________________
२७८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२५ ॥१॥ "तत्र च प्रेक्षमाणस्य, स्वं वपुर्भरतेशितुः ।
अङ्गुल्या एकतमस्या, निपपातांगुलीयकम् ॥ ॥२॥
तदंगुल्या गलितमप्यंगुलीयं महीपति।
नाज्ञासीदर्हिणो बहभारादर्हमिवैककम् ॥ ॥३॥ वपुः पश्यन क्रमेणेक्षांच्के तां चयनूमिकाम् ।
अंगुली गलितज्योत्स्नां, दिवा शशिकलामिव ।। ॥४॥ अहो विशोभा किमसावंगुलीति चिचिन्तयन्।
ददर्श पतितं भूमावंगुलीयं नरेश्वरः॥ किमन्यान्यपि विशोमान्यङ्गान्याभरणैर्विना ।
इति मोक्तुंस आरेभे, भूषणान्यपराण्यपि।। __इति, एवं प्रवृत्तस्य तस्य किमजनीत्याह-'तए णमित्यादि, ततो-वपुस्तभूषणमोचनानन्तरं तस्य भरतस्य राज्ञः शुभेन परिणामने । ॥१॥
"अन्तःक्लिनस्य विष्ठाद्यैर्मलैः स्रोतोमवैहि ।
चिन्त्यमानं किमप्यस्य, शरीरस्य न शोभनम् ॥ ॥२॥
इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि।
दूषयत्येव पाथोदपयांस्यूषरभूरिव ॥ ॥३॥ ययातः संस्कृतं धान्यं, तन्मध्याह्ने विनश्यति ।
तदीयरसनिष्पन्ने, काये का नाम सारता ॥ इति शरीरासारत्वभावनारूपयाजीवपरिणत्याप्रशस्तैरध्यवसानैः-उक्तस्व-रूपैरमनःपरिणामः लेश्याभिः-शुक्लादिद्रव्योपहितजीवपरिणतिरूपाभिर्विशुद्धयन्तीभि-उत्तरोत्तरविसुद्धिमापद्यमानाभिरापद्यमानाभिर्निरावरणवपु (रुप्यविषयकमीहापोहमार्गणागेषणं कुर्वतस्तदावरणीयानां-केवलज्ञानदर्शननिबन्दकानां चतुर्णां घातिकर्मणां क्षयेणसर्वथा जीवप्रदेशेभ्यः तदीयपुद्गलपरिशाटनेनप्राग्व्याख्यातानुत्तरादिविशेषणविशिष्टं केवलज्ञानदर्शन-मुत्पन्नमिति, कीशमित्याह
कर्मरजसांविकिरणकरं-विक्षेपकरं, कीशस्य भरतस्य?-अपूर्वकरणं अनादौसंसारेऽप्राप्तपूर्व ध्यानं शुक्लध्यानं प्रविष्टसा प्राप्तस्येत्यर्थः, अत्र च ईहादिपदेषु समाहारद्वन्द्वः, तत्रावग्रहपूर्वक- त्वादीहादीनां प्रथमं तदुल्लेखः, तथाहि-अये! इह निरलंकारे वपुषि शोभा न दृश्यते इत्यवग्रहः, यथा दूरस्थपुरोवर्त्तिनि वस्तुनि किमिदमिति भावः, अथ सा शोभा औपाधिकी वा नैसर्गिकी वा इत्यवगृहीतार्थाभिमुखा मतिचेष्टा पर्यालोचनरूपा ईहा, यथा तत्रैव स्थाणुर्वा पुरुषो वा, नन्वियं संशयाकारतया संशय एव, स च कथमुत्तरकालभावनिसम्यग्निश्चयापरपर्यायस्यापोहस्य हेतुर्भवति, विरुद्धकोटयवगाहित्वादिति?, उच्यते, उत्कटकोटिकसंशयरूपत्वेनास्याः सम्भावनारूपाया निश्चयकारणत्वस्याविरुद्धत्वात्, इयमौपाधिक्येव न नैसर्गिकी बाह्यवस्तुसंसर्गजन्यत्वस्य प्रत्यक्षसिद्धत्वात् इति ईहितविशेषनिर्णयरूपोऽपोहः, यथा तत्रैव स्थाणुरेवायं न पुरुष इति, अस्याः प्रकर्षापक| बाह्यवस्तुप्रकर्षापकर्षानुविधायिनावित्यन्वय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org