________________
वक्षस्कारः -३
२४५
-
कार्ये किंबहु अधिक्षिपामः? तस्य क्रियान्तरापादनेन संस्कारानहत्वात्, इतः क्षिप्रमेवापनामतमत्कुणा इवापयात, अथवेति विकल्पान्तरे यदि नापकामत तर्हि अद्य-साम्प्रतमेव पश्यत चित्रं जीवलोकं-वर्तमानभवादन्यं भवं पृथिवीकायिकादिकं, अपमृत्युं प्राप्नुतेत्यर्थः, क्रियादेशेऽत्र पञ्चमीप्रयोगः, ननु निरुपक्रमायुषांदेवानामपमृत्योरसम्भवात्सबाधमिदंवचनं,उच्यते, सूत्राणां विचित्रत्वेन भयसूत्रत्वेन विवक्षणान्न दोषः । 'तए ण'मित्यादि, सर्व प्राग्वत्, नवरं मेघानीकं प्रतिसंहरन्ति-घनघटामपहरन्ति, वृष्ट्युपरमेचततः सम्पुटाच्चक्रिसैन्यंनिर्गच्छदुपलभ्यलौकिकैरुक्तं ब्रह्मणा सृष्टमिदमण्डकंततइयंजगतःप्रसूतिरित्येवं सर्वत्र प्रवादोऽभूत्ततोऽपिच ब्रह्माण्डपुराणं नाम शास्त्रमभूदिति प्रसङ्गादोध्यमिति,
अपयदुक्तमेवंक्यासित्ति तत्र किमवादिषुरित्याह-'तए न’-मित्यादि, हे देवानुप्रिया! एष भरतो राजा महर्द्धिको यावन्नो खलु एष शक्यते देवादिभिरस्त्रप्रयोगादिभिर्यावन्निषेधयितुं सयापिअस्माभिर्देवानुप्रिया! युष्माकंप्रीत्यर्थ भरतस्य राज्ञ उपसर्गकृतः, तद्गच्छत देवानुप्रिया! यूयं स्नानादिविशेषणाः आर्ची-सद्यःस्नानव-शाजलक्लिन्नौ पटशाटकी-उत्तरीयपरिधाने येषां ते तथा, एतेन सेवाविधावविलम्बः सूचितः, अवचूलकं अधोमुखाचलं मुलाञ्चलं यथा भवत्येवं नियत्थं येषां ते तथा, एतेन परिहितवस्त्रबन्ध-नकालावध्यपि न विलम्बो विधेय इति सूचितं, अथवाऽनेनाबद्धकच्छत्वं सूचितं, तदुपदर्शनेन स्वदैन्यं दर्शितमिति, बद्धकच्छत्वदर्शने हि उत्कटत्वसम्भावनायाजनप्रसिद्धत्वात्, अग्रयाणिवराणि रलानिगृहीत्वा प्राञ्जलिकृताः कृतप्राजलयः पादपतिताः-घरणन्यस्तमौलयो भरतं राजानं शरणमुपेत-यात प्रणिपतितवत्सलाःप्रणम्रजनहितकारिणः खलु उत्तमपुरुषाः, नास्ति भे-भवतांभरतस्य राज्ञोऽन्तिकादयमिति कृत्वा इति उदित्वेत्यर्थ यस्या दिशः प्रादुर्भूतास्तामेव दिशं प्रति गता इति ।
____ अथ भग्नेच्छा म्लेच्छा यच्चक्रुस्तदाह-'तएण'मित्यादि, सर्वंगतार्थं, नवरंरलान्युपनयन्तिप्राभृतीकुर्वन्तीत्यर्थः, अथ यदुक्तं एवं वयासित्ति तत्र किमवादिषुरित्याहमू (११) वसुहर गुणहर जयहर, हिरिसिरिधीकिततिधारकमरिंद।
लक्खणसहस्सधारक रायमिदं ने चिरं धारे। 'वसुहर इत्यादि, हे वसुधर!-द्रव्यधर षट्खण्डवर्त्तिद्रव्यपते इतियावत्, अथवा तेजोधरगुणधर-गुणवान् जयधर-विद्वेषिभिरधर्षणीय! हीः-लज्जा श्रीः-लक्ष्मीधृतिः-सन्तोषः कीर्ति-वर्णवादः एतेषा धारक नरेन्द्रलक्षणसहस्राणां-अनेकलक्षणानां धारक नो-अस्माकं राज्यमिदं चिरं धारय-पालय इत्यर्थः, अस्मद्देशाधिपतिर्भव चिरकालं यावदितिप्रथमगाथार्थः। मू. (९२) हयवइ गयवइ नरवइ नवनिहिवइ भरहवासपढमवई।
बत्तीसजणवयसहस्सराय सामी चिरंजीव ।। वृ. 'हयवइ गयवई' इत्यादि, हे हयपते! गजपते! हे नरपते ! नवतनिधिपते ! हे भरतवर्षप्रथमपते! द्वात्रिंशजनपदसहस्राणां-देशसहस्राणां ये राजानस्तेषां स्वामिन् ! चिरंजीव २ इति द्वितीयगाथार्थः। मू. (९३) पढमणरीसर ईसर हिअईसर महिलिआसहस्साणं ।
__देवसयसाहसीसर चोद्दसरयणीसर जसंसी ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org