________________
वक्षस्कारः-१
कुसुमित- मुकुलितलवकितस्तबकित गुल्मितगुच्छितयमलितयुगलवितविनमितप्रणमितसुविभक्तप्रतिमञ्जर्यवतंसकधर्य इति, अर्थस्तु प्राग्वत्, एताश्च सर्वा अपि लताः किंरूपा इत्याहसर्वात्मना रत्नमय्यः, ‘अच्छा सण्हा' इत्यादिविशेषणानि प्राग्वत्।
अत्रतीसे णमित्यादि अक्खयसोस्थियासूत्रं दृश्यते, परं वृत्तिकारेण न व्याख्यातमिति न व्याख्यायते । अधुना पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति-सेशब्दोऽधशब्दार्थ अथ 'केनार्थेन' केन कारणेन भदन्त ! एवमुच्यते-पद्मवरवेदिका पद्मवरवेदिकेति, किमुक्तं भवति?-पद्मवरवेदिकेत्येवंरूपस्य शब्दस्य तत्र प्रवृत्तौ किं निमित्तमिति एवमुक्ते भगवानाहगौतम! पद्मवरवेदिकायांतत्र तत्रदेशे तस्यैव देशस्य तत्र तत्रएकदेशे वेदिकासु-उपवेशनयोग्यमत्तवारणरूपासु वेदिकाबाहासु-वेदिकापार्वेषु वेइयापुडंतरेसु इति-द्वे वेदिके वेदिकापुटं तेषामन्तराणि तेषु, स्तम्भेषुसामान्यतः, स्तम्भबाहासु-स्तम्भपार्श्वेषु, स्तम्भीशीर्षेषु(स्तम्भाग्रभागेषु स्तम्मपुटान्तरेषु)-द्वौ स्तम्भौ स्तम्भपुटतेषामन्तराणितेषु, सूचीषुफलकसम्बन्धविघटनाभावहेतुपदुकास्थानीयासु तासामुपरि इति तात्पर्यार्थः, सूचीमुखेषु-यत्र प्रदेशे सूची फलकं भित्वा मध्ये प्रविशति तात्यासत्रो देशः सूचीमुखं तेषु, तथा सूचीफलकेषु-सूचीभि सम्बन्धिता ये फलकप्रदेशास्तेऽप्युपचारात्सूचीफलकानितेषुसूचीनामधउपरिच वर्तमानेषु, तथा सूचीपुटान्तरेषु द्वेसूव्यौसूचीपुटतेषामन्तरेषु, पक्षाः पक्षबाहावेदिकैकदेशविशेषाः तेषुबहूनि उत्पलानि-गईभकानि ईषन्नीलानि वा पद्मानि-सूर्यविकासीनि ईषत्श्वेतानि वा, नलिनानि-ईषद्रक्तानि कुमुदानिचन्द्रविकासीनिसुभगानि-पद्मविशेषाः, सौगन्धिकानि-कल्हाराणिपुण्डरीकाणि-श्वेतपद्मानि तान्येवमहान्ति महापुण्डरीकाणि शतपत्राणि-दलशतकलितानिसहनपत्राणि-सहनदलकलितानि एतौ च पद्मविशेषौ पत्रसङ्ख्याविशेषात् पृथगुपात्तौ, सर्वरत्नमयानि चैतानि, अच्छा इत्यादिविशेषणानि प्राग्वत्, महान्ति-महाप्रमाणानि वार्षिकाणि वर्षाकाले पानीयरक्षणार्तयानि कृतानि तानि वार्षिकाणि तानि च तानि छवाणि च २ तत्समानानि प्रज्ञप्तानि, हे श्रमण!-तपः प्रवृत्त ! हे आयुष्मन् !-प्रशस्तजीवित !
-से एएणद्वेण मित्यादि, तदेतेनार्थेन-अन्वर्थेन गौतम! एवमुच्यते-पद्मवरवेदिका २ तेषु २ यथोक्तरूपेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चैवं पद्मवरा-पद्मप्रधाना वेदिका पद्मवरवेदिकेति, अथापरञ्च प्रवृत्तिनिमित्तं, किन्तदित्याह-पद्मवरवेदिकायाः शाश्वतंनामधेयं प्रज्ञप्तमिति, अयमभिप्रायः-प्रस्तुतपुद्गलप्रचयविशेषे पद्मवरदेदिकेतिशब्दस्य निरुक्तिनिरपेक्षाऽनादिकालीना रूढि प्रवृत्तिनिमित्तमिति । 'पउवरवेइया णं भंते'त्ति पद्मवरवेदिका शाश्वती उताशाश्वती ?, “प्रत्यये डीन वा" इत्यनेन प्राकृतसूत्रेण डीप्रत्ययस्य वैकल्पिकत्वेन आबन्ततया सूत्रे निर्देशः, किं नित्या उत अनित्येतिभावः, भगवानाह-गौतम! स्याच्छाश्वती स्यादशाश्वती, कथञ्चि नित्या कथञ्चिदनित्येत्यर्थः, स्याच्छब्दो निपातः कथञ्चिदित्येतदर्थवाची, एतदेव सविशेषं जिज्ञासुः पृच्छति
'से केणटेण मित्यादि, सेशब्दोऽथशब्दार्थ सच प्रश्ने, केनार्थेन-केन कारणेन भदन्त! एवमुच्यते यथा स्याच्छाश्वती स्यादशाश्वतीति, भगवानाह-गौतम ! द्रव्यार्थतथा शाश्वंती, तत्र द्रव्यं सर्वत्रान्वयि सामान्यमुच्यतेद्रवति-गच्छतितान् तान् पर्यायान्विशेषानिति वाद्रव्यमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org