SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३३८ जम्बूद्वीपप्रज्ञाप्त-उपाङ्गसूत्रम् ४/१६६ तत्र देशे स्थानेतस्मिन् तस्मिन् प्रदेशे-देशैकदेशे इत्यर्थः बहवः सरिकागुल्माः नवमालिकागुल्माः यावन्मगदन्तिकागुल्माः सन्तीति शेषः,ते गुल्माः क्षेत्रानुभावतः सदैवपञ्चवर्णं कुसुमं कुसुमयन्तिजनयन्ति इत्यर्थः,तेगुल्मास्तमाल्यवतोवक्षस्कारपर्वतस्य बहुसमरमणिज्जं भूमिभागंवातविधुताग्रशालामुक्तपुष्पपुञ्चोपचारकलितं कुर्वन्ति, एतदर्थ प्राग्वत्, ततो माल्यं-पुष्पं नित्यस्यास्तीति माल्यवान्माल्यवान्नाम्ना देवश्चात्रमहर्द्धिकोयावत्पल्योपमस्थितिकः तेन तद्योगादयमपि माल्यवान्, 'अथापरं चे' त्यादि, प्राग्वत् ॥ इह द्विविधा विदेहाः, तद्यथा-पूर्वविदेहा अपरविदेहाश्च, तत्र ये मेरोः प्राक् ते पूर्वविदेहाः ते च शीतया महानद्या दक्षिणोत्तरभागाभ्यां द्विधा विभक्ताः, एवं ये मेरोः पश्चिमायां ते अपरवि-देहास्तेऽपितथैव शीतोदया द्विधा विभक्ताः, एवं विदेहानां चत्वारो भागाः दर्शिताः, सम्प्रत्यमीषु विजयवक्षस्कारादिव्यवस्थालाघवार्थं पिण्डार्थगत्या सूत्रकृदयिष्यमाणरीत्या बोधनीयानांदुर्बोधा इति विस्तरतोनिरूप्यते, तत्रैकैकस्मिन् भागेयथायोग माल्यवदादेर्गजदन्ताकारवक्षस्कारगिरेः समीपे एको विजयः तथा चत्वारः सरलवक्षस्कारास्तिस्रश्चान्तनद्यः, एषां सप्तानां वस्तूनामन्तराणिषट्, सर्वत्राप्यन्तराणि रूपोनानि भवन्ति तथाऽत्र, प्रतीतमेतचतसृनामङ्गुलीनामप्यन्तरालानि त्रीणिति, ततोऽन्तरे २ एकैकसद्भावात् षड्विजयाः। एते चत्वारोवक्षस्कारादय एकैकान्तरनद्याऽन्तरितास्ततश्चतुर्णामद्रीनामन्तरे सम्भवत्यन्तरनदीत्रयमिति व्यवस्था स्वयमवसातव्या, तथा वनमुखमवधीकृत्यैको विजय इति प्रतिविभागं सिद्धा अष्टौ विजयाः चत्वारो वक्षस्कारासितम्रऽन्तरनद्यो वनमुखं चैकमिति, इयमत्र भावनापूर्वविदेहेषु माल्यवतो गजदन्तपर्वतस्य पूर्वतः शीताया उत्तरत एको विजयः, ततः पूर्वस्यां प्रथमो वक्षस्कारः ततोऽपि पूर्वस्यां द्वितीयो विजयः ततोऽपि पूर्वस्यां प्रथमान्तरनदी, अनेन क्रमेण तृतीयो विजयः द्वितीयो वक्षस्कारः चतुर्थो विजयः द्वितीयान्तरनदी पञ्चमो विजयः तृतीयो वक्षस्कारः षष्ठो विजयः तृतीयान्तरनदी सप्तमो विजयःचतुर्थो वक्षस्कारः अष्टमो विजयः ततश्चैकं वनमुखं जगत्यासन्नं, एवं शीताया दक्षिणतोऽपि सौमनसगजदन्तपर्वतस्यपर्वतोऽयमेव विजयादिक्रमो वाच्यः, तथा पश्चिमविदेहेषुशीतोदाया दक्षिणतो विद्युप्रभस्य पश्चिमतोऽप्ययमेव क्रमः, तथा शीतोदाया उत्तरतोऽपि गन्धमादनस्य पश्चिमत इति । अथप्रादक्षिण्येन निरूपणेऽयमेव हि आधइति, प्रथमविभागमुखे कच्छविजयंविवक्षुराह मू. (१६७) कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे कच्छेनामं विजए पन्नते?, गोअमा ! सीआए महानईए उत्तरेणं नीलवंतस्स वासहरपव्वयस्स दक्खिणेणं चितकूडस्स वक्खारपब्वयस्स पञ्चस्थिमेणंमालवंतस्स वखारपब्बयस्सपुरस्थिमेणंएत्थणंजंबुद्दीवे २ महाविदेहे वासे कच्छे नामं विजए पन्नत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे पलिअंकसंठाणसंठिए गंगासिंधूहि महानईहिं वेयद्धेण य पब्वएणं छब्भागपविभते सोलस जोअणसहस्साइं पंच य बानउए जोअणसए दोन्नि अएगूमवीसइभाए जोअणस्स आयामेणं दो जोअणसहस्साइंदोन्नि अतेरसुत्तरे जोअणसए किंचिविसेसूणे विक्खम्भेणंति कच्छस्स णं विजयस्स बहुमज्झदेसभाए एस्थणंवेअद्धे नामंपब्बएप०,जेणंकच्छं विजयंदुहा विभयमाणे २ चिठ्ठइ, तंजहा-दाहिणद्धकच्छं च उत्ताद्धकच्छंचेति, कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे दाहिणद्धकच्छे नामं विजए पं०? गो० वेअद्धस्स पञ्चयस्स दाहिणेणं सीआए महानईए उत्तरेणं चित्तकूडस वक्खारपब्बयस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy