SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - ३ ? किरातानामग्रयाणि वराणि रत्नानि प्रतीच्छति- गृह्णाति प्रतीच्छय च तानापातकिरातानेवमवादीत् गच्छत भो ! देवानुप्रियाः यूयं स्वस्थानमिति शेषः मम बाहुच्छायया परिगृहीता:-- स्वीकृताः मया शिरसि दत्तहस्ताः निर्भया निरुद्विग्नाः- उद्वेगरहिताः सुखंसुखेन परिवसत, अत्र 'छायायां हो कान्तौ वा' इत्यनेन सूत्रेण वैकल्पिकविधित्वान्न हकारत्वं, नास्ति भे-भवतां कुतोऽपि भयमिति कृत्वा सत्कारयति सन्मानयति सत्कृत्य सन्मान्य च प्रतिविसर्जयति-स्वस्थानगमनयादिदिशति । अथ किरातसाधनोत्तरकालं नरेन्दुः किं चक्रे इत्याह 'तणं से भरहे राया सुसेण' इत्यादि, ततः - किरातसाधनानन्तरं भरतः सुषेणं सेनापतिं शब्दयति, शब्दयित्वा च एवमवादीत् गच्छ भो देवानुप्रिय ! द्वितीयं अपि समुच्चये पूर्वधितनिष्कुटापेक्षया सिन्ध्वा महानद्याः पश्चिमं - पश्चिमभागवर्त्ति निष्कुटं प्राग्व्यावर्णितस्वरूपं सिन्धुः नदी सागरः - पश्चिमाब्धि उत्तरतः क्षुल्लहिमवद्गिरिर्दक्षिणतो वैताढ्यगिरिश्च तैर्मर्यादा य्य तत्तथा, एतैः कृतविभागमित्यर्थः, शेषंप्राग्वत्, लाघवार्थमतिदेशसूत्रमाह- 'जहा दाहिणिल्ल'इत्यादि, यथा दाक्षिणात्यस्य सिन्धुनिष्कुटस्य ओअवणं-साधनं तथा सर्वं भणितव्यं, तावद्वक्तव्यं यावत्सेनानीर्भरतविसृष्टः पञ्चविधान् कामभोगान् प्रत्यनुभवन् विहरति । अथ तदनन्तरं किं जातमित्याह मू. (९६) तए णं दिव्वे चक्करयणे अन्नया कयाइ आउहधरसालाओ पडिनिक्खमइ २ ता अंतलिक्खपडिवण्णे जाव उत्तरपुरच्छिमं दिसिं चुल्लहिमवंतपव्वयाभिमुहे पयाते आवि होत्था, तए से भर हे राया तं दिव्व चक्करयणं जाव चुल्लहिमवंतवासहरपव्वयस्स अदूरसामंते दुवालसजोअणायामं जाव चुल्लहिमवंतगिरिकुमारस्स देवस्स अट्ठमभत्तं परिण्हइ । २४७ - तहेव जहा मागहतित्थस्स जाव समुद्दरवभूअपिव करेमाणे २ उत्तरदिसाभिमुहे जेणेव चुल्लहिमवंतवासहरपव्वए तेणेव उवागमच्छइ २ ता चुल्लहिमवंतवासहरपव्ययं तिक्खुत्तो रहसिरेणं फुसइ फुसित्ता तुरए निगिण्हइ निगिण्हित्ता तहेव जाव आयतकण्णायतं च काऊण उसुमुदारं इमाणि वयणाणि तत्थ भाणीअ से णरवई जाव सव्वे मे ते विसयवासित्तिकट्टु उद्धं वेहासं उसुं निसिरइ परिगरणिगरिअमझे जाव तए णं से सरे भरहेणं रण्णा उड्डुं वेहासं निसट्टे समाणे खिप्पामेव बावत्तरिं जो अणाई गंता चुल्लहिमवंतगिरिकुमारस्स देवस्स मेराए निवइए । तए से चुल्लहिमवंतगिरिकुमारे देवे मेराए सरं निवइअं पासइ २ त्ता आसुरुते रुडे जाव पीइदानं सव्वोसहिं च मालं गोसीसचंदनं कडगाणि जाव दहोदगं च गेण्हइ २ ता ताए उक्किट्ठाए जाव उत्तरेणंचुल्लहिमवंतगिरिमेराए अहण्णं देवामुष्पिआणं विसयवासी जाव अहण्णं देवाणुप्पिआणं उत्तरिल्ले अंतवाले जाव पडिविसञ्जेइ । वृ. 'तए णं दिव्वे चक्करयणे' इत्यादि, ततः - औत्तराहसिंधुनिष्कुटसाधनानन्तरं तद्दिव्यं चक्ररनं अन्यदा कदाचित् आयुधगृहशालातः प्रितनिष्क्रामति प्रतिनिष्क्रम्य च अंतरिक्षप्रतिपन्नं यावत्पदात् 'जक्खसहस्ससंपरिवुडे दिव्वतुडिअसद्दसण्णिणाएणं पूरन्ते चेव अंबरतल' मिति, उत्तरपूर्वस्यां दिशि- ईशाने कोणे क्षुद्रहिमवत्पर्वताभिमुखं प्रयातं चाप्यभवत्, ततः- शिबिरनिवेशात् क्षुद्रहिमवदिरिमध्यं यियासोः उत्तरपूर्वायां चलनमेव ऋजुमार्ग, ततो नरेन्दुर्यत्कृतवांस्तदाह'तए णं से भरहे राया तं दिव्वं चक्करयण' मित्यादि, ततः स भरतस्तद्दिव्यं चक्ररलं अभिक्षुद्रहिमवदिरि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy