SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २९८ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१३१ 'तस्स बाहा' इत्यादि, व्यक्तं, 'तस्स जीवाउत्तरेण मित्यादि, प्राग्वत्, सप्तत्रिंशयोजनसहस्राणिषट्चतुःसप्ततानि योजनशतानिषोडशकलाः किंचिदूनाआयामेनेति, तस्स धनु'मित्यादि, तस्य धनुःपृष्ठमष्टत्रिंशदयोजनसहनाणि सप्तच चत्वारिंशानि-चत्वारिंशदधिकानि योजनशतानि शच एकोनविंशतिभागान् योजनस्य परिक्षेपेणेति, अथ कीशमस्य स्वरूपमित्याह "हेमवयस्स णमित्यादि, व्याख्यातप्राय, नवरं “एव'मिति उक्तप्रकारेण तृतीयसमासुषणदुष्षमारकस्तस्यानुभावः-स्वभाः स्वरूपमितियावत् नेतव्यः-स्मृतिपथं प्रापणईय इत्यर्थः। अथात्र क्षेत्रविभागकारिगिरिस्वरूपं निर्दिशति मू. (१३२) कहिणंभंते! हेमवए वासे सद्दावई नामंवट्टवेअद्धपञ्चए प०गो०! रोहिआए महानईए पञ्चच्छिमेणं रोहिअंसाए महानईए पुरस्थिमेणं हेमवयवासस्स बहुमज्झदेसभाए, एत्थ णंसद्दावईनामंवट्टवेअद्धपब्बए प०, एगंजोअणसहस्सं उद्धं उच्चत्तेणं अद्धाइजाईजोअणसयाई उव्वेहेणं सव्वत्थसमे पल्लगसंठाणसंठिए एगं जोअणस० आयामविक्खंभेणं तिन्नि जोअणस एगंच बावट्ठजोअणसयं किंचिविसेसाहिअंपरिक्खेवेणं पन्नत्ते, सव्वरयणामए अच्छे। से णं एगाए पउमवरवेइआए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते, वेइआवनसंडवण्णओभाणिअव्यो, सद्दावइस्सणंवट्टवेअद्धपव्वयस्स उवरिंबहुसमरमणिजे भूमिभागे पन्नत्ते, तस्सणंबहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं महंएगे पासायवडेंसए पन्नते बावडिंजोअणाइंअद्धजोयणंच उद्धं उच्चत्तेणंइक्तीसं जोअणाइंकोसंचआयामविखंभेणं जाव सीहासणं सपरिवारं। से केणडेणं भंते! एवं वुबइ सदावई वट्टवेयद्धपव्यए? २, गोअमा! सदावइवट्टवेअद्धपव्वए णंखुद्दा खुद्दिआसु वावीसु जाव बिलपंतिआसु बहवे उप्पलाई पउमाई सद्दावइप्पमाइंसदावइवण्णाइंसद्दावर्तिवण्णाभाइंसद्दावई अइत्य देवे महिद्धीए जाव महानुभावे पलिओवमठिइए परिवसइत्ति, से णं तत्थ चउण्हं सामानिअसाहस्सीणं जाव रायहाणी मंदरस्स पव्वयस्स दाहिणेणं अन्नामि जम्बुद्दीवे दीवे। वृ. 'कहि णं भंते इत्यादि, क्व भदन्त ! हेमवतवर्षे शब्दापतीनाम्ना वृत्तवैताढ्यपर्वतः प्रज्ञप्तः, वैताढ्यान्वर्थस्तु प्रागुक्तः, असौ च वृत्ताकारो न भरतादिक्षेत्रवर्तिवैताढयपर्वतवत् पूर्वापरायतस्तेन वृत्तवैताढय इत्युच्यते, अत एव एतत्कृतः क्षेत्रविभागः पूर्वतोऽपरतश्च भवति, यथा पूर्वहैमवतमपरहैमवतमिति, आह-पञ्चकलाधिकैकविंशतिशतयोजनप्रमाणविस्तारस्य हैमवतस्य मध्यवर्तीयोजनसहनमान एष गिरिकतं क्षेत्रं द्विधाविभजति?,उच्यते, प्रस्तुतक्षेत्रव्यासो हि उभयोः पार्श्वयोः रोहितारोहितांशाभ्यां नदीभ्यां रुद्धः मध्यतस्त्वनेन, अथ नदीरुद्धक्षेत्रं वयित्वाऽवशिष्टक्षेत्रमसौद्विधा करोतीत्यस्मिन्नन्वर्थवती वैताढयशब्दप्रवृत्तिरिति, एवं शेषेष्वपि वृत्तवैतायेषु स्वस्वक्षेत्रस्वस्वनदीनामभिलापेन भाव्यं, दिग्विभागनियमनं सुलभमिति न व्याख्यायते, एकं योजनसहनमूर्बोच्चत्वेन अर्द्धतृतीयानि योजनशतान्युद्वेधेन सर्वत्र समःतुल्योऽधोमध्योर्ध्वदेशेषु सहस्रसहनविस्तारकत्वात्, अतएवपल्यङ्कसंस्थानसंस्थितः, पल्यऋश्चललाटदेशप्रसिद्धो वंशदलेन निर्मापितो धान्याधारकोष्ठकः, एकंयोजनसहनमायामविष्कम्भाभ्यां त्रीणियोजनसहस्राणि एकंच द्वाषष्टयधिकंयोजनशतं किञ्चिद्विशेषेण करणवशादागतेन सूत्रानिद्दिष्टेन राशिनाअधिकंपरिक्षेपेण प्रज्ञप्त, सर्वात्मना रत्नमयः, कैचन रजतमयान्वृत्तवैताढयानाहुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy