SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - ३ २५५ नवजोअणविच्छिण्णं जाव विजयक्खंधावारणिवेसं करेइ, अवसिद्धं तं चैव जाव निहिरयणाणं अट्ठमभत्तं पगिण्हइ, तए णं से भरहे राया पोसहसालाए जाव निहिरयणे मनसि करेमाणे करेमाणे चिट्ठइत्ति, तस्स य अपरिमिअरत्तरयणा धुअमक्खयमव्वया सदेवा लोकोपचयंकरा उवगया नव निहिओ लोगविस्सुअजसा, तंजहा वृ. 'तएण 'मित्यादि, ततो- गुहानिर्गमानन्तरं स भरतो राजा गङ्गाया महानद्याः पश्चिमे कूले द्वादशयोजनायामं नवयोजनविस्तीर्णं यावतपदात् 'वरणगरसरिच्छं' इति ग्राह्यं, विजयस्कन्धावारनिवेशं करोति, अवशिष्टं - वर्द्धकिरत्नशब्दाज्ञापनामष्टमभक्तं प्रगृहाति, ततः स भरतो राजा पौषधशालायां यावत्पदात् 'पोसहि' इत्यादिकं 'एगे अबीए' इत्यन्तं पदकदम्बकं ग्राह्यं, निधिरत्नानि मनसि कुर्वन् २ तिष्ठति, इत्थमनुतिष्ठतस्तस्य किं जातमित्याह- 'तस्य य' इत्यादि, तस्य - भरतस्य शब्दोऽर्थान्तरारम्भे नव निधयः उपागताः उपस्थिता इत्यन्वयः किंभूताः ? - अपरिमितानि रक्तानि उपलक्षणादनेकवर्णानि रत्नानि येषु ते तथा, इदं च विशेषणं तन्मतापेक्षया बोध्यं यन्मते निधिष्वनन्तरमेव वक्ष्यमाणाः पदार्था साक्षादेवोत्पद्यन्ते इति, अयमर्थः " एकेषां मते नवसु निधिषु कल्पपुस्तकानि शाश्वतानि सन्ति, तेषु च विश्वस्थितिराख्यायते, कषांचिततु मते कल्पपुस्तकप्रतिपाद्याः अर्थाः साक्षादेव तत्रोत्पद्यन्ते इति, एनयोरपरमतापेक्षया अपरिमिए इत्यादि विशेषणमिति, तथा ध्रुवास्तथाविधंपुस्तक वैशिष्टयरूपस्वरूपस्यापरिहाणेः अक्षयाः अवयविद्रव्यस्यापरिहाणे - अव्ययास्तदारम्भकप्रदेशापरिहाणेः, अत्र प्रदेशापरिहाणियुक्ति समयसवादिनी पद्मवर वेदिकाव्याक्यासमये निरूपितेति ततोऽवसेया, अत्र पदद्वये मकारोऽलाक्षणिकः, ततः पदत्रयकर्मधारयः सदेवा अधिष्ठायकदेवकृतसान्निध्या इति भावः लोकोपचयङ्कराः अत्र नवा खितकृदन्ते 'रात्रे' रिति सूत्रे योगविभागेन व्याख्याने तीर्थकरादिशब्दवत् साधुत्वं ज्ञेयं यद्वा 'देवनागसुवण्णकिंनरगणस्सब्यूअभावच्चिए' इत्यादिवदार्षत्वादनुस्वारे लोकोपचयकराः-वृत्तिकल्पककल्पपुस्तकप्रतिपादनेन लोकानां पुष्टिकारकाः लोकविख्यातयशस्का इति, अथ नामतस्तानुपदर्शयति , मू. (१०६) "नेसप्पे १ पंडुअए २ पिंगलए २ सव्वरयण ४ महपउमे ५ । काले ६ अ महाकाले ७ मानवगे महानिही ८ संखे ९ ॥ वृ. तद्यथेत्युपदर्शने नैसर्प्यस्य देवविशेषस्यायं नैसप्प, एवमग्रेऽपि भाव्यं, अथ यत्र निधी यदाख्यायते तदाहमू. (१०७) नेसम्पंमि निवेसा गामागरनगरपट्टणाणं च । दोणमुहमडबाणं खंधावारावणगिहाणं । वृ. 'नेसप्प' मित्यादि, नैसर्प्यनामनि निधौ निवेशा:- स्थापनानि स्थापनविधयो ग्रामादीनां गृहपर्यन्तानां व्याख्यायन्ते तत्र ग्रामो - वृत्यावृतः आकरो - यत्र लवणाद्युत्पद्यते नगरं - राजधानी पत्तनं -- रत्नयोनिर्द्रोणमुखं - जलस्थलनिर्गमप्रवेशं मडम्बं अर्द्धतृतीयगव्य॒तान्तग्रमरहितं स्कन्धावारः - कटकं आपणो हट्टः, गृहं भवनं उपलक्षणात् खेटकर्बटादिग्रहः । गणिअस्स य उप्पत्ती माणुम्माणस्स जं पमाणं च । पू. (१०८) धण्णस्स य बीआण य उप्पत्ती पंडुए भणिआ । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy