________________
२२२
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३ / ७७
राजेश्वरादयो जनाः सुषेणं सेनापतिं पृष्ठतोऽनुगच्छन्ति, सर्वं चात्र भरतस्य चक्ररत्नाच चिकीर्षोरिव वाच्यं एवं चेटीसूत्रमपि पूर्ववदेव, नवरं किंलक्षणाश्चेटयः ? – इङ्गितेन नयनादिचेष्टयैव आस्तां कथनादिभिः चिन्तितं- प्रभुणा मनसि संकल्पितं यद्यप्रार्थितं तत्तत् जानन्ति यास्ताः तथा निपुणकुशलाः - अत्यन्तकुशलाः तथा विनीता - आज्ञाकारिण्यः अप्येकका चन्दनकलशहस्तगता इत्यादि, 'तए ण'मित्यादि, ततस्तमिस्रगुहाभिमुखचलनानन्तरं स सुषेणः सेनापति सर्व्वद्धर्या सर्वयुक्त्या सर्वधुत्या वा यावन्निर्घोषनादितेन यत्रैव तमिम्नगुहाया दाक्षिणात्यस्य द्वारस्य कपाटी तत्रैवोपागच्छति, उपागत्य च आलोके-दर्शने प्रमाणं करोति, तदनु सर्वं चक्ररलपूजायामिव वाच्यं, यावदन्ते पुनरपि कपाटयोः प्रनामं करोति, नमनीयवस्तुन उपचारे क्रियमाणे आदावन्ते च प्रनामस्य शिष्टव्यवहारौचित्यात्, प्रनामं कृत्वा च दण्डरनं परामृशति, अथावसरागतं दण्डरत्नस्वरूपं निरूपयन् कथां प्रबध्नाति
'तए ण 'मित्यादि, ततो- दण्डरत्नपरामर्शानन्तरं तद्दण्डरलं- दण्डेषु दण्डजातीयेषु रत्नं - उत्कृष्टं अप्रतिहतं कचिदपि प्रतिघातमनापन्नं दण्डनामकं रत्नं गृहीत्वा सप्ताष्टपदानि प्रत्यवष्वष्कते - अपसर्पतीत्यनेन सम्बन्धः, अथ कीदृशं तदित्याह--रत्नमय्यः पञ्चलतिकाःकत्तलिकारूपा अवयवा यत्र तत्तथा, वज्ररत्नस्य यत्सारं- प्रधानद्रव्यं तन्मयं तद्दलिकमित्यर्थः, विनाशनं सर्वशत्रुसेनानां, नरपतेः स्कन्धावारे प्रस्तावाद् गन्तु प्रवृत्ते सति गर्त्तादीनि प्राग्भारान्तपदानि प्राग्वत् गिरयः पर्वताः, अत्र विशेषणानभिधानेऽपि प्रस्तावाद् गिरिशब्देन क्षुद्रगिरयो ग्राह्याः, ये सञ्चरतः सैन्यस्य विघ्नकराः यात्रोन्मुखानां राज्ञां त एवोच्छेद्याः, महागिरयस्तु तेषामपि संरक्षणीया एव, प्रपाता- गच्छजनस्खलनहेतवः पाषाणाः भृगवो वा तेषां समीकरणं समभागापादकमित्यर्थः, शान्तिकरं - उपद्रवोपशामकं, ननु यद्युपद्रवोप- शामकंतर्हि सति दण्डरले सगरसुतानांज्वलनप्रभनागाधिपकृतोपद्रवो न कथमुपशशामेति, उच्यते ।
सोपक्रमोपद्रवविद्रावण एव तस्य सामर्थ्यात्, अनुपक्रमोपद्रवस्तु सर्वथाऽनपासनीय एव, अन्यथा विजयमाने वीरदेवे कुशिष्यमुक्ता तेजोलेश्या सुनक्षत्रसर्वानुभूती अनगारौ कथं भस्मतां निनाय ?, अत एवावश्यंभाविनो भावा माहनुभावैरपि नापनेतुं शक्या इति, शुभकरं - कल्याणकरं हितकरं-उक्तैरेव गुणैरुपकारि राज्ञः - चक्रवर्त्तिनो हदयेप्सितमनोरथपूरकं गुहाकपाटोदघाटनादिकार्यकरणसमर्थत्वात् दिव्यं यक्षसहस्राधिष्ठितमित्यर्थः, अत्र सेनापतेः सप्ताष्टपदापसरणं प्रजिहीर्षोर्गजस्येव ध्ढप्रहारदानायाधिकप्रहारकरणार्थमिति, प्रत्यवष्वष्कणादनु किं चक्रे इत्याह
'पच्चोसक्कित्ता' इत्यादि, परत्यवष्वष्कय् च तमिनगुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ दण्डरलेन महता २ शब्देन त्रिकृत्वेः - त्रीन् वारान् आकुट्टयति-ताडयति, अत्र इत्थंभावे तृतीया, यथा महान् शब्द उत्पद्यते तथाप्रकारेण ताडयतीत्यर्थः, अत्र गुहाकपाटोदघाटनसमये द्वादशयोजनावधिसेनानीरत्नतुरगापसरणप्रवादस्तु आवश्यक टिप्पनके निराकृतोऽस्ति, यथा- "यश्चात्र द्वादशयोजनानि तुरगारूढः सेनापति शीग्रमपसरतीत्यादिप्रवादः सोऽनागामिक इव लक्ष्यते, कचिदप्यनुपलभ्यमानत्वादिति" ततः कि जातमित्याह
'तए ण' मित्यादि, ततः - ताडनादनु तमिम्नगुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ सुषेणसेनापतिना दण्डर लेन महता २ शब्देनाकुट्टितौ सन्तौ महता २ शब्देन दीर्घतरनिनादिनः क्रौंचस्येव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org