________________
२६६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२१ वर्षन्ति, वज्राणि-हीरकाणि, पुनः प्रविशतो राज्ञो यदभूत्तदाह-'तए णमित्यादि, ततस्तस्य भरतस्य राज्ञो विनीतां राजधानी मध्यंमध्येनानुप्रविशतः श्रृङ्गाटकादिषु यावच्छब्दादत्र त्रिकचतुष्कादिग्रहः महापथपर्यन्तेषु स्थानेषु बहवोऽर्थिप्रभृतयस्ताभिरुदारादिविशेषणविशिष्टाभिर्वाग्भिरभिनन्दयन्तश्चाभिष्टुवन्तश्च एवमवादिषुरिति सम्बन्धः, तत्र श्रृङ्गाटकादिव्याख्या प्राग्वत्, अर्थार्थिनो-द्रव्यार्थिनो-द्रव्यार्थिनः कामार्थिनो-मनोज्ञशब्दरूपार्थिनः भोगार्थिनोमनोज्ञगन्धरसस्पर्शार्थिनः लाभार्थिनो-भोजनमात्रादिप्राप्तयर्थिनः ऋद्धिं--गवादिसंपदं इच्छन्त्येषयन्ति वा ऋद्धयेषाः स्वार्थिकेकप्रत्ययविधानात्ऋद्धयेषिकाः किल्बिषिकाः-परविदूष कत्वेन पापव्यवहारिणोभाण्डादयः कारोटिकाः-कापालिकाः ताम्बूलस्थगीवाहका वा करंराजदेयं द्रव्यं वहन्तीत्येवंशीलाः कारवाहिनस्त एव कारवाहिकाः कारबाधिता वा शांखिकादयः शब्दाः श्रीऋषभनिष्क्रमणमहाधिकारे व्याख्याताइतिततो व्याख्येया इति, अथ ते किमवादिषुरित्याह
__'जयजयनन्दा!' इत्यादि पदद्वयंप्राग्वत्, भद्रते-तुभ्यंभूयादितिशेषः, अजितंप्रतिरिपुं जय जितं-आज्ञावशंवदं पालय, जितमध्ये-आज्ञावशंवदमध्येवस-तिष्ठविनीतपरिजनपरिवृतो भूया इत्यर्थः, इन्द्र इव देवानां-वैमानिकानांमध्ये एश्वर्यभृत्, चन्द्रइव ताराणां-ज्योतिष्काणां चमरइवासुराणां दाक्षिणात्यानामित्यर्थः, एवं धरण इव नागानामित्यत्रापिज्ञेयं, अन्यथा सामान्यतोऽसुराणामित्युक्ते बलीन्द्रस्य नागानामित्युक्ते च भूतानन्दस्योपानत्वेनोपन्यासो युक्तिमान् स्यात्, दाक्षिणात्येभ्य उदीच्यानामधिकतेजस्कत्वात्, बहूनि शतसहस्राणियावद् बहीः पूर्वकोटी: बव्हीः पूर्वकोटाकोटीः विनीताया राजधान्याः क्षुल्लहिमवदिरिसागरमर्यादाकस्य केवलकल्पस्य भरतवर्षस्य ग्रामाकरनगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसन्निवेशेषु सम्यक् प्रजापालनेनोपार्जितं-सल्लब्धं निजभुजवीर्यार्जितं, न तु नमुचिनेव सेवाद्युपायलब्धं यशो येन स तथा, 'महया जाव"त्तियावत्पदात् ‘हयनट्टगीआवाइअतंतीतलतालतुडिअघणमुइंगपडुप्पवाइअरवेणंविउलाई भोगभोगाइं मुंजमाणे' इति संग्रहः, आधिपत्यं पौरपत्यं अत्रापि यावत्पदात् 'सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे'त्ति ग्राह्यं, अत्र व्याख्या प्राग्वत्, विचर इति कृत्वा जयजयशब्दं प्रयुञ्जन्ति । अथ विनीतां प्रविष्टः सन् भरतः किं कुर्वन् कवाजगामेत्याह
'तएणं से भरहे राया नयनमालासहस्सेहिं पिच्छिजमाणे २' इत्यादि, ततः स भरतो राजा नयनमालासहनैः प्रेक्ष्यमाण २ इत्यादिविशेषणपदानि श्रीऋषभनिष्क्रमणमहाधिकारे व्याख्यातानीतिततोज्ञेयानि, नवरं 'अंगुलिमालासहस्सेहिं दाइजमाणे २' इत्यत्र जनपदागतानांजनानां पौरजनैर-मुलिमालासहस्रर्दयमान इत्यपि, यत्रैव स्वकं गृहं-पित्र्यः प्रासादः यत्रैव च भवनवरावतंसकं-जगद्वर्तिवासगृहशेखरभूतंराजयोग्यं वासगृहमित्यर्थः तस्यप्रतिद्वारंतत्रैवोपागच्छति, ततः किं करोतीत्याह-उपागत्य आभिषेक्यंहस्तिरत्नस्थापयतिस्थापयित्वाच तस्मात्प्रत्यवरोहति, प्रत्यवरुह्य च विसर्जनीयजनो हि वसर्जनावसरेऽवश्यं सत्कार्य इति विधिज्ञो भरतः षोडश देव. सहनान्सत्कारयतिसन्मानयति, ततोद्वात्रिंशतंराजसहस्रान्, ततः सेनापतिरत्न-गृहपतिरलादीनि त्रीणि सत्कारयति सन्मानयति,ततःत्रीणिषष्टानि-षष्ट्यधिकानि सूपशतानि-रसवतीकारशतानि
ततः अष्टादश श्रेणिप्रश्रेणीः ततः अन्यानपि बहून् राजेश्वरतलवरादीन् सत्कारयति सन्मानयति सत्कार्य सन्मान्य च पूर्णे उत्सवेऽतिथीनिव प्रतिविसर्जयति, अथ यावत्परिच्छदो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org