तोपदर्शने 'नामे' ति शिष्यामन्त्रणे 'ए' इति वाक्यालङ्कारे, आलिङ्गो - मरजो वाद्यविशेषसतस्य पुष्करं - चर्म्मपुटकं तत्किलात्यन्तसममिति तेनोपमा क्रियते इतिशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुसमाप्तिद्योतकाः, वासन्दाः समुच्चये, यावच्छब्देन बहुसमत्ववर्णको मणिलक्षणवर्णकश्च ग्राह्य इति, स चायं 'मुइंगपुक्खरेइ वा सरतलेइ वा करतलेइ वा चंदमंडलेइ वा सूरमंडलेइ वा आयंसमंडलेइ वा उरमचम्मेइ वा वसहचम्मेइ वा वराहचम्मेइ वा सीहचम्मेइ वा वग्घचम्पेइ वा छगलचम्मेइ वा दीवियचम्मेइ वा अनेगसंकुकीलगसहस्सवितते आवत्तपञ्चावत्तसेढिपसेढिसोत्थियसोवत्थियपूसमाण वद्धमाणगमच्छंडकमगरंडकजारमारफुल्लावलिपउमपत्तसागरतरंगवासंती पमलयभत्तिचित्तेहिं सच्छाएहिं सप्पमेहिं समिरीइएहिं सउज्जोएहिं' इति ।
अत्र व्याख्या - मृदङ्गो लोकप्रतीतो मर्दलस्तस्य पुष्करं मृदङ्गपुष्करं तथा परिपूर्ण - पानीयेन भृतं तडागं-सरस्तस्य तलं - उपरितनो भागः सरस्तलं, अत्र 'व्याख्यातो विशेषप्रतिप्तति' रिति निर्वातं जलपूर्ण सरो ग्राह्यं, अन्यथा वातोद्धूयमानतयोच्चावचजलत्वेन विवक्षितः समभावो न स्यादित्यर्थः करतलं प्रतीतं, चन्द्रमण्डलं सूर्यमण्डलंच यद्यपि वस्तुगत्या उत्तानीकृतार्थकपित्याकारपीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागो न समतलस्तथापि प्रतिभासते समतल इति तदुपादानं, आदर्शमण्डलं सुप्रसिद्धं 'उरब्मचम्मेइ वा' इत्यादि, अत्र सर्वत्रापि 'अनेगसंकुकीलगसहस्सवितते' इति पदं योजनीयं, उरन-ऊरणः वृषभवराहसिंहव्याघ्रछगलाः प्रतीताः द्वीपी - चित्रकः, एतेषां प्रत्येकं चरम्मं अनेकैः शङ्खप्रमाणैः कीलकसहसैर्यतो महद्भिः कीलकैस्ताडितं प्रायो मध्ये क्षामं भवति न समतलं तथारूपताडासम्भवात् अतः शङ्खग्रहणं विततं विततीकृतं ताडितमिति भाव:, यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि वनखण्डस्यान्तर्बहुसमो भूमिभागः । पुनः कथंभूत इत्याह-- ' नानाविहपंचवण्णेहिं मणीहिं तणेहिं उवसोभिए' इति योगः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org